🪷 Mahābhārata · Anuśāsana-Parva · Chapter 116
The Book of the Final Teaching · Parva 13 · 76 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 76 Shlokas
MBh 13.116.1
युधिष्ठिर उवाच
अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया
श्राद्धेषु च भवानाह पितॄनामिषकाङ्क्षिणः
MBh 13.116.2
मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा
अहत्वा च कुतो मांसमेवमेतद्विरुध्यते
MBh 13.116.3
जातो नः संशयो धर्मे मांसस्य परिवर्जने
दोषो भक्षयतः कः स्यात्कश्चाभक्षयतो गुणः
MBh 13.116.4
हत्वा भक्षयतो वापि परेणोपहृतस्य वा
हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः
MBh 13.116.5
एतदिच्छामि तत्त्वेन कथ्यमानं त्वयानघ
निश्चयेन चिकीर्षामि धर्ममेतं सनातनम्
MBh 13.116.6
कथमायुरवाप्नोति कथं भवति सत्त्ववान्
कथमव्यङ्गतामेति लक्षण्यो जायते कथम्
MBh 13.116.7
भीष्म उवाच
मांसस्य भक्षणे राजन्योऽधर्मः कुरुपुंगव
तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः
MBh 13.116.8
रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम्
प्राप्तुकामैर्नरैर्हिंसा वर्जिता वै कृतात्मभिः
MBh 13.116.9
ऋषीणामत्र संवादो बहुशः कुरुपुंगव
बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर
MBh 13.116.10
यो यजेताश्वमेधेन मासि मासि यतव्रतः
वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर
MBh 13.116.11
सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः
अमांसभक्षणं राजन्प्रशंसन्ति मनीषिणः
MBh 13.116.12
न भक्षयति यो मांसं न हन्यान्न च घातयेत्
तं मित्रं सर्वभूतानां मनुः स्वायंभुवोऽब्रवीत्
MBh 13.116.13
अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु
साधूनां संमतो नित्यं भवेन्मांसस्य वर्जनात्
MBh 13.116.14
स्वमांसं परमांसेन यो वर्धयितुमिच्छति
नारदः प्राह धर्मात्मा नियतं सोऽवसीदति
MBh 13.116.15
ददाति यजते चापि तपस्वी च भवत्यपि
मधुमांसनिवृत्त्येति प्राहैवं स बृहस्पतिः
MBh 13.116.16
मासि मास्यश्वमेधेन यो यजेत शतं समाः
न खादति च यो मांसं सममेतन्मतं मम
MBh 13.116.17
सदा यजति सत्रेण सदा दानं प्रयच्छति
सदा तपस्वी भवति मधुमांसस्य वर्जनात्
MBh 13.116.18
सर्वे वेदा न तत्कुर्युः सर्वयज्ञाश्च भारत
यो भक्षयित्वा मांसानि पश्चादपि निवर्तते
MBh 13.116.19
दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम्
चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम्
MBh 13.116.20
सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम्
दाता भवति लोके स प्राणानां नात्र संशयः
MBh 13.116.21
एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः
प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा
MBh 13.116.22
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः
मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम्
MBh 13.116.23
किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम्
अरोगाणामपापानां पापैर्मांसोपजीविभिः
MBh 13.116.24
तस्माद्विद्धि महाराज मांसस्य परिवर्जनम्
धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च
MBh 13.116.25
अहिंसा परमो धर्मस्तथाहिंसा परं तपः
अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते
MBh 13.116.26
न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते
हत्वा जन्तुं ततो मांसं तस्माद्दोषोऽस्य भक्षणे
MBh 13.116.27
स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः
क्रव्यादान्राक्षसान्विद्धि जिह्मानृतपरायणान्
MBh 13.116.28
कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च
रात्रावहनि संध्यासु चत्वरेषु सभासु च
अमांसभक्षणे राजन्भयमन्ते न गच्छति
MBh 13.116.29
यदि चेत्खादको न स्यान्न तदा घातको भवेत्
घातकः खादकार्थाय तं घातयति वै नरः
MBh 13.116.30
अभक्ष्यमेतदिति वा इति हिंसा निवर्तते
खादकार्थमतो हिंसा मृगादीनां प्रवर्तते
MBh 13.116.31
यस्माद्ग्रसति चैवायुर्हिंसकानां महाद्युते
तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः
MBh 13.116.32
त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः
उद्वेजनीया भूतानां यथा व्यालमृगास्तथा
MBh 13.116.33
लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च
संसर्गाद्वाथ पापानामधर्मरुचिता नृणाम्
MBh 13.116.34
स्वमांसं परमांसेन यो वर्धयितुमिच्छति
उद्विग्नवासे वसति यत्रतत्राभिजायते
MBh 13.116.35
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्
मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः
MBh 13.116.36
इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया
मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे
MBh 13.116.37
यो हि खादति मांसानि प्राणिनां जीवितार्थिनाम्
हतानां वा मृतानां वा यथा हन्ता तथैव सः
MBh 13.116.38
धनेन क्रायको हन्ति खादकश्चोपभोगतः
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः
MBh 13.116.39
अखादन्ननुमोदंश्च भावदोषेण मानवः
योऽनुमन्येत हन्तव्यं सोऽपि दोषेण लिप्यते
MBh 13.116.40
अधृष्यः सर्वभूतानामायुष्मान्नीरुजः सुखी
भवत्यभक्षयन्मांसं दयावान्प्राणिनामिह
MBh 13.116.41
हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः
मांसस्याभक्षणे धर्मो विशिष्टः स्यादिति श्रुतिः
MBh 13.116.42
अप्रोक्षितं वृथामांसं विधिहीनं न भक्षयेत्
भक्षयन्निरयं याति नरो नास्त्यत्र संशयः
MBh 13.116.43
प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया
अल्पदोषमिह ज्ञेयं विपरीते तु लिप्यते
MBh 13.116.44
खादकस्य कृते जन्तुं यो हन्यात्पुरुषाधमः
महादोषकरस्तत्र खादको न तु घातकः
MBh 13.116.45
इज्यायज्ञश्रुतिकृतैर्यो मार्गैरबुधो जनः
हन्याज्जन्तुं मांसगृद्ध्री स वै नरकभाङ्नरः
MBh 13.116.46
भक्षयित्वा तु यो मांसं पश्चादपि निवर्तते
तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते
MBh 13.116.47
आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी
संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते
MBh 13.116.48
इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम्
पुराणमृषिभिर्जुष्टं वेदेषु परिनिश्चितम्
MBh 13.116.49
प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते
यथोक्तं राजशार्दूल न तु तन्मोक्षकाङ्क्षिणाम्
MBh 13.116.50
हविर्यत्संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि
वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च
अतोऽन्यथा वृथामांसमभक्ष्यं मनुरब्रवीत्
MBh 13.116.51
अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ
विधिना हि नराः पूर्वं मांसं राजन्नभक्षयन्
MBh 13.116.52
य इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम्
स वर्जयेत मांसानि प्राणिनामिह सर्वशः
MBh 13.116.53
श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः
येनायजन्त यज्वानः पुण्यलोकपरायणाः
MBh 13.116.54
ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा
अभक्ष्यमिति मांसं स प्राह भक्ष्यमिति प्रभो
MBh 13.116.55
आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः
एतदेव पुनश्चोक्त्वा विवेश धरणीतलम्
MBh 13.116.56
प्रजानां हितकामेन त्वगस्त्येन महात्मना
आरण्याः सर्वदैवत्याः प्रोक्षितास्तपसा मृगाः
MBh 13.116.57
क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः
प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः
MBh 13.116.58
इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ
अभक्षणे सर्वसुखं मांसस्य मनुजाधिप
MBh 13.116.59
यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम्
यश्चैकं वर्जयेन्मांसं सममेतन्मतं मम
MBh 13.116.60
कौमुदे तु विशेषेण शुक्लपक्षे नराधिप
वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते
MBh 13.116.61
चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत्
चत्वारि भद्राण्याप्नोति कीर्तिमायुर्यशो बलम्
MBh 13.116.62
अथ वा मासमप्येकं सर्वमांसान्यभक्षयन्
अतीत्य सर्वदुःखानि सुखी जीवेन्निरामयः
MBh 13.116.63
ये वर्जयन्ति मांसानि मासशः पक्षशोऽपि वा
तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते
MBh 13.116.64
मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः
सर्वभूतात्मभूतैस्तैर्विज्ञातार्थपरावरैः
MBh 13.116.65
नाभागेनाम्बरीषेण गयेन च महात्मना
आयुषा चानरण्येन दिलीपरघुपूरुभिः
MBh 13.116.66
कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना
नृगेण विष्वगश्वेन तथैव शशबिन्दुना
युवनाश्वेन च तथा शिबिनौशीनरेण च
MBh 13.116.67
श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च
रैवतेन रन्तिदेवेन वसुना सृञ्जयेन च
MBh 13.116.68
दुःषन्तेन करूषेण रामालर्कनलैस्तथा
विरूपाश्वेन निमिना जनकेन च धीमता
MBh 13.116.69
सिलेन पृथुना चैव वीरसेनेन चैव ह
इक्ष्वाकुणा शंभुना च श्वेतेन सगरेण च
MBh 13.116.70
एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम्
शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन्
MBh 13.116.71
ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः
उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः
MBh 13.116.72
तदेतदुत्तमं धर्ममहिंसालक्षणं शुभम्
ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते
MBh 13.116.73
मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः
जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः
विशिष्टतां ज्ञातिषु च लभन्ते नात्र संशयः
MBh 13.116.74
आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात्
मुच्येत्तथातुरो रोगाद्दुःखान्मुच्येत दुःखितः
MBh 13.116.75
तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः
बुद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः
MBh 13.116.76
एतत्ते कथितं राजन्मांसस्य परिवर्जने
प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 115
- Next chapter · Anuśāsana-Parva Ch 117 →
Sources and Connected Readings
Continue from these 76 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.116local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷