🪷 Mahābhārata · Anuśāsana-Parva · Chapter 117
The Book of the Final Teaching · Parva 13 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 41 Shlokas
MBh 13.117.1
युधिष्ठिर उवाच
इमे वै मानवा लोके भृशं मांसस्य गृद्धिनः
विसृज्य भक्षान्विविधान्यथा रक्षोगणास्तथा
MBh 13.117.2
नापूपान्विविधाकाराञ्शाकानि विविधानि च
षाडवान्रसयोगांश्च तथेच्छन्ति यथामिषम्
MBh 13.117.3
तत्र मे बुद्धिरत्रैव विसर्गे परिमुह्यते
न मन्ये रसतः किंचिन्मांसतोऽस्तीह किंचन
MBh 13.117.4
तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणेऽपि वा
भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ
MBh 13.117.5
सर्वं तत्त्वेन धर्मज्ञ यथावदिह धर्मतः
किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे
MBh 13.117.6
भीष्म उवाच
एवमेतन्महाबाहो यथा वदसि भारत
न मांसात्परमत्रान्यद्रसतो विद्यते भुवि
MBh 13.117.7
क्षतक्षीणाभितप्तानां ग्राम्यधर्मरताश्च ये
अध्वना कर्शितानां च न मांसाद्विद्यते परम्
MBh 13.117.8
सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां ददाति च
न भक्षोऽभ्यधिकः कश्चिन्मांसादस्ति परंतप
MBh 13.117.9
विवर्जने तु बहवो गुणाः कौरवनन्दन
ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु
MBh 13.117.10
स्वमांसं परमांसैर्यो विवर्धयितुमिच्छति
नास्ति क्षुद्रतरस्तस्मान्न नृशंसतरो नरः
MBh 13.117.11
न हि प्राणात्प्रियतरं लोके किंचन विद्यते
तस्माद्दयां नरः कुर्याद्यथात्मनि तथा परे
MBh 13.117.12
शुक्राच्च तात संभूतिर्मांसस्येह न संशयः
भक्षणे तु महान्दोषो वधेन सह कल्पते
MBh 13.117.13
अहिंसालक्षणो धर्म इति वेदविदो विदुः
यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मवान्नरः
MBh 13.117.14
पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते
विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति
MBh 13.117.15
यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः
अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते
MBh 13.117.16
क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु
वीर्येणोपार्जितं मांसं यथा खादन्न दुष्यति
MBh 13.117.17
आरण्याः सर्वदैवत्याः प्रोक्षिताः सर्वशो मृगाः
अगस्त्येन पुरा राजन्मृगया येन पूज्यते
MBh 13.117.18
नात्मानमपरित्यज्य मृगया नाम विद्यते
समतामुपसंगम्य रूपं हन्यान्न वा नृप
MBh 13.117.19
अतो राजर्षयः सर्वे मृगयां यान्ति भारत
लिप्यन्ते न हि दोषेण न चैतत्पातकं विदुः
MBh 13.117.20
न हि तत्परमं किंचिदिह लोके परत्र च
यत्सर्वेष्विह लोकेषु दया कौरवनन्दन
MBh 13.117.21
न भयं विद्यते जातु नरस्येह दयावतः
दयावतामिमे लोकाः परे चापि तपस्विनाम्
MBh 13.117.22
अभयं सर्वभूतेभ्यो यो ददाति दयापरः
अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः
MBh 13.117.23
क्षतं च स्खलितं चैव पतितं क्लिष्टमाहतम्
सर्वभूतानि रक्षन्ति समेषु विषमेषु च
MBh 13.117.24
नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः
मुच्यन्ते भयकालेषु मोक्षयन्ति च ये परान्
MBh 13.117.25
प्राणदानात्परं दानं न भूतं न भविष्यति
न ह्यात्मनः प्रियतरः कश्चिदस्तीति निश्चितम्
MBh 13.117.26
अनिष्टं सर्वभूतानां मरणं नाम भारत
मृत्युकाले हि भूतानां सद्यो जायति वेपथुः
MBh 13.117.27
जातिजन्मजरादुःखे नित्यं संसारसागरे
जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च
MBh 13.117.28
गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः
मूत्रश्लेष्मपुरीषाणां स्पर्शैश्च भृशदारुणैः
MBh 13.117.29
जाताश्चाप्यवशास्तत्र भिद्यमानाः पुनः पुनः
पाट्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः
MBh 13.117.30
कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः
आक्रम्य मार्यमाणाश्च भ्राम्यन्ते वै पुनः पुनः
MBh 13.117.31
नात्मनोऽस्ति प्रियतरः पृथिव्यामनुसृत्य ह
तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत्
MBh 13.117.32
सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत्
स्वर्गे स विपुलं स्थानं प्राप्नुयान्नात्र संशयः
MBh 13.117.33
ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम्
भक्ष्यन्ते तेऽपि तैर्भूतैरिति मे नास्ति संशयः
MBh 13.117.34
मां स भक्षयते यस्माद्भक्षयिष्ये तमप्यहम्
एतन्मांसस्य मांसत्वमतो बुध्यस्व भारत
MBh 13.117.35
घातको वध्यते नित्यं तथा वध्येत बन्धकः
आक्रोष्टाक्रुश्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते
MBh 13.117.36
येन येन शरीरेण यद्यत्कर्म करोति यः
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते
MBh 13.117.37
अहिंसा परमो धर्मस्तथाहिंसा परो दमः
अहिंसा परमं दानमहिंसा परमं तपः
MBh 13.117.38
अहिंसा परमो यज्ञस्तथाहिंसा परं बलम्
अहिंसा परमं मित्रमहिंसा परमं सुखम्
अहिंसा परमं सत्यमहिंसा परमं श्रुतम्
MBh 13.117.39
सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लुतम्
सर्वदानफलं वापि नैतत्तुल्यमहिंसया
MBh 13.117.40
अहिंस्रस्य तपोऽक्षय्यमहिंस्रो यजते सदा
अहिंस्रः सर्वभूतानां यथा माता यथा पिता
MBh 13.117.41
एतत्फलमहिंसाया भूयश्च कुरुपुंगव
न हि शक्या गुणा वक्तुमिह वर्षशतैरपि
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 116
- Next chapter · Anuśāsana-Parva Ch 118 →
Sources and Connected Readings
Continue from these 41 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.117local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷