🪷 Mahābhārata · Anuśāsana-Parva · Chapter 123

The Book of the Final Teaching · Parva 13 · 19 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 19 Shlokas

MBh 13.123.1
भीष्म उवाच एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी लोको ह्ययं गुणानेव भूयिष्ठं स्म प्रशंसति
MBh 13.123.2
रूपमानवयोमानश्रीमानाश्चाप्यसंशयम् दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः यत्ते भृशतरं दानाद्वर्तयिष्यामि तच्छृणु
MBh 13.123.3
यानीहागमशास्त्राणि याश्च काश्चित्प्रवृत्तयः तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम्
MBh 13.123.4
अहं दानं प्रशंसामि भवानपि तपःश्रुते तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम्
MBh 13.123.5
तपसा महदाप्नोति विद्यया चेति नः श्रुतम् तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम्
MBh 13.123.6
यद्यद्धि किंचित्संधाय पुरुषस्तप्यते तपः सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः
MBh 13.123.7
दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम् सर्वं वै तपसाभ्येति तपो हि बलवत्तरम्
MBh 13.123.8
सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः तपसा तरते सर्वमेनसश्च प्रमुच्यते
MBh 13.123.9
सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशः तपस्विनौ च तावाहुस्ताभ्यां कार्यं सदा नमः
MBh 13.123.10
सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम्
MBh 13.123.11
इमं च ब्रह्मलोकं च लोकं च बलवत्तरम् अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः
MBh 13.123.12
पूजिताः पूजयन्त्येतान्मानिता मानयन्ति च अदाता यत्र यत्रैति सर्वतः संप्रणुद्यते
MBh 13.123.13
अकर्ता चैव कर्ता च लभते यस्य यादृशम् यद्येवोर्ध्वं यद्यवाक्च त्वं लोकमभियास्यसि
MBh 13.123.14
प्राप्स्यसे त्वन्नपानानि यानि दास्यसि कानिचित् मेधाव्यसि कुले जातः श्रुतवाननृशंसवान्
MBh 13.123.15
कौमारदारव्रतवान्मैत्रेय निरतो भव एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम्
MBh 13.123.16
यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते
MBh 13.123.17
अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा दानेन तपसा चैव सर्वपापमपोह्यते
MBh 13.123.18
स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम् एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति
MBh 13.123.19
तं प्रणम्याथ मैत्रेयः कृत्वा चाभिप्रदक्षिणम् स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 19 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.123local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷