🪷 Mahābhārata · Anuśāsana-Parva · Chapter 111

The Book of the Final Teaching · Parva 13 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 13.111.1
युधिष्ठिर उवाच यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह यत्र वै परमं शौचं तन्मे व्याख्यातुमर्हसि
MBh 13.111.2
भीष्म उवाच सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम् यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः
MBh 13.111.3
अगाधे विमले शुद्धे सत्यतोये धृतिह्रदे स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम्
MBh 13.111.4
तीर्थशौचमनर्थित्वमार्दवं सत्यमार्जवम् अहिंसा सर्वभूतानामानृशंस्यं दमः शमः
MBh 13.111.5
निर्ममा निरहंकारा निर्द्वंद्वा निष्परिग्रहाः शुचयस्तीर्थभूतास्ते ये भैक्षमुपभुञ्जते
MBh 13.111.6
तत्त्ववित्त्वनहंबुद्धिस्तीर्थं परममुच्यते शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षणम्
MBh 13.111.7
रजस्तमः सत्त्वमथो येषां निर्धौतमात्मनः शौचाशौचे न ते सक्ताः स्वकार्यपरिमार्गिणः
MBh 13.111.8
सर्वत्यागेष्वभिरताः सर्वज्ञाः सर्वदर्शिनः शौचेन वृत्तशौचार्थास्ते तीर्थाः शुचयश्च ते
MBh 13.111.9
नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते स स्नातो यो दमस्नातः सबाह्याभ्यन्तरः शुचिः
MBh 13.111.10
अतीतेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा
MBh 13.111.11
प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः तथा निष्किंचनत्वं च मनसश्च प्रसन्नता
MBh 13.111.12
वृत्तशौचं मनःशौचं तीर्थशौचं परं हितम् ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं मतम्
MBh 13.111.13
मनसाथ प्रदीपेन ब्रह्मज्ञानबलेन च स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शिनः
MBh 13.111.14
समारोपितशौचस्तु नित्यं भावसमन्वितः केवलं गुणसंपन्नः शुचिरेव नरः सदा
MBh 13.111.15
शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि
MBh 13.111.16
यथा शरीरस्योद्देशाः शुचयः परिनिर्मिताः तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च
MBh 13.111.17
प्रार्थनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात् धुनन्ति पापं तीर्थेषु पूता यान्ति दिवं सुखम्
MBh 13.111.18
परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा अतीव पुण्यास्ते भागाः सलिलस्य च तेजसा
MBh 13.111.19
मनसश्च पृथिव्याश्च पुण्यतीर्थास्तथापरे उभयोरेव यः स्नातः स सिद्धिं शीघ्रमाप्नुयात्
MBh 13.111.20
यथा बलं क्रियाहीनं क्रिया वा बलवर्जिता नेह साधयते कार्यं समायुक्तस्तु सिध्यति
MBh 13.111.21
एवं शरीरशौचेन तीर्थशौचेन चान्वितः ततः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.111local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷