🪷 Mahābhārata · Anuśāsana-Parva · Chapter 119

The Book of the Final Teaching · Parva 13 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 23 Shlokas

MBh 13.119.1
व्यास उवाच शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे
MBh 13.119.2
अहं हि दर्शनादेव तारयामि तपोबलात् तपोबलाद्धि बलवद्बलमन्यन्न विद्यते
MBh 13.119.3
जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम् अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे
MBh 13.119.4
कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये धर्मादपि मनुष्येषु कामोऽर्थश्च यथा गुणैः
MBh 13.119.5
वाग्बुद्धिपाणिपादैश्चाप्युपेतस्य विपश्चितः किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः
MBh 13.119.6
जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि
MBh 13.119.7
गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे तत्र तेऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि
MBh 13.119.8
स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु
MBh 13.119.9
श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु
MBh 13.119.10
स कीटेत्येवमाभाष्य ऋषिणा सत्यवादिना प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः
MBh 13.119.11
कीट उवाच इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः यदहं प्राप्य कीटत्वमागतो राजपुत्रताम्
MBh 13.119.12
वहन्ति मामतिबलाः कुञ्जरा हेममालिनः स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः
MBh 13.119.13
उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम्
MBh 13.119.14
गृहेषु सुनिवासेषु सुखेषु शयनेषु च परार्ध्येषु महाभाग स्वपामीह सुपूजितः
MBh 13.119.15
सर्वेष्वपररात्रेषु सूतमागधबन्दिनः स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः
MBh 13.119.16
प्रसादात्सत्यसंधस्य भवतोऽमिततेजसः यदहं कीटतां प्राप्य संप्राप्तो राजपुत्रताम्
MBh 13.119.17
नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया
MBh 13.119.18
व्यास उवाच अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिता
MBh 13.119.19
न तु नाशोऽस्ति पापस्य यत्त्वयोपचितं पुरा शूद्रेणार्थप्रधानेन नृशंसेनाततायिना
MBh 13.119.20
मम ते दर्शनं प्राप्तं तच्चैव सुकृतं पुरा तिर्यग्योनौ स्म जातेन मम चाप्यर्चनात्तथा
MBh 13.119.21
इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि गोब्राह्मणकृते प्राणान्हुत्वात्मीयान्रणाजिरे
MBh 13.119.22
राजपुत्रसुखं प्राप्य ऋतूंश्चैवाप्तदक्षिणान् अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी
MBh 13.119.23
तिर्यग्योन्याः शूद्रतामभ्युपैति; शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं; स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 23 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.119local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷