🪷 Mahābhārata · Anuśāsana-Parva · Chapter 12
The Book of the Final Teaching · Parva 13 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 49 Shlokas
MBh 13.12.1
युधिष्ठिर उवाच
स्त्रीपुंसयोः संप्रयोगे स्पर्शः कस्याधिको भवेत्
एतन्मे संशयं राजन्यथावद्वक्तुमर्हसि
MBh 13.12.2
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भङ्गाश्वनेन शक्रस्य यथा वैरमभूत्पुरा
MBh 13.12.3
पुरा भङ्गाश्वनो नाम राजर्षिरतिधार्मिकः
अपुत्रः स नरव्याघ्र पुत्रार्थं यज्ञमाहरत्
MBh 13.12.4
अग्निष्टुं नाम राजर्षिरिन्द्रद्विष्टं महाबलः
प्रायश्चित्तेषु मर्त्यानां पुत्रकामस्य चेष्यते
MBh 13.12.5
इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः
अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः
MBh 13.12.6
कस्यचित्त्वथ कालस्य मृगयामटतो नृप
इदमन्तरमित्येव शक्रो नृपममोहयत्
MBh 13.12.7
एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः
न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा
MBh 13.12.8
इतश्चेतश्च वै धावञ्श्रमतृष्णार्दितो नृपः
सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा
सोऽवगाह्य सरस्तात पाययामास वाजिनम्
MBh 13.12.9
अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः
अवगाह्य ततः स्नातो राजा स्त्रीत्वमवाप ह
MBh 13.12.10
आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः
चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः
MBh 13.12.11
आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम्
अग्निष्टुं नाम इष्टं मे पुत्राणां शतमौरसम्
MBh 13.12.12
जातं महाबलानां वै तान्प्रवक्ष्यामि किं त्वहम्
दारेषु चास्मदीयेषु पौरजानपदेषु च
MBh 13.12.13
मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च
स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः
व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः
MBh 13.12.14
पौरुषं विप्रनष्टं मे स्त्रीत्वं केनापि मेऽभवत्
स्त्रीभावात्कथमश्वं तु पुनरारोढुमुत्सहे
MBh 13.12.15
महता त्वथ खेदेन आरुह्याश्वं नराधिपः
पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तम
MBh 13.12.16
पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते
किं न्विदं त्विति विज्ञाय विस्मयं परमं गताः
MBh 13.12.17
अथोवाच स राजर्षिः स्त्रीभूतो वदतां वरः
मृगयामस्मि निर्यातो बलैः परिवृतो दृढम्
उद्भ्रान्तः प्राविशं घोरामटवीं दैवमोहितः
MBh 13.12.18
अटव्यां च सुघोरायां तृष्णार्तो नष्टचेतनः
सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम्
MBh 13.12.19
तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः
अतृप्त इव पुत्राणां दाराणां च धनस्य च
MBh 13.12.20
उवाच पुत्रांश्च ततः स्त्रीभूतः पार्थिवोत्तमः
संप्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः
अभिषिच्य स पुत्राणां शतं राजा वनं गतः
MBh 13.12.21
तामाश्रमे स्त्रियं तात तापसोऽभ्यवपद्यत
तापसेनास्य पुत्राणामाश्रमेऽप्यभवच्छतम्
MBh 13.12.22
अथ सा तान्सुतान्गृह्य पूर्वपुत्रानभाषत
पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः
MBh 13.12.23
एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः
सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा
MBh 13.12.24
तान्दृष्ट्वा भ्रातृभावेन भुञ्जानान्राज्यमुत्तमम्
चिन्तयामास देवेन्द्रो मन्युनाभिपरिप्लुतः
उपकारोऽस्य राजर्षेः कृतो नापकृतं मया
MBh 13.12.25
ततो ब्राह्मणरूपेण देवराजः शतक्रतुः
भेदयामास तान्गत्वा नगरं वै नृपात्मजान्
MBh 13.12.26
भ्रातॄणां नास्ति सौभ्रात्रं येऽप्येकस्य पितुः सुताः
राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः
MBh 13.12.27
यूयं भङ्गाश्वनापत्यास्तापसस्येतरे सुताः
कश्यपस्य सुराश्चैव असुराश्च सुतास्तथा
युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः
MBh 13.12.28
इन्द्रेण भेदितास्ते तु युद्धेऽन्योन्यमपातयन्
तच्छ्रुत्वा तापसी चापि संतप्ता प्ररुरोद ह
MBh 13.12.29
ब्राह्मणच्छद्मनाभ्येत्य तामिन्द्रोऽथान्वपृच्छत
केन दुःखेन संतप्ता रोदिषि त्वं वरानने
MBh 13.12.30
ब्राह्मणं तु ततो दृष्ट्वा सा स्त्री करुणमब्रवीत्
पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते
MBh 13.12.31
अहं राजाभवं विप्र तत्र पुत्रशतं मया
समुत्पन्नं सुरूपाणां विक्रान्तानां द्विजोत्तम
MBh 13.12.32
कदाचिन्मृगयां यात उद्भ्रान्तो गहने वने
अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम
पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः
MBh 13.12.33
स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना
आश्रमे जनितं ब्रह्मन्नीतास्ते नगरं मया
MBh 13.12.34
तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज
एतच्छोचामि विप्रेन्द्र दैवेनाभिपरिप्लुता
MBh 13.12.35
इन्द्रस्तां दुःखितां दृष्ट्वा अब्रवीत्परुषं वचः
पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम्
MBh 13.12.36
इन्द्रद्विष्टेन यजता मामनादृत्य दुर्मते
इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते यातितं मया
MBh 13.12.37
इन्द्रं तु दृष्ट्वा राजर्षिः पादयोः शिरसा गतः
प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः
इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि
MBh 13.12.38
प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ
पुत्रा वै कतमे राजञ्जीवन्तु तव शंस मे
स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन्
MBh 13.12.39
तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः
स्त्रीभूतस्य हि ये जातास्ते मे जीवन्तु वासव
MBh 13.12.40
इन्द्रस्तु विस्मितो हृष्टः स्त्रियं पप्रच्छ तां पुनः
पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव
MBh 13.12.41
स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम्
कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि
MBh 13.12.42
स्त्र्युवाच
स्त्रियास्त्वभ्यधिकः स्नेहो न तथा पुरुषस्य वै
तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै
MBh 13.12.43
भीष्म उवाच
एवमुक्ते ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह
सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि
MBh 13.12.44
वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत
पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षसि
MBh 13.12.45
स्त्र्युवाच
स्त्रीत्वमेव वृणे शक्र प्रसन्ने त्वयि वासव
MBh 13.12.46
एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह
पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो
MBh 13.12.47
एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः
स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा
एतस्मात्कारणाच्छक्र स्त्रीत्वमेव वृणोम्यहम्
MBh 13.12.48
रमे चैवाधिकं स्त्रीत्वे सत्यं वै देवसत्तम
स्त्रीभावेन हि तुष्टोऽस्मि गम्यतां त्रिदशाधिप
MBh 13.12.49
एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं गतः
एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 11
- Next chapter · Anuśāsana-Parva Ch 13 →
Sources and Connected Readings
Continue from these 49 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.12local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷