🪷 Mahābhārata · Anuśāsana-Parva · Chapter 116
The Book of the Final Teaching · Parva 13 · 76 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 13.116local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 76 Shlokas
MBh 13.116.1
[य]
अहिंसा परमॊ धर्म इत्य उक्तं बहुशस तवया
शराद्धेषु च भवान आह पितॄन आमिष काङ्क्षिणः
MBh 13.116.2
मांसैर बहुविधैः परॊक्तस तवया शराद्धविधिः पुरा
अहत्वा च कुतॊ मांसम एवम एतद विरुध्यते
MBh 13.116.3
जातॊ नः संशयॊ धर्मे मांसस्य परिवर्जने
दॊषॊ भक्षयतः कः सयात कश चाभक्षयतॊ गुणः
MBh 13.116.4
हत्वा भक्षयतॊ वापि परेणॊपहृतस्य वा
हन्याद वा यः परस्यार्थे करीत्वा वा भक्षयेन नरः
MBh 13.116.5
एतद इच्छामि तत्त्वेन कथ्यमानं तवयानघ
निचयेन चिकीर्षामि धर्मम एतं सनातनम
MBh 13.116.6
कथम आयुर अवाप्नॊति कथं भवति सत्त्ववान
कथम अव्यङ्गताम एति लक्षण्यॊ जायते कथम
MBh 13.116.7
[भ]
मांसस्य भक्षणे राजन यॊ ऽधर्मः कुरुपुंगव
तं मे शृणु यथातत्त्वं यश चास्य विधिरूत्तमः
MBh 13.116.8
रूपम अव्यङ्गताम आयुर बुद्धिं सत्त्वं बलं समृतिम
पराप्तु कामैर नरैर हिंसा वर्जिता वै कृतात्मभिः
MBh 13.116.9
ऋषीणाम अत्र संवादॊ बहुशः कुरुपुंगव
बभूव तेषां तु मतं यत तच छृणु युधिष्ठिर
MBh 13.116.10
यॊ यजेताश्वमेधेन मासि मासि यतव्रतः
वर्जयेन मधु मांसं च समम एतद युधिष्ठिर
MBh 13.116.11
सप्तर्षयॊ वालखिल्यास तथैव च मरीचिपाः
अमांस भक्षणं राजन परशंसन्ति मनीषिणः
MBh 13.116.12
न भक्षयति यॊ मांसं न हन्यान न च घातयेत
तं मित्रं सर्वभूतानां मनुः सवायम्भुवॊ ऽबरवीत
MBh 13.116.13
अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु
साधूनां संमतॊ नित्यं भवेन मांसस्य वर्जनात
MBh 13.116.14
सवमांसं परमांसेन यॊ वर्धयितुम इच्छति
नारदः पराह धर्मात्मा नियतं सॊ ऽवसीदति
MBh 13.116.15
ददाति यजते चापि तपस्वी च भवत्य अपि
मधु मांसनिवृत्त्येति पराहैवं स बृहस्पतिः
MBh 13.116.16
मासि मास्य अश्वमेधेन यॊ यजेत शतं समाः
न खादति च यॊ मंसं समम एतन मतं मम
MBh 13.116.17
सदा यजति सत्रेण सदा दानं परयच्छति
सदा तपस्वी भवति मधु मांसस्य वर्जनात
MBh 13.116.18
सर्वे वेदा न तत कुर्युः सर्वयज्ञाश च भारत
यॊ भक्षयित्वा मांसानि पश्चाद अपि निवर्तते
MBh 13.116.19
दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम
चर्तुं वरतम इदं शरेष्ठं सर्वप्राण्य अभर परदम
MBh 13.116.20
सर्वभूतेषु यॊ विद्वान ददात्य अभर दक्षिणाम
दाता भवति लॊके स पराणानां नात्र संशयः
MBh 13.116.21
एवं वै परमं धर्मं परशंसन्ति मनीषिणः
पराणा यथात्मनॊ ऽभीष्टा भूतानाम अपि ते तथा
MBh 13.116.22
आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर महात्मभिः
मृत्युतॊ भयम अस्तीति विदुषां भूतिम इच्छताम
MBh 13.116.23
किं पुनर हन्यमानानां तरसा जीवितार्थिनाम
अरॊगाणाम अपापानां पापैर मांसॊपजीविभिः
MBh 13.116.24
तस्माद विद्धि महाराज मांसस्य परिवर्जनम
धर्मस्यायतनं शरेष्ठं सवर्गस्य च सुखस्य च
MBh 13.116.25
अहिंसा परमॊ धर्मस तथाहिंसा परंतपः
अहिंसा परमं सत्यं ततॊ धर्मः परवर्तते
MBh 13.116.26
न हि मांसं तृणात काष्ठाद उपलाद वापि जायते
हत्वा जन्तुं ततॊ मांसं तस्माद दॊषॊ ऽसय भक्षणे
MBh 13.116.27
सवाहा सवधामृत भुजॊ देवाः सत्यार्जव परियाः
करव्यादान राक्षसान विद्धि जिह्मानृत परायणान
MBh 13.116.28
कान्तारेष्व अथ घॊरेषु दुर्गेषु गहनेषु च
रात्राव अहनि संध्यासु चत्वरेषु सभासु च
अमांस भक्षणे राजन भयम अन्ते न गच्छति
MBh 13.116.29
यदि चेत खादकॊ न सयन न तदा घातकॊ भवेत
घातकः खादकार्थाय तं घातयति वै नरः
MBh 13.116.30
अभक्ष्यम एतद इति वा इति हिंसा निवर्तते
खादकार्थम अतॊ हिंसा मृगादीनां परवर्तते
MBh 13.116.31
यस्माद गरसति चैवायुर हिंसकानां महाद्युते
तस्माद विवर्जयेन मांसं य इच्छेद भूतिम आत्मनः
MBh 13.116.32
तरातारं नाधिगच्छन्ति रौद्राः पराणिविहिंसकाः
उद्वेजनीया भूतानां यथा वयालमृगास तथा
MBh 13.116.33
लॊभाद वा बुद्धिमॊहाद वा बलवीर्यार्थम एव च
संसर्गाद वाथ पापानाम अधर्मरुचिता नृणाम
MBh 13.116.34
सवमांसं परमांसेन यॊ वर्धयितुम इच्छति
उद्विग्नवासे वसति यत्र तत्राभिजायते
MBh 13.116.35
धन्यं यशस्यम आयुष्यं सवर्ग्यं सवस्त्ययनं महत
मांसस्याभक्षणं पराहुर नियताः परमर्षयः
MBh 13.116.36
इदं तु खलु कौन्तेय शरुतम आसीत पुरा मया
मार्कण्डेयस्य वदतॊ ये दॊषा मांसभक्षणे
MBh 13.116.37
यॊ हि खादति मांसानि पराणिनां जीवितार्थिनाम
हतानां वा मृतानां वा यथा हन्ता तथैव सः
MBh 13.116.38
धनेन करायतॊ हन्ति खादकश चॊपभॊगतः
घातकॊ वधबन्धाभ्याम इत्य एष तरिविधॊ वधः
MBh 13.116.39
अखादन्न अनुमॊदंश च भावदॊषेण मानवः
यॊ ऽनुमन्येत हन्तव्यं सॊ ऽपि दॊषेण लिप्यते
MBh 13.116.40
अधृष्यः सर्वभूतानाम आयुष्मान नीरुजः सुखी
भवत्य अभक्षयन मांसं दयावान पराणिनाम इह
MBh 13.116.41
हिरण्यदानैर गॊदानैर भूमिदानैश च सर्वशः
मांसस्याभक्षणे धर्मॊ विशिष्टः सयाद इति शरुतिः
MBh 13.116.42
अप्रॊक्षितं वृथा मांसं विधिहीनं न भक्षयेत
भक्षयन निरयं याति नरॊ नास्त्य अत्र संशयः
MBh 13.116.43
परॊक्षिताभ्युक्षितं मांसं तथा बराह्मण काम्यया
अल्पदॊषम इह जञेय विपरीते तु लिप्यते
MBh 13.116.44
खादकस्य कृते जन्तुं यॊ हन्यात पुरुषाधमः
महादॊषकरस तत्र खादकॊ न तु घातकः
MBh 13.116.45
इज्या यज्ञश्रुतिकृतैर यॊ मार्गैर अबुधॊ जनः
हन्याज जन्तुं मांसगृद्ध्री स वै नरकभान नरः
MBh 13.116.46
भक्षयित्वा तु यॊ मांसं पश्चाद अपि निवर्तते
तस्यापि सुमहान धर्मॊ यः पापाद विनिवर्तते
MBh 13.116.47
आहर्ता चानुमन्ता च विशिस्ता करय विक्रयी
संस्कर्ता चॊपभॊक्ता च घातकाः सर्व एव ते
MBh 13.116.48
इदम अन्यत तु वक्ष्यामि परमाणं विधिनिर्मितम
पुराणम ऋषिभिर जुष्टं वेदेषु परिनिश्चितम
MBh 13.116.49
परवृत्ति लक्षणे धर्मे फलार्थिभिर अभिद्रुते
यथॊक्तं राजशार्दूल न तु तन मॊक्षकाङ्क्षिणाम
MBh 13.116.50
हविर यत संस्कृतं मन्त्रैः परॊक्षिताभ्युक्षितं शुचि
वेदॊक्तेन परमाणेन पितॄणां परक्रियासु च
अतॊ ऽनयथा वृथा मांसम अभक्ष्यं मनुर अब्रवीत
MBh 13.116.51
अस्वर्ग्यम अयशस्यं च रक्षॊवद भरतर्षभ
विधिना हि नराः पूर्वं मांसं राजन अभक्षयन
MBh 13.116.52
य इच्छेत पुरुषॊ ऽतयन्तम आत्मानं निरुपद्रवम
स वर्जयेत मांसानि पराणिनाम इह सर्वशः
MBh 13.116.53
शरूयते हि पुराकल्पे नृणां वरीहि मयः पशुः
येनायजन्त यज्वानः पुण्यलॊकपरायणाः
MBh 13.116.54
ऋषिभिः संशयं पृष्टॊ वसुश चेदिपतिः पुरा
अभक्ष्यम इति मांसं स पराह भक्ष्यम इति परभॊ
MBh 13.116.55
आकाशान मेदिनीं पराप्तस ततः स पृथिवीपतिः
एतद एव पुनश चॊक्त्वा विवेश धरणीतलम
MBh 13.116.56
परजानां हितकामेन तव अगस्त्येन महात्मना
आरण्याः सर्वदैवत्याः परॊक्षितास तपसा मृगाः
MBh 13.116.57
करिया हय एवं न हीयन्ते पितृदैवतसंश्रिताः
परीयन्ते पितरश चैव नयायतॊ मांसतर्पिताः
MBh 13.116.58
इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ
अभक्षणे सर्वसुखं मांसस्य मनुजाधिप
MBh 13.116.59
यस तु वर्षशतं पूर्णं तपस तप्येत सुदारुणम
यश चैकं वर्जयेन मांसं समम एतन मतं मम
MBh 13.116.60
कौमुदे तु विशेषेण शुक्लपक्शे नराधिप
वर्जयेत सर्वमांसानि धर्मॊ हय अत्र विधीयते
MBh 13.116.61
चतुरॊ वार्षिकान मासान यॊ मांसं परिवर्जयेत
चत्वारि भद्राण्य आप्नॊति कीर्तिम आयुर यशॊबलम
MBh 13.116.62
अथ वा मासम अप्य एकं सर्वमांसान्य अभक्षयन
अतीत्य सर्वदुःखानि सुखी जीवेन निरामयः
MBh 13.116.63
ये वर्जयन्ति मांसानि मासशः पक्षशॊ ऽपि वा
तेषां हिंसा निवृत्तानां बरह्मलॊकॊ विधीयते
MBh 13.116.64
मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः
सर्वभूतात्मभूतैर तैर विज्ञातार्थपरावरैः
MBh 13.116.65
नाभागेनाम्बरीषेण गयेन च महात्मना
आयुषा चानरण्येन दिलीप रघुपूरुभिः
MBh 13.116.66
कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना
नृगेण विष्वगश्वेन तथैव शशबिन्दुना
युवनाश्वेन च तथा शिबिनौशीनरेण च
MBh 13.116.67
शयेनचित्रेण राजेन्द्र सॊमकेन वृकेण च
रैवतेन रन्ति देवेन वसुना सृञ्जयेन च
MBh 13.116.68
दुःषन्तेन करूषेण रामालर्क नलैस तथा
विरूपाश्वेन निमिना जनकेन च धीमता
MBh 13.116.69
सिलेन पृथुना चैव वीरसेनेन चैव ह
इक्ष्वाकुणा शम्भुना च शवेतेन सगरेण च
MBh 13.116.70
एतैश चान्यैश च राजेन्द्र पुरा मांसं न भक्षितम
शारदं कौमुदं मासं ततस ते सवर्गम आप्नुवन
MBh 13.116.71
बरह्मलॊके च तिष्ठन्ति जवलमानाः शरियान्विताः
उपास्यमाना गन्धर्वैः सत्रीसहस्रसमन्विताः
MBh 13.116.72
तद एतद उत्तमं धर्मम अहिंसा लक्षणं शुभम
ये चरन्ति महात्मानॊ नाकपृष्ठे वसन्ति ते
MBh 13.116.73
मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः
जन्मप्रभृति मद्यं च सर्वे ते मुनयः समृताः
विशिष्टतां जञातिषु च लल्भन्ते नात्र संशयः
MBh 13.116.74
आपन्नश चापदॊ मुच्येद बद्धॊमुच्येत बन्धनात
मुच्येत तथातुरॊ रॊगाद दुःखान मुच्येत दुःखितः
MBh 13.116.75
तिर्यग्यॊनिं न गच्छेत रूपवांश च भवेन नरः
बुद्धिमान वै कुरुश्रेष्ठ पराप्नुयाच च महद यशः
MBh 13.116.76
एतत ते कथितं राजन मांसस्य परिवर्जने
परवृत्तौ च निवृत्तौ च विधानम ऋषिनिर्मितम
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 115
- Next chapter · Anuśāsana-Parva Ch 117 →
🪷 जय व्यास भगवान् 🪷