🪷 Mahābhārata · Anuśāsana-Parva · Chapter 110

The Book of the Final Teaching · Parva 13 · 137 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 137 Shlokas

MBh 13.110.1
युधिष्ठिर उवाच पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः
MBh 13.110.2
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह बहूपकरणा यज्ञा नानासंभारविस्तराः
MBh 13.110.3
पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः
MBh 13.110.4
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत् तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह
MBh 13.110.5
भीष्म उवाच इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर
MBh 13.110.6
यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् अहिंसानिरतो नित्यं जुह्वानो जातवेदसम्
MBh 13.110.7
षड्भिरेव तु वर्षैः स सिध्यते नात्र संशयः तप्तकाञ्चनवर्णं च विमानं लभते नरः
MBh 13.110.8
देवस्त्रीणामधीवासे नृत्यगीतनिनादिते प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसंनिभे
MBh 13.110.9
त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम् धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत्
MBh 13.110.10
द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम् सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् यज्ञं बहुसुवर्णं वा वासवप्रियमाहरेत्
MBh 13.110.11
सत्यवाग्दानशीलश्च ब्रह्मण्यश्चानसूयकः क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम्
MBh 13.110.12
पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत्सह
MBh 13.110.13
तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम् सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्
MBh 13.110.14
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् मयूरहंससंयुक्तं विमानं लभते नरः
MBh 13.110.15
सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः
MBh 13.110.16
दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम् सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
MBh 13.110.17
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् इन्द्रकन्याभिरूढं च विमानं लभते नरः
MBh 13.110.18
सागरस्य च पर्यन्ते वासवं लोकमावसेत् देवराजस्य च क्रीडां नित्यकालमवेक्षते
MBh 13.110.19
दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम् सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्
MBh 13.110.20
अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः अनसूयुरपापस्थो द्वादशाहफलं लभेत्
MBh 13.110.21
जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम्
MBh 13.110.22
आवर्तनानि चत्वारि तथा पद्मानि द्वादश शराग्निपरिमाणं च तत्रासौ वसते सुखम्
MBh 13.110.23
दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम् सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
MBh 13.110.24
सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्
MBh 13.110.25
अग्निज्वालासमाभासं हंसबर्हिणसेवितम् शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम्
MBh 13.110.26
तथैवाप्सरसामङ्के प्रसुप्तः प्रतिबुध्यते नूपुराणां निनादेन मेखलानां च निस्वनैः
MBh 13.110.27
कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च पद्मान्यष्टादश तथा पताके द्वे तथैव च
MBh 13.110.28
अयुतानि च पञ्चाशदृक्षचर्मशतस्य च लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते
MBh 13.110.29
दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम् सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
MBh 13.110.30
सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् सुमनोवर्णकं चैव मधुमांसं च वर्जयेत्
MBh 13.110.31
पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति तत्र तत्र च सिद्धार्थो देवकन्याभिरुह्यते
MBh 13.110.32
फलं बहुसुवर्णस्य यज्ञस्य लभते नरः संख्यामतिगुणां चापि तेषु लोकेषु मोदते
MBh 13.110.33
यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः देवकार्यपरो नित्यं जुह्वानो जातवेदसम्
MBh 13.110.34
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् पद्मवर्णनिभं चैव विमानमधिरोहति
MBh 13.110.35
कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः वयोरूपविलासिन्यो लभते नात्र संशयः
MBh 13.110.36
यस्तु संवत्सरं भुङ्क्ते नवमे नवमेऽहनि सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
MBh 13.110.37
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः पुण्डरीकप्रकाशं च विमानं लभते नरः
MBh 13.110.38
दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम्
MBh 13.110.39
अष्टादशसहस्राणि वर्षाणां कल्पमेव च कोटीशतसहस्रं च तेषु लोकेषु मोदते
MBh 13.110.40
यस्तु संवत्सरं भुङ्क्ते दशाहे वै गते गते सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
MBh 13.110.41
ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम्
MBh 13.110.42
रूपवत्यश्च तं कन्या रमयन्ति सदा नरम् नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा
MBh 13.110.43
विमानं मण्डलावर्तमावर्तगहनावृतम् सागरोर्मिप्रतीकाशं साधयेद्यानमुत्तमम्
MBh 13.110.44
विचित्रमणिमालाभिर्नादितं शङ्खपुष्करैः स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम् आरोहति महद्यानं हंससारसवाहनम्
MBh 13.110.45
एकादशे तु दिवसे यः प्राप्ते प्राशते हविः सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
MBh 13.110.46
परस्त्रियो नाभिलषेद्वाचाथ मनसापि वा अनृतं च न भाषेत मातापित्रोः कृतेऽपि वा
MBh 13.110.47
अभिगच्छेन्महादेवं विमानस्थं महाबलम् स्वयंभुवं च पश्येत विमानं समुपस्थितम्
MBh 13.110.48
कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम्
MBh 13.110.49
वर्षाण्यपरिमेयानि युगान्तमपि चावसेत् कोटीशतसहस्रं च दश कोटिशतानि च
MBh 13.110.50
रुद्रं नित्यं प्रणमते देवदानवसंमतम् स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत्
MBh 13.110.51
दिवसे द्वादशे यस्तु प्राप्ते वै प्राशते हविः सदा द्वादशमासान्वै सर्वमेधफलं लभेत्
MBh 13.110.52
आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम्
MBh 13.110.53
हंसमालापरिक्षिप्तं नागवीथीसमाकुलम् मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम्
MBh 13.110.54
अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् नित्यमावसते राजन्नरनारीसमावृतम् ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मवित्
MBh 13.110.55
त्रयोदशे तु दिवसे यः प्राप्ते प्राशते हविः सदा द्वादश मासान्वै देवसत्रफलं लभेत्
MBh 13.110.56
रक्तपद्मोदयं नाम विमानं साधयेन्नरः जातरूपप्रयुक्तं च रत्नसंचयभूषितम्
MBh 13.110.57
देवकन्याभिराकीर्णं दिव्याभरणभूषितम् पुण्यगन्धोदयं दिव्यं वायव्यैरुपशोभितम्
MBh 13.110.58
तत्र शङ्कुपताकं च युगान्तं कल्पमेव च अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत्
MBh 13.110.59
गीतगन्धर्वघोषैश्च भेरीपणवनिस्वनैः सदा प्रमुदितस्ताभिर्देवकन्याभिरीड्यते
MBh 13.110.60
चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः सदा द्वादश मासान्वै महामेधफलं लभेत्
MBh 13.110.61
अनिर्देश्यवयोरूपा देवकन्याः स्वलंकृताः मृष्टतप्ताङ्गदधरा विमानैरनुयान्ति तम्
MBh 13.110.62
कलहंसविनिर्घोषैर्नूपुराणां च निस्वनैः काञ्चीनां च समुत्कर्षैस्तत्र तत्र विबोध्यते
MBh 13.110.63
देवकन्यानिवासे च तस्मिन्वसति मानवः जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः
MBh 13.110.64
यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम्
MBh 13.110.65
यानमारोहते नित्यं हंसबर्हिणसेवितम् मणिमण्डलकैश्चित्रं जातरूपसमावृतम्
MBh 13.110.66
दिव्याभरणशोभाभिर्वरस्त्रीभिरलंकृतम् एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् वैजयन्तीसहस्रैश्च शोभितं गीतनिस्वनैः
MBh 13.110.67
दिव्यं दिव्यगुणोपेतं विमानमधिरोहति मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः
MBh 13.110.68
षोडशे दिवसे यस्तु संप्राप्ते प्राशते हविः सदा द्वादश मासान्वै सोमयज्ञफलं लभेत्
MBh 13.110.69
सोमकन्यानिवासेषु सोऽध्यावसति नित्यदा सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत्
MBh 13.110.70
सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते
MBh 13.110.71
फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् आवर्तनानि चत्वारि सागरे यात्यसौ नरः
MBh 13.110.72
दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः सदा द्वादश मासान्वै जुह्वानो जातवेदसम्
MBh 13.110.73
स्थानं वारुणमैन्द्रं च रौद्रं चैवाधिगच्छति मारुतौशनसे चैव ब्रह्मलोकं च गच्छति
MBh 13.110.74
तत्र दैवतकन्याभिरासनेनोपचर्यते भूर्भुवं चापि देवर्षिं विश्वरूपमवेक्षते
MBh 13.110.75
तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम् द्वात्रिंशद्रूपधारिण्यो मधुराः समलंकृताः
MBh 13.110.76
चन्द्रादित्यावुभौ यावद्गगने चरतः प्रभो तावच्चरत्यसौ वीरः सुधामृतरसाशनः
MBh 13.110.77
अष्टादशे तु दिवसे प्राश्नीयादेकभोजनम् सदा द्वादश मासान्वै सप्त लोकान्स पश्यति
MBh 13.110.78
रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते देवकन्याधिरूढैस्तु भ्राजमानैः स्वलंकृतैः
MBh 13.110.79
व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति
MBh 13.110.80
तत्र कल्पसहस्रं स कान्ताभिः सह मोदते सुधारसं च भुञ्जीत अमृतोपममुत्तमम्
MBh 13.110.81
एकोनविंशे दिवसे यो भुङ्क्ते एकभोजनम् सदा द्वादश मासान्वै सप्त लोकान्स पश्यति
MBh 13.110.82
उत्तमं लभते स्थानमप्सरोगणसेवितम् गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम्
MBh 13.110.83
तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः दिव्याम्बरधरः श्रीमानयुतानां शतं समाः
MBh 13.110.84
पूर्णेऽथ दिवसे विंशे यो भुङ्क्ते ह्येकभोजनम् सदा द्वादश मासांस्तु सत्यवादी धृतव्रतः
MBh 13.110.85
अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः स लोकान्विपुलान्दिव्यानादित्यानामुपाश्नुते
MBh 13.110.86
गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः विमानैः काञ्चनैर्दिव्यैः पृष्ठतश्चानुगम्यते
MBh 13.110.87
एकविंशे तु दिवसे यो भुङ्क्ते ह्येकभोजनम् सदा द्वादश मासान्वै जुह्वानो जातवेदसम्
MBh 13.110.88
लोकमौशनसं दिव्यं शक्रलोकं च गच्छति अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा
MBh 13.110.89
अनभिज्ञश्च दुःखानां विमानवरमास्थितः सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः
MBh 13.110.90
द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम् सदा द्वादश मासान्वै जुह्वानो जातवेदसम्
MBh 13.110.91
धृतिमानहिंसानिरतः सत्यवागनसूयकः लोकान्वसूनामाप्नोति दिवाकरसमप्रभः
MBh 13.110.92
कामचारी सुधाहारो विमानवरमास्थितः रमते देवकन्याभिर्दिव्याभरणभूषितः
MBh 13.110.93
त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम् सदा द्वादश मासांस्तु मिताहारो जितेन्द्रियः
MBh 13.110.94
वायोरुशनसश्चैव रुद्रलोकं च गच्छति कामचारी कामगमः पूज्यमानोऽप्सरोगणैः
MBh 13.110.95
अनेकगुणपर्यन्तं विमानवरमास्थितः रमते देवकन्याभिर्दिव्याभरणभूषितः
MBh 13.110.96
चतुर्विंशे तु दिवसे यः प्राशेदेकभोजनम् सदा द्वादश मासान्वै जुह्वानो जातवेदसम्
MBh 13.110.97
आदित्यानामधीवासे मोदमानो वसेच्चिरम् दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः
MBh 13.110.98
विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे रमते देवकन्यानां सहस्रैरयुतैस्तथा
MBh 13.110.99
पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् सदा द्वादश मासांस्तु पुष्कलं यानमारुहेत्
MBh 13.110.100
सिंहव्याघ्रप्रयुक्तैश्च मेघस्वननिनादितैः रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते
MBh 13.110.101
देवकन्यासमारूढै राजतैर्विमलैः शुभैः विमानमुत्तमं दिव्यमास्थाय सुमनोहरम्
MBh 13.110.102
तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते सुधारसं चोपजीवन्नमृतोपममुत्तमम्
MBh 13.110.103
षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम् सदा द्वादश मासांस्तु नियतो नियताशनः
MBh 13.110.104
जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः
MBh 13.110.105
सप्तानां मरुतां लोकान्वसूनां चापि सोऽश्नुते विमाने स्फाटिके दिव्ये सर्वरत्नैरलंकृते
MBh 13.110.106
गन्धर्वैरप्सरोभिश्च पूज्यमानः प्रमोदते द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा
MBh 13.110.107
सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम् सदा द्वादश मासांस्तु जुह्वानो जातवेदसम्
MBh 13.110.108
फलं प्राप्नोति विपुलं देवलोके च पूज्यते अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते
MBh 13.110.109
देवर्षिचरितं राजन्राजर्षिभिरधिष्ठितम् अध्यावसति दिव्यात्मा विमानवरमास्थितः
MBh 13.110.110
स्त्रीभिर्मनोभिरामाभी रममाणो मदोत्कटः युगकल्पसहस्राणि त्रीण्यावसति वै सुखम्
MBh 13.110.111
योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम् सदा द्वादश मासांस्तु जितात्मा विजितेन्द्रियः
MBh 13.110.112
फलं देवर्षिचरितं विपुलं समुपाश्नुते भोगवांस्तेजसा भाति सहस्रांशुरिवामलः
MBh 13.110.113
सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः पीनस्तनोरुजघना दिव्याभरणभूषिताः
MBh 13.110.114
रमयन्ति मनः कान्ता विमाने सूर्यसंनिभे सर्वकामगमे दिव्ये कल्पायुतशतं समाः
MBh 13.110.115
एकोनत्रिंशे दिवसे यः प्राशेदेकभोजनम् सदा द्वादश मासान्वै सत्यव्रतपरायणः
MBh 13.110.116
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति
MBh 13.110.117
जातरूपमयं युक्तं सर्वरत्नविभूषितम् अप्सरोगणसंपूर्णं गन्धर्वैरभिनादितम्
MBh 13.110.118
तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः मनोभिरामा मधुरा रमयन्ति मदोत्कटाः
MBh 13.110.119
भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः दिव्यो दिव्येन वपुषा भ्राजमान इवामरः
MBh 13.110.120
वसूनां मरुतां चैव साध्यानामश्विनोस्तथा रुद्राणां च तथा लोकान्ब्रह्मलोकं च गच्छति
MBh 13.110.121
यस्तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः सदा द्वादश मासान्वै ब्रह्मलोकमवाप्नुयात्
MBh 13.110.122
सुधारसकृताहारः श्रीमान्सर्वमनोहरः तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव
MBh 13.110.123
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः सुखेष्वभिरतो योगी दुःखानामविजानकः
MBh 13.110.124
स्वयंप्रभाभिर्नारीभिर्विमानस्थो महीयते रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते
MBh 13.110.125
नानाविधसुरूपाभिर्नानारागाभिरेव च नानामधुरभाषाभिर्नानारतिभिरेव च
MBh 13.110.126
विमाने नगराकारे सूर्यवत्सूर्यसंनिभे पृष्ठतः सोमसंकाशे उदक्चैवाभ्रसंनिभे
MBh 13.110.127
दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले ऊर्ध्वं चित्राभिसंकाशे नैको वसति पूजितः
MBh 13.110.128
यावद्वर्षसहस्रं तु जम्बूद्वीपे प्रवर्षति तावत्संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीमतः
MBh 13.110.129
विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः
MBh 13.110.130
मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम् महर्षित्वमथासाद्य सशरीरगतिर्भवेत्
MBh 13.110.131
मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा जुह्वन्नग्नींश्च नियतः संध्योपासनसेविता
MBh 13.110.132
बहुभिर्नियमैरेवं मासानश्नाति यो नरः अभ्रावकाशशीलश्च तस्य वासो निरुच्यते
MBh 13.110.133
दिवं गत्वा शरीरेण स्वेन राजन्यथामरः स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते यथाविधि
MBh 13.110.134
एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः
MBh 13.110.135
दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा उपवासमिमं कृत्वा गच्छेच्च परमां गतिम् देवद्विजातिपूजायां रतो भरतसत्तम
MBh 13.110.136
उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु
MBh 13.110.137
दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 137 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.110local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷