🪷 Mahābhārata · Anuśāsana-Parva · Chapter 11
The Book of the Final Teaching · Parva 13 · 20 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 20 Shlokas
MBh 13.11.1
युधिष्ठिर उवाच
कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ
श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह
MBh 13.11.2
भीष्म उवाच
अत्र ते वर्तयिष्यामि यथादृष्टं यथाश्रुतम्
रुक्मिणी देवकीपुत्रसंनिधौ पर्यपृच्छत
MBh 13.11.3
नारायणस्याङ्कगतां ज्वलन्तीं; दृष्ट्वा श्रियं पद्मसमानवक्त्राम्
कौतूहलाद्विस्मितचारुनेत्रा; पप्रच्छ माता मकरध्वजस्य
MBh 13.11.4
कानीह भूतान्युपसेवसे त्वं; संतिष्ठती कानि न सेवसे त्वम्
तानि त्रिलोकेश्वरभूतकान्ते; तत्त्वेन मे ब्रूहि महर्षिकन्ये
MBh 13.11.5
एवं तदा श्रीरभिभाष्यमाणा; देव्या समक्षं गरुडध्वजस्य
उवाच वाक्यं मधुराभिधानं; मनोहरं चन्द्रमुखी प्रसन्ना
MBh 13.11.6
वसामि सत्ये सुभगे प्रगल्भे; दक्षे नरे कर्मणि वर्तमाने
नाकर्मशीले पुरुषे वसामि; न नास्तिके सांकरिके कृतघ्ने
न भिन्नवृत्ते न नृशंसवृत्ते; न चापि चौरे न गुरुष्वसूये
MBh 13.11.7
ये चाल्पतेजोबलसत्त्वसारा; हृष्यन्ति कुप्यन्ति च यत्र तत्र
न देवि तिष्ठामि तथाविधेषु; नरेषु संसुप्तमनोरथेषु
MBh 13.11.8
यश्चात्मनि प्रार्थयते न किंचि;द्यश्च स्वभावोपहतान्तरात्मा
तेष्वल्पसंतोषरतेषु नित्यं; नरेषु नाहं निवसामि देवि
MBh 13.11.9
वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु
वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु
MBh 13.11.10
स्त्रीषु क्षान्तासु दान्तासु देवद्विजपरासु च
वसामि सत्यशीलासु स्वभावनिरतासु च
MBh 13.11.11
प्रकीर्णभाण्डामनवेक्ष्यकारिणीं; सदा च भर्तुः प्रतिकूलवादिनीम्
परस्य वेश्माभिरतामलज्जा;मेवंविधां स्त्रीं परिवर्जयामि
MBh 13.11.12
लोलामचोक्षामवलेहिनीं च; व्यपेतधैर्यां कलहप्रियां च
निद्राभिभूतां सततं शयाना;मेवंविधां स्त्रीं परिवर्जयामि
MBh 13.11.13
सत्यासु नित्यं प्रियदर्शनासु; सौभाग्ययुक्तासु गुणान्वितासु
वसामि नारीषु पतिव्रतासु; कल्याणशीलासु विभूषितासु
MBh 13.11.14
यानेषु कन्यासु विभूषणेषु; यज्ञेषु मेघेषु च वृष्टिमत्सु
वसामि फुल्लासु च पद्मिनीषु; नक्षत्रवीथीषु च शारदीषु
MBh 13.11.15
शैलेषु गोष्ठेषु तथा वनेषु; सरःसु फुल्लोत्पलपङ्कजेषु
नदीषु हंसस्वननादितासु; क्रौञ्चावघुष्टस्वरशोभितासु
MBh 13.11.16
विस्तीर्णकूलह्रदशोभितासु; तपस्विसिद्धद्विजसेवितासु
वसामि नित्यं सुबहूदकासु; सिंहैर्गजैश्चाकुलितोदकासु
मत्ते गजे गोवृषभे नरेन्द्रे; सिंहासने सत्पुरुषे च नित्यम्
MBh 13.11.17
यस्मिन्गृहे हूयते हव्यवाहो; गोब्राह्मणश्चार्च्यते देवताश्च
काले च पुष्पैर्बलयः क्रियन्ते; तस्मिन्गृहे नित्यमुपैमि वासम्
MBh 13.11.18
स्वाध्यायनित्येषु द्विजेषु नित्यं; क्षत्रे च धर्माभिरते सदैव
वैश्ये च कृष्याभिरते वसामि; शूद्रे च शुश्रूषणनित्ययुक्ते
MBh 13.11.19
नारायणे त्वेकमना वसामि; सर्वेण भावेन शरीरभूता
तस्मिन्हि धर्मः सुमहान्निविष्टो; ब्रह्मण्यता चात्र तथा प्रियत्वम्
MBh 13.11.20
नाहं शरीरेण वसामि देवि; नैवं मया शक्यमिहाभिधातुम्
यस्मिंस्तु भावेन वसामि पुंसि; स वर्धते धर्मयशोर्थकामैः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 10
- Next chapter · Anuśāsana-Parva Ch 12 →
Sources and Connected Readings
Continue from these 20 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.11local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷