🪷 Mahābhārata · Anuśāsana-Parva · Chapter 109
The Book of the Final Teaching · Parva 13 · 69 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 69 Shlokas
MBh 13.109.1
युधिष्ठिर उवाच
सर्वेषामेव वर्णानां म्लेच्छानां च पितामह
उपवासे मतिरियं कारणं च न विद्महे
MBh 13.109.2
ब्रह्मक्षत्रेण नियमाश्चर्तव्या इति नः श्रुतम्
उपवासे कथं तेषां कृत्यमस्ति पितामह
MBh 13.109.3
नियमं चोपवासानां सर्वेषां ब्रूहि पार्थिव
अवाप्नोति गतिं कां च उपवासपरायणः
MBh 13.109.4
उपवासः परं पुण्यमुपवासः परायणम्
उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते
MBh 13.109.5
अधर्मान्मुच्यते केन धर्ममाप्नोति वै कथम्
स्वर्गं पुण्यं च लभते कथं भरतसत्तम
MBh 13.109.6
उपोष्य चापि किं तेन प्रदेयं स्यान्नराधिप
धर्मेण च सुखानर्थाँल्लभेद्येन ब्रवीहि तम्
MBh 13.109.7
वैशंपायन उवाच
एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित्
धर्मपुत्रमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत्
MBh 13.109.8
इदं खलु महाराज श्रुतमासीत्पुरातनम्
उपवासविधौ श्रेष्ठा ये गुणा भरतर्षभ
MBh 13.109.9
प्राजापत्यं ह्यङ्गिरसं पृष्टवानस्मि भारत
यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम्
MBh 13.109.10
प्रश्नमेतं मया पृष्टो भगवानग्निसंभवः
उपवासविधिं पुण्यमाचष्ट भरतर्षभ
MBh 13.109.11
अङ्गिरा उवाच
ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन
द्विस्त्रिरात्रमथैवात्र निर्दिष्टं पुरुषर्षभ
MBh 13.109.12
वैश्यशूद्रौ तु यौ मोहादुपवासं प्रकुर्वते
त्रिरात्रं द्विस्त्रिरात्रं वा तयोः पुष्टिर्न विद्यते
MBh 13.109.13
चतुर्थभक्तक्षपणं वैश्यशूद्रे विधीयते
त्रिरात्रं न तु धर्मज्ञैर्विहितं ब्रह्मवादिभिः
MBh 13.109.14
पञ्चम्यां चैव षष्ठ्यां च पौर्णमास्यां च भारत
क्षमावान्रूपसंपन्नः श्रुतवांश्चैव जायते
MBh 13.109.15
नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन
यजिष्णुः पञ्चमीं षष्ठीं क्षपेद्यो भोजयेद्द्विजान्
MBh 13.109.16
अष्टमीमथ कौन्तेय शुक्लपक्षे चतुर्दशीम्
उपोष्य व्याधिरहितो वीर्यवानभिजायते
MBh 13.109.17
मार्गशीर्षं तु यो मासमेकभक्तेन संक्षिपेत्
भोजयेच्च द्विजान्भक्त्या स मुच्येद्व्याधिकिल्बिषैः
MBh 13.109.18
सर्वकल्याणसंपूर्णः सर्वौषधिसमन्वितः
कृषिभागी बहुधनो बहुपुत्रश्च जायते
MBh 13.109.19
पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षपेत्
सुभगो दर्शनीयश्च यशोभागी च जायते
MBh 13.109.20
पितृभक्तो माघमासमेकभक्तेन यः क्षपेत्
श्रीमत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते
MBh 13.109.21
भगदैवं तु यो मासमेकभक्तेन यः क्षपेत्
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः
MBh 13.109.22
चैत्रं तु नियतो मासमेकभक्तेन यः क्षपेत्
सुवर्णमणिमुक्ताढ्ये कुले महति जायते
MBh 13.109.23
निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रियः
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत्
MBh 13.109.24
ज्येष्ठामूलं तु यो मासमेकभक्तेन संक्षपेत्
ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वाभिजायते
MBh 13.109.25
आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः
बहुधान्यो बहुधनो बहुपुत्रश्च जायते
MBh 13.109.26
श्रावणं नियतो मासमेकभक्तेन यः क्षपेत्
यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः
MBh 13.109.27
प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरः
धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते
MBh 13.109.28
तथैवाश्वयुजं मासमेकभक्तेन यः क्षपेत्
प्रजावान्वाहनाढ्यश्च बहुपुत्रश्च जायते
MBh 13.109.29
कार्त्तिकं तु नरो मासं यः कुर्यादेकभोजनम्
शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते
MBh 13.109.30
इति मासा नरव्याघ्र क्षपतां परिकीर्तिताः
तिथीनां नियमा ये तु शृणु तानपि पार्थिव
MBh 13.109.31
पक्षे पक्षे गते यस्तु भक्तमश्नाति भारत
गवाढ्यो बहुपुत्रश्च दीर्घायुश्च स जायते
MBh 13.109.32
मासि मासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश
गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम्
MBh 13.109.33
एते तु नियमाः सर्वे कर्तव्याः शरदो दश
द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिमनुवर्तता
MBh 13.109.34
यस्तु प्रातस्तथा सायं भुञ्जानो नान्तरा पिबेत्
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम्
MBh 13.109.35
षड्भिः स वर्षैर्नृपते सिध्यते नात्र संशयः
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः
MBh 13.109.36
अधिवासे सोऽप्सरसां नृत्यगीतविनादिते
तप्तकाञ्चनवर्णाभं विमानमधिरोहति
MBh 13.109.37
पूर्णं वर्षसहस्रं तु ब्रह्मलोके महीयते
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते
MBh 13.109.38
यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः
अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते
MBh 13.109.39
दशवर्षसहस्राणि स्वर्गे च स महीयते
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते
MBh 13.109.40
यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते
अहिंसानिरतो नित्यं सत्यवाङ्नियतेन्द्रियः
MBh 13.109.41
वाजपेयस्य यज्ञस्य फलं वै समुपाश्नुते
त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते
MBh 13.109.42
षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षपेत्
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः
MBh 13.109.43
चक्रवाकप्रयुक्तेन विमानेन स गच्छति
चत्वारिंशत्सहस्राणि वर्षाणां दिवि मोदते
MBh 13.109.44
अष्टमेन तु भक्तेन जीवन्संवत्सरं नृप
गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः
MBh 13.109.45
हंससारसयुक्तेन विमानेन स गच्छति
पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते
MBh 13.109.46
पक्षे पक्षे गते राजन्योऽश्नीयाद्वर्षमेव तु
षण्मासानशनं तस्य भगवानङ्गिराब्रवीत्
षष्टिं वर्षसहस्राणि दिवमावसते च सः
MBh 13.109.47
वीणानां वल्लकीनां च वेणूनां च विशां पते
सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते
MBh 13.109.48
संवत्सरमिहैकं तु मासि मासि पिबेत्पयः
फलं विश्वजितस्तात प्राप्नोति स नरो नृप
MBh 13.109.49
सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति
सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते
MBh 13.109.50
मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते
विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः
MBh 13.109.51
अनार्तो व्याधिरहितो गच्छेदनशनं तु यः
पदे पदे यज्ञफलं स प्राप्नोति न संशयः
MBh 13.109.52
दिवं हंसप्रयुक्तेन विमानेन स गच्छति
शतं चाप्सरसः कन्या रमयन्त्यपि तं नरम्
MBh 13.109.53
आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः
शतं वर्षसहस्राणां मोदते दिवि स प्रभो
काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते
MBh 13.109.54
सहस्रहंससंयुक्ते विमाने सोमवर्चसि
स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ
MBh 13.109.55
क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम्
व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम्
MBh 13.109.56
दुःखितस्यार्थमानाभ्यां द्रव्याणां प्रतिपादनम्
न चैते स्वर्गकामस्य रोचन्ते सुखमेधसः
MBh 13.109.57
अतः स कामसंयुक्तो विमाने हेमसंनिभे
रमते स्त्रीशताकीर्णे पुरुषोऽलंकृतः शुभे
MBh 13.109.58
स्वस्थः सफलसंकल्पः सुखी विगतकल्मषः
अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः
MBh 13.109.59
बालसूर्यप्रतीकाशे विमाने हेमवर्चसि
वैडूर्यमुक्ताखचिते वीणामुरजनादिते
MBh 13.109.60
पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते
स्त्रीसहस्रानुचरिते स नरः सुखमेधते
MBh 13.109.61
यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव
तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते
MBh 13.109.62
नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः
न धर्मात्परमो लाभस्तपो नानशनात्परम्
MBh 13.109.63
ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च
उपवासैस्तथा तुल्यं तपःकर्म न विद्यते
MBh 13.109.64
उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे
ऋषयश्च परां सिद्धिमुपवासैरवाप्नुवन्
MBh 13.109.65
दिव्यं वर्षसहस्रं हि विश्वामित्रेण धीमता
क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतः
MBh 13.109.66
च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः
सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः
MBh 13.109.67
इदमङ्गिरसा पूर्वं महर्षिभ्यः प्रदर्शितम्
यः प्रदर्शयते नित्यं न स दुःखमवाप्नुते
MBh 13.109.68
इमं तु कौन्तेय यथाक्रमं विधिं; प्रवर्तितं ह्यङ्गिरसा महर्षिणा
पठेत यो वै शृणुयाच्च नित्यदा; न विद्यते तस्य नरस्य किल्बिषम्
MBh 13.109.69
विमुच्यते चापि स सर्वसंकरै;र्न चास्य दोषैरभिभूयते मनः
वियोनिजानां च विजानते रुतं; ध्रुवां च कीर्तिं लभते नरोत्तमः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 108
- Next chapter · Anuśāsana-Parva Ch 110 →
Sources and Connected Readings
Continue from these 69 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.109local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷