🪷 Mahābhārata · Anuśāsana-Parva · Chapter 113

The Book of the Final Teaching · Parva 13 · 28 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 28 Shlokas

MBh 13.113.1
युधिष्ठिर उवाच अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयानघ धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम्
MBh 13.113.2
बृहस्पतिरुवाच कृत्वा पापानि कर्माणि अधर्मवशमागतः मनसा विपरीतेन निरयं प्रतिपद्यते
MBh 13.113.3
मोहादधर्मं यः कृत्वा पुनः समनुतप्यते मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम्
MBh 13.113.4
यथा यथा नरः सम्यगधर्ममनुभाषते समाहितेन मनसा विमुच्यति तथा तथा भुजंग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात्
MBh 13.113.5
अदत्त्वापि प्रदानानि विविधानि समाहितः मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते
MBh 13.113.6
प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर नरः कृत्वाप्यकार्याणि तदा धर्मेण युज्यते
MBh 13.113.7
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता
MBh 13.113.8
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रकाशते
MBh 13.113.9
अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः अन्नस्य हि प्रदानेन स्वर्गमाप्नोति कौशिकः
MBh 13.113.10
न्यायलब्धं प्रदातव्यं द्विजेभ्यो ह्यन्नमुत्तमम् स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना
MBh 13.113.11
यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शता दश हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत्
MBh 13.113.12
ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ नरोऽधर्मात्प्रमुच्येत पापेष्वभिरतः सदा
MBh 13.113.13
भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते
MBh 13.113.14
अहिंसन्ब्राह्मणं नित्यं न्यायेन परिपाल्य च क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति
MBh 13.113.15
द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव
MBh 13.113.16
षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते
MBh 13.113.17
अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते
MBh 13.113.18
औरसेन बलेनान्नमर्जयित्वाविहिंसकः यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते
MBh 13.113.19
न्यायेनावाप्तमन्नं तु नरो लोभविवर्जितः द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते
MBh 13.113.20
अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः सतां पन्थानमाश्रित्य सर्वपापात्प्रमुच्यते
MBh 13.113.21
दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः ते स्म प्राणस्य दातारस्तेभ्यो धर्मः सनातनः
MBh 13.113.22
सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् कार्यं पात्रगतं नित्यमन्नं हि परमा गतिः
MBh 13.113.23
अन्नस्य हि प्रदानेन नरो दुर्गं न सेवते तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम्
MBh 13.113.24
यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः
MBh 13.113.25
भोजयित्वा दशशतं नरो वेदविदां नृप न्यायविद्धर्मविदुषामितिहासविदां तथा
MBh 13.113.26
न याति नरकं घोरं संसारांश्च न सेवते सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते फलम्
MBh 13.113.27
एवं सुखसमायुक्तो रमते विगतज्वरः रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते
MBh 13.113.28
एतत्ते सर्वमाख्यातमन्नदानफलं महत् मूलमेतद्धि धर्माणां प्रदानस्य च भारत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 28 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.113local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷