🪷 Mahābhārata · Anuśāsana-Parva · Chapter 112
The Book of the Final Teaching · Parva 13 · 113 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 113 Shlokas
MBh 13.112.1
युधिष्ठिर उवाच
पितामह महाबाहो सर्वशास्त्रविशारद
श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम्
MBh 13.112.2
केन वृत्तेन राजेन्द्र वर्तमाना नरा युधि
प्राप्नुवन्त्युत्तमं स्वर्गं कथं च नरकं नृप
MBh 13.112.3
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः
प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति
MBh 13.112.4
भीष्म उवाच
असावायाति भगवान्बृहस्पतिरुदारधीः
पृच्छैनं सुमहाभागमेतद्गुह्यं सनातनम्
MBh 13.112.5
नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै
वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित्
MBh 13.112.6
वैशंपायन उवाच
तयोः संवदतोरेवं पार्थगाङ्गेययोस्तदा
आजगाम विशुद्धात्मा भगवान्स बृहस्पतिः
MBh 13.112.7
ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः
पूजामनुपमां चक्रे सर्वे ते च सभासदः
MBh 13.112.8
ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम्
उपगम्य यथान्यायं प्रश्नं पप्रच्छ सुव्रतः
MBh 13.112.9
युधिष्ठिर उवाच
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद
मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः
MBh 13.112.10
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः
गच्छन्त्यमुत्रलोकं वै क एनमनुगच्छति
MBh 13.112.11
बृहस्पतिरुवाच
एकः प्रसूतो राजेन्द्र जन्तुरेको विनश्यति
एकस्तरति दुर्गाणि गच्छत्येकश्च दुर्गतिम्
MBh 13.112.12
असहायः पिता माता तथा भ्राता सुतो गुरुः
ज्ञातिसंबन्धिवर्गश्च मित्रवर्गस्तथैव च
MBh 13.112.13
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः
मुहूर्तमुपतिष्ठन्ति ततो यान्ति पराङ्मुखाः
तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति
MBh 13.112.14
तस्माद्धर्मः सहायार्थे सेवितव्यः सदा नृभिः
प्राणी धर्मसमायुक्तो गच्छते स्वर्गतिं पराम्
तथैवाधर्मसंयुक्तो नरकायोपपद्यते
MBh 13.112.15
तस्मान्न्यायागतैरर्थैर्धर्मं सेवेत पण्डितः
धर्म एको मनुष्याणां सहायः पारलौकिकः
MBh 13.112.16
लोभान्मोहादनुक्रोशाद्भयाद्वाप्यबहुश्रुतः
नरः करोत्यकार्याणि परार्थे लोभमोहितः
MBh 13.112.17
धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम्
एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम्
MBh 13.112.18
युधिष्ठिर उवाच
श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम्
शरीरविचयं ज्ञातुं बुद्धिस्तु मम जायते
MBh 13.112.19
मृतं शरीररहितं सूक्ष्ममव्यक्ततां गतम्
अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति
MBh 13.112.20
बृहस्पतिरुवाच
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा
MBh 13.112.21
प्राणिनामिह सर्वेषां साक्षिभूतानि चानिशम्
एतैश्च स ह धर्मोऽपि तं जीवमनुगच्छति
MBh 13.112.22
त्वगस्थिमांसं शुक्रं च शोणितं च महामते
शरीरं वर्जयन्त्येते जीवितेन विवर्जितम्
MBh 13.112.23
ततो धर्मसमायुक्तः स जीवः सुखमेधते
इह लोके परे चैव किं भूयः कथयामि ते
MBh 13.112.24
युधिष्ठिर उवाच
अनुदर्शितं भगवता यथा धर्मोऽनुगच्छति
एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते
MBh 13.112.25
बृहस्पतिरुवाच
अन्नमश्नन्ति ये देवाः शरीरस्था नरेश्वर
पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा
MBh 13.112.26
ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु
मनःषष्ठेषु शुद्धात्मन्रेतः संपद्यते महत्
MBh 13.112.27
ततो गर्भः संभवति स्त्रीपुंसोः पार्थ संगमे
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि
MBh 13.112.28
युधिष्ठिर उवाच
आख्यातमेतद्भवता गर्भः संजायते यथा
यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम्
MBh 13.112.29
बृहस्पतिरुवाच
आसन्नमात्रः सततं तैर्भूतैरभिभूयते
विप्रमुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम्
स तु भूतसमायुक्तः प्राप्नुते जीव एव ह
MBh 13.112.30
ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम्
देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि
MBh 13.112.31
युधिष्ठिर उवाच
त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः
जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते
MBh 13.112.32
बृहस्पतिरुवाच
जीवो धर्मसमायुक्तः शीघ्रं रेतस्त्वमागतः
स्त्रीणां पुष्पं समासाद्य सूते कालेन भारत
MBh 13.112.33
यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर्वधम्
दुःखं संसारचक्रं च नरः क्लेशं च विन्दति
MBh 13.112.34
इहलोके च स प्राणी जन्मप्रभृति पार्थिव
स्वकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः
MBh 13.112.35
यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते
ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम्
MBh 13.112.36
अथान्तरा तु धर्मस्य अधर्ममुपसेवते
सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति
MBh 13.112.37
अधर्मेण समायुक्तो यमस्य विषयं गतः
महद्दुःखं समासाद्य तिर्यग्योनौ प्रजायते
MBh 13.112.38
कर्मणा येन येनेह यस्यां योनौ प्रजायते
जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु
MBh 13.112.39
यदेतदुच्यते शास्त्रे सेतिहासे सच्छन्दसि
यमस्य विषयं घोरं मर्त्यो लोकः प्रपद्यते
MBh 13.112.40
अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः
पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते
MBh 13.112.41
खरो जीवति वर्षाणि दश पञ्च च भारत
खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति
MBh 13.112.42
बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः
ब्रह्मरक्षस्तु त्रीन्मासांस्ततो जायति ब्राह्मणः
MBh 13.112.43
पतितं याजयित्वा तु कृमियोनौ प्रजायते
तत्र जीवति वर्षाणि दश पञ्च च भारत
MBh 13.112.44
कृमिभावात्प्रमुक्तस्तु ततो जायति गर्दभः
गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि सूकरः
श्वा वर्षमेकं भवति ततो जायति मानवः
MBh 13.112.45
उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान्
स जीव इह संसारांस्त्रीनाप्नोति न संशयः
MBh 13.112.46
प्राक्श्वा भवति राजेन्द्र ततः क्रव्यात्ततः खरः
ततः प्रेतः परिक्लिष्टः पश्चाज्जायति ब्राह्मणः
MBh 13.112.47
मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत्
सोऽधमान्याति संसारानधर्मेणेह चेतसा
MBh 13.112.48
श्वयोनौ तु स संभूतस्त्रीणि वर्षाणि जीवति
तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते
MBh 13.112.49
कृमिभावमनुप्राप्तो वर्षमेकं स जीवति
ततस्तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते
MBh 13.112.50
यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणे
आत्मनः कामकारेण सोऽपि हंसः प्रजायते
MBh 13.112.51
पितरं मातरं वापि यस्तु पुत्रोऽवमन्यते
सोऽपि राजन्मृतो जन्तुः पूर्वं जायति गर्दभः
MBh 13.112.52
खरो जीवति मासांस्तु दश श्वा च चतुर्दश
बिडालः सप्त मासांस्तु ततो जायति मानवः
MBh 13.112.53
मातापितरमाक्रुश्य सारिकः संप्रजायते
ताडयित्वा तु तावेव जायते कच्छपो नृप
MBh 13.112.54
कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः
व्यालो भूत्वा तु षण्मासांस्ततो जायति मानुषः
MBh 13.112.55
भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते
सोऽपि मोहसमापन्नो मृतो जायति वानरः
MBh 13.112.56
वानरो दश वर्षाणि त्रीणि वर्षाणि मूषकः
श्वा भूत्वा चाथ षण्मासांस्ततो जायति मानुषः
MBh 13.112.57
न्यासापहर्ता तु नरो यमस्य विषयं गतः
संसाराणां शतं गत्वा कृमियोनौ प्रजायते
MBh 13.112.58
तत्र जीवति वर्षाणि दश पञ्च च भारत
दुष्कृतस्य क्षयं गत्वा ततो जायति मानुषः
MBh 13.112.59
असूयको नरश्चापि मृतो जायति शार्ङ्गकः
विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः
MBh 13.112.60
भूत्वा मीनोऽष्ट वर्षाणि मृगो जायति भारत
मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते
MBh 13.112.61
छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः
कीटः संजायते जन्तुस्ततो जायति मानुषः
MBh 13.112.62
धान्यान्यवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान्
कलायानथ मुद्गांश्च गोधूमानतसीस्तथा
MBh 13.112.63
सस्यस्यान्यस्य हर्ता च मोहाज्जन्तुरचेतनः
स जायते महाराज मूषको निरपत्रपः
MBh 13.112.64
ततः प्रेत्य महाराज पुनर्जायति सूकरः
सूकरो जातमात्रस्तु रोगेण म्रियते नृप
MBh 13.112.65
श्वा ततो जायते मूढः कर्मणा तेन पार्थिव
श्वा भूत्वा पञ्च वर्षाणि ततो जायति मानुषः
MBh 13.112.66
परदाराभिमर्शं तु कृत्वा जायति वै वृकः
श्वा सृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा
MBh 13.112.67
भ्रातुर्भार्यां तु दुर्बुद्धिर्यो धर्षयति मोहितः
पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप
MBh 13.112.68
सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च
प्रधर्षयित्वा कामाद्यो मृतो जायति सूकरः
MBh 13.112.69
सूकरः पञ्च वर्षाणि पञ्च वर्षाणि श्वाविधः
पिपीलकस्तु षण्मासान्कीटः स्यान्मासमेव च
एतानासाद्य संसारान्कृमियोनौ प्रजायते
MBh 13.112.70
तत्र जीवति मासांस्तु कृमियोनौ त्रयोदश
ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानुषः
MBh 13.112.71
उपस्थिते विवाहे तु दाने यज्ञेऽपि वाभिभो
मोहात्करोति यो विघ्नं स मृतो जायते कृमिः
MBh 13.112.72
कृमिर्जीवति वर्षाणि दश पञ्च च भारत
अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः
MBh 13.112.73
पूर्वं दत्त्वा तु यः कन्यां द्वितीये संप्रयच्छति
सोऽपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते
MBh 13.112.74
तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर
अधर्मसंक्षये युक्तस्ततो जायति मानुषः
MBh 13.112.75
देवकार्यमुपाकृत्य पितृकार्यमथापि च
अनिर्वाप्य समश्नन्वै ततो जायति वायसः
MBh 13.112.76
वायसो दश वर्षाणि ततो जायति कुक्कुटः
जायते लवकश्चापि मासं तस्मात्तु मानुषः
MBh 13.112.77
ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते
सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते
MBh 13.112.78
क्रौञ्चो जीवति मासांस्तु दश द्वौ सप्त पञ्च च
ततो निधनमापन्नो मानुषत्वमुपाश्नुते
MBh 13.112.79
वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते
तत्रापत्यं समुत्पाद्य ततो जायति मूषकः
MBh 13.112.80
कृतघ्नस्तु मृतो राजन्यमस्य विषयं गतः
यमस्य विषये क्रुद्धैर्वधं प्राप्नोति दारुणम्
MBh 13.112.81
पट्टिसं मुद्गरं शूलमग्निकुम्भं च दारुणम्
असिपत्रवनं घोरं वालुकां कूटशाल्मलीम्
MBh 13.112.82
एताश्चान्याश्च बह्वीः स यमस्य विषयं गतः
यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत
MBh 13.112.83
संसारचक्रमासाद्य कृमियोनौ प्रजायते
कृमिर्भवति वर्षाणि दश पञ्च च भारत
ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः
MBh 13.112.84
ततो गर्भशतैर्जन्तुर्बहुभिः संप्रजायते
संसारांश्च बहून्गत्वा ततस्तिर्यक्प्रजायते
MBh 13.112.85
मृतो दुःखमनुप्राप्य बहुवर्षगणानिह
अपुनर्भावसंयुक्तस्ततः कूर्मः प्रजायते
MBh 13.112.86
अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः
अर्थार्थी यदि वा वैरी स मृतो जायते खरः
MBh 13.112.87
खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते
स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते
MBh 13.112.88
मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः
हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते
MBh 13.112.89
मासे चतुर्थे संप्राप्ते श्वापदः संप्रजायते
श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च
MBh 13.112.90
ततस्तु निधनं प्राप्तः कालपर्यायचोदितः
अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः
MBh 13.112.91
स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः
बहून्क्लेशान्समासाद्य संसारांश्चैव विंशतिम्
MBh 13.112.92
ततः पश्चान्महाराज कृमियोनौ प्रजायते
कृमिर्विंशतिवर्षाणि भूत्वा जायति मानुषः
MBh 13.112.93
भोजनं चोरयित्वा तु मक्षिका जायते नरः
मक्षिकासंघवशगो बहून्मासान्भवत्युत
ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते
MBh 13.112.94
वाद्यं हृत्वा तु पुरुषो मशकः संप्रजायते
तथा पिण्याकसंमिश्रमशनं चोरयेन्नरः
स जायते बभ्रुसमो दारुणो मूषको नरः
MBh 13.112.95
लवणं चोरयित्वा तु चीरीवाकः प्रजायते
दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान्
MBh 13.112.96
चोरयित्वा पयश्चापि बलाका संप्रजायते
यस्तु चोरयते तैलं तैलपायी प्रजायते
चोरयित्वा तु दुर्बुद्धिर्मधु दंशः प्रजायते
MBh 13.112.97
अयो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः
पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते
MBh 13.112.98
हृत्वा पैष्टमपूपं च कुम्भोलूकः प्रजायते
फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः
MBh 13.112.99
कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः
राजतं भाजनं हृत्वा कपोतः संप्रजायते
MBh 13.112.100
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते
क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः
MBh 13.112.101
चोरयित्वा नरः पट्टं त्वाविकं वापि भारत
क्षौमं च वस्त्रमादाय शशो जन्तुः प्रजायते
MBh 13.112.102
वर्णान्हृत्वा तु पुरुषो मृतो जायति बर्हिणः
हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः
MBh 13.112.103
वर्णकादींस्तथा गन्धांश्चोरयित्वा तु मानवः
छुच्छुन्दरित्वमाप्नोति राजँल्लोभपरायणः
MBh 13.112.104
विश्वासेन तु निक्षिप्तं यो निह्नवति मानवः
स गतासुर्नरस्तादृङ्मत्स्ययोनौ प्रजायते
MBh 13.112.105
मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः
मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते
MBh 13.112.106
पापानि तु नरः कृत्वा तिर्यग्जायति भारत
न चात्मनः प्रमाणं ते धर्मं जानन्ति किंचन
MBh 13.112.107
ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा
सुखदुःखसमायुक्ता व्याधितास्ते भवन्त्युत
MBh 13.112.108
असंवासाः प्रजायन्ते म्लेच्छाश्चापि न संशयः
नराः पापसमाचारा लोभमोहसमन्विताः
MBh 13.112.109
वर्जयन्ति च पापानि जन्मप्रभृति ये नराः
अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत
MBh 13.112.110
स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः
एतेषामेव जन्तूनां पत्नीत्वमुपयान्ति ताः
MBh 13.112.111
परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः
एतद्वै लेशमात्रेण कथितं ते मयानघ
अपरस्मिन्कथायोगे भूयः श्रोष्यसि भारत
MBh 13.112.112
एतन्मया महाराज ब्रह्मणो वदतः पुरा
सुरर्षीणां श्रुतं मध्ये पृष्टश्चापि यथातथम्
MBh 13.112.113
मयापि तव कार्त्स्न्येन यथावदनुवर्णितम्
एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 111
- Next chapter · Anuśāsana-Parva Ch 113 →
Sources and Connected Readings
Continue from these 113 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.112local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷