🪷 Mahābhārata · Anuśāsana-Parva · Chapter 122

The Book of the Final Teaching · Parva 13 · 16 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 16 Shlokas

MBh 13.122.1
भीष्म उवाच एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः
MBh 13.122.2
असंशयं महाप्राज्ञ यथैवात्थ तथैव तत् अनुज्ञातस्तु भवता किंचिद्ब्रूयामहं विभो
MBh 13.122.3
व्यास उवाच यद्यदिच्छसि मैत्रेय यावद्यावद्यथा तथा ब्रूहि तावन्महाप्राज्ञ शुश्रूषे वचनं तव
MBh 13.122.4
मैत्रेय उवाच निर्दोषं निर्मलं चैव वचनं दानसंहितम् विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः
MBh 13.122.5
भवतो भावितात्मत्वाद्दायोऽयं सुमहान्मम भूयो बुद्ध्यानुपश्यामि सुसमृद्धतपा इव
MBh 13.122.6
अपि मे दर्शनादेव भवतोऽभ्युदयो महान् मन्ये भवत्प्रसादोऽयं तद्धि कर्म स्वभावतः
MBh 13.122.7
तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम् त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः
MBh 13.122.8
तस्मिंस्तृप्ते च तृप्यन्ते पितरो दैवतानि च न हि श्रुतवतां किंचिदधिकं ब्राह्मणादृते
MBh 13.122.9
यथा हि सुकृते क्षेत्रे फलं विन्दति मानवः एवं दत्त्वा श्रुतवति फलं दाता समश्नुते
MBh 13.122.10
ब्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम्
MBh 13.122.11
अदन्ह्यविद्वान्हन्त्यन्नमद्यमानं च हन्ति तम् तं च हन्यति यस्यान्नं स हत्वा हन्यतेऽबुधः
MBh 13.122.12
प्रभुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः स चान्नाज्जायते तस्मात्सूक्ष्म एव व्यतिक्रमः
MBh 13.122.13
यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः
MBh 13.122.14
यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते
MBh 13.122.15
ये योनिशुद्धाः सततं तपस्यभिरता भृशम् दानाध्ययनसंपन्नास्ते वै पूज्यतमाः सदा
MBh 13.122.16
तैर्हि सद्भिः कृतः पन्थाश्चेतयानो न मुह्यते ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 16 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.122local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷