🪷 Mahābhārata · Anuśāsana-Parva · Chapter 118

The Book of the Final Teaching · Parva 13 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 28 Shlokas

MBh 13.118.1
युधिष्ठिर उवाच अकामाश्च सकामाश्च हता येऽस्मिन्महाहवे कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह
MBh 13.118.2
दुःखं प्राणपरित्यागः पुरुषाणां महामृधे जानामि तत्त्वं धर्मज्ञ प्राणत्यागं सुदुष्करम्
MBh 13.118.3
समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः
MBh 13.118.4
भीष्म उवाच समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे संसारेऽस्मिन्समाजाताः प्राणिनः पृथिवीपते
MBh 13.118.5
निरता येन भावेन तत्र मे शृणु कारणम् सम्यक्चायमनुप्रश्नस्त्वयोक्तश्च युधिष्ठिर
MBh 13.118.6
अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर
MBh 13.118.7
ब्रह्मभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि
MBh 13.118.8
गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम् सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनमब्रवीत्
MBh 13.118.9
कीट संत्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे क्व धावसि तदाचक्ष्व कुतस्ते भयमागतम्
MBh 13.118.10
कीट उवाच शकटस्यास्य महतो घोषं श्रुत्वा भयं मम आगतं वै महाबुद्धे स्वन एष हि दारुणः श्रूयते न स मां हन्यादिति तस्मादपाक्रमे
MBh 13.118.11
श्वसतां च शृणोम्येवं गोपुत्राणां प्रचोद्यताम् वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो नृणां च संवाहयतां श्रूयते विविधः स्वनः
MBh 13.118.12
सोढुमस्मद्विधेनैष न शक्यः कीटयोनिना तस्मादपक्रमाम्येष भयादस्मात्सुदारुणात्
MBh 13.118.13
दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम् अतो भीतः पलायामि गच्छेयं नासुखं सुखात्
MBh 13.118.14
भीष्म उवाच इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे
MBh 13.118.15
शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून् नाभिजानासि कीट त्वं श्रेयो मरणमेव ते
MBh 13.118.16
कीट उवाच सर्वत्र निरतो जीव इतीहापि सुखं मम चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम्
MBh 13.118.17
इहापि विषयः सर्वो यथादेहं प्रवर्तितः मानुषास्तिर्यगाश्चैव पृथग्भोगा विशेषतः
MBh 13.118.18
अहमासं मनुष्यो वै शूद्रो बहुधनः पुरा अब्रह्मण्यो नृशंसश्च कदर्यो वृद्धिजीवनः
MBh 13.118.19
वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः मिथःकृतोऽपनिधनः परस्वहरणे रतः
MBh 13.118.20
भृत्यातिथिजनश्चापि गृहे पर्युषितो मया मात्सर्यात्स्वादुकामेन नृशंसेन बुभूषता
MBh 13.118.21
देवार्थं पितृयज्ञार्थमन्नं श्रद्धाकृतं मया न दत्तमर्थकामेन देयमन्नं पुनाति ह
MBh 13.118.22
गुप्तं शरणमाश्रित्य भयेषु शरणागताः अकस्मान्नो भयात्त्यक्ता न च त्राताभयैषिणः
MBh 13.118.23
धनं धान्यं प्रियान्दारान्यानं वासस्तथाद्भुतम् श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम्
MBh 13.118.24
ईर्ष्युः परसुखं दृष्ट्वा आतताय्यबुभूषकः त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः
MBh 13.118.25
नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया स्मृत्वा तदनुतप्येऽहं त्यक्त्वा प्रियमिवात्मजम्
MBh 13.118.26
शुभानामपि जानामि कृतानां कर्मणां फलम् माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया
MBh 13.118.27
सकृज्जातिगुणोपेतः संगत्या गृहमागतः अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः
MBh 13.118.28
कर्मणा तेन चैवाहं सुखाशामिह लक्षये तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 28 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.118local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷