🪷 Mahābhārata · Anuśāsana-Parva · Chapter 10
The Book of the Final Teaching · Parva 13 · 70 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 70 Shlokas
MBh 13.10.1
युधिष्ठिर उवाच
मित्रसौहृदभावेन उपदेशं करोति यः
जात्यावरस्य राजर्षे दोषस्तस्य भवेन्न वा
MBh 13.10.2
एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह
सूक्ष्मा गतिर्हि धर्मस्य यत्र मुह्यन्ति मानवाः
MBh 13.10.3
भीष्म उवाच
अत्र ते वर्तयिष्यामि शृणु राजन्यथागमम्
ऋषीणां वदतां पूर्वं श्रुतमासीद्यथा मया
MBh 13.10.4
उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित्
उपदेशे महान्दोष उपाध्यायस्य भाष्यते
MBh 13.10.5
निदर्शनमिदं राजञ्शृणु मे भरतर्षभ
दुरुक्तवचने राजन्यथा पूर्वं युधिष्ठिर
ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे
MBh 13.10.6
तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम्
बहुगुल्मलताकीर्णं मृगद्विजनिषेवितम्
MBh 13.10.7
सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम्
व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम्
MBh 13.10.8
ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः
नियमव्रतसंपन्नैः समाकीर्णं तपस्विभिः
दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः
MBh 13.10.9
वेदाध्ययनघोषैश्च नादितं भरतर्षभ
वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम्
MBh 13.10.10
तत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः
आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः
MBh 13.10.11
तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः
वहतो विविधा दीक्षाः संप्रहृष्यत भारत
MBh 13.10.12
अथास्य बुद्धिरभवत्तपस्ये भरतर्षभ
ततोऽब्रवीत्कुलपतिं पादौ संगृह्य भारत
MBh 13.10.13
भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ
तन्मां त्वं भगवन्वक्तुं प्रव्राजयितुमर्हसि
MBh 13.10.14
वर्णावरोऽहं भगवञ्शूद्रो जात्यास्मि सत्तम
शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे
MBh 13.10.15
कुलपतिरुवाच
न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम्
आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव
MBh 13.10.16
भीष्म उवाच
एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप
कथमत्र मया कार्यं श्रद्धा धर्मे परा च मे
विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः
MBh 13.10.17
गत्वाश्रमपदाद्दूरमुटजं कृतवांस्तु सः
तत्र वेदिं च भूमिं च देवतायतनानि च
निवेश्य भरतश्रेष्ठ नियमस्थोऽभवत्सुखम्
MBh 13.10.18
अभिषेकांश्च नियमान्देवतायतनेषु च
बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत्
MBh 13.10.19
संकल्पनियमोपेतः फलाहारो जितेन्द्रियः
नित्यं संनिहिताभिश्च ओषधीभिः फलैस्तथा
MBh 13.10.20
अतिथीन्पूजयामास यथावत्समुपागतान्
एवं हि सुमहान्कालो व्यत्यक्रामत्स तस्य वै
MBh 13.10.21
अथास्य मुनिरागच्छत्संगत्या वै तमाश्रमम्
संपूज्य स्वागतेनर्षिं विधिवत्पर्यतोषयत्
MBh 13.10.22
अनुकूलाः कथाः कृत्वा यथावत्पर्यपृच्छत
ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः
MBh 13.10.23
एवं स बहुशस्तस्य शूद्रस्य भरतर्षभ
सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभ
MBh 13.10.24
अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ
पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु
MBh 13.10.25
बाढमित्येव तं विप्र उवाच भरतर्षभ
शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत्
MBh 13.10.26
अथ दर्भांश्च वन्याश्च ओषधीर्भरतर्षभ
पवित्रमासनं चैव बृसीं च समुपानयत्
MBh 13.10.27
अथ दक्षिणमावृत्य बृसीं परमशीर्षिकाम्
कृतामन्यायतो दृष्ट्वा ततस्तमृषिरब्रवीत्
MBh 13.10.28
कुरुष्वैतां पूर्वशीर्षां भव चोदङ्मुखः शुचिः
स च तत्कृतवाञ्शूद्रः सर्वं यदृषिरब्रवीत्
MBh 13.10.29
यथोपदिष्टं मेधावी दर्भादींस्तान्यथातथम्
हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना
MBh 13.10.30
ऋषिणा पितृकार्ये च स च धर्मपथे स्थितः
पितृकार्ये कृते चापि विसृष्टः स जगाम ह
MBh 13.10.31
अथ दीर्घस्य कालस्य स तप्यञ्शूद्रतापसः
वने पञ्चत्वमगमत्सुकृतेन च तेन वै
अजायत महाराजराजवंशे महाद्युतिः
MBh 13.10.32
तथैव स ऋषिस्तात कालधर्ममवाप्य ह
पुरोहितकुले विप्र आजातो भरतर्षभ
MBh 13.10.33
एवं तौ तत्र संभूतावुभौ शूद्रमुनी तदा
क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ
MBh 13.10.34
अथर्ववेदे वेदे च बभूवर्षिः सुनिश्चितः
कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः
सख्ये चापि परा प्रीतिस्तयोश्चापि व्यवर्धत
MBh 13.10.35
पितर्युपरते चापि कृतशौचः स भारत
अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः
अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः
MBh 13.10.36
स तं पुरोधाय सुखमवसद्भरतर्षभ
राज्यं शशास धर्मेण प्रजाश्च परिपालयन्
MBh 13.10.37
पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत्
उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम्
एवं स बहुशो राजन्पुरोधसमुपाहसत्
MBh 13.10.38
लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम्
उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमानभूत्
MBh 13.10.39
अथ शून्ये पुरोधास्तु सह राज्ञा समागतः
कथाभिरनुकूलाभी राजानमभिरामयत्
MBh 13.10.40
ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ
वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते
MBh 13.10.41
राजोवाच
वराणां ते शतं दद्यां किमुतैकं द्विजोत्तम
स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव
MBh 13.10.42
पुरोहित उवाच
एकं वै वरमिच्छामि यदि तुष्टोऽसि पार्थिव
यद्ददासि महाराज सत्यं तद्वद मानृतम्
MBh 13.10.43
भीष्म उवाच
बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर
यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे
MBh 13.10.44
पुरोहित उवाच
पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत्
शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य माम्
MBh 13.10.45
सव्रीडं वै भवति हि मनो मे हसता त्वया
कामया शापितो राजन्नान्यथा वक्तुमर्हसि
MBh 13.10.46
भाव्यं हि कारणेनात्र न ते हास्यमकारणम्
कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे
MBh 13.10.47
राजोवाच
एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि
अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज
MBh 13.10.48
पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम
जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु
MBh 13.10.49
शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः
ऋषिरुग्रतपास्त्वं च तदाभूर्द्विजसत्तम
MBh 13.10.50
प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना
पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ
बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम
MBh 13.10.51
एतेन कर्मदोषेण पुरोधास्त्वमजायथाः
अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम्
मत्कृते ह्युपदेशेन त्वया प्राप्तमिदं फलम्
MBh 13.10.52
एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम
न त्वां परिभवन्ब्रह्मन्प्रहसामि गुरुर्भवान्
MBh 13.10.53
विपर्ययेण मे मन्युस्तेन संतप्यते मनः
जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै
MBh 13.10.54
एवं तवोग्रं हि तप उपदेशेन नाशितम्
पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे
MBh 13.10.55
इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज
गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम
MBh 13.10.56
भीष्म उवाच
ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः
ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः
MBh 13.10.57
कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमः
तीर्थानि चाभिगत्वा वै दानानि विविधानि च
MBh 13.10.58
दत्त्वा गाश्चैव विप्राणां पूतात्मा सोऽभवद्द्विजः
तमेव चाश्रमं गत्वा चचार विपुलं तपः
MBh 13.10.59
ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम
संमतश्चाभवत्तेषामाश्रमेऽऽश्रमवासिनाम्
MBh 13.10.60
एवं प्राप्तो महत्कृच्छ्रमृषिः स नृपसत्तम
ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने
MBh 13.10.61
वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप
उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात्
MBh 13.10.62
एषितव्यं सदा वाचा नृपेण द्विजसत्तमात्
न प्रवक्तव्यमिह हि किंचिद्वर्णावरे जने
MBh 13.10.63
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः
एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति
MBh 13.10.64
तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किंचिदग्रतः
सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः
MBh 13.10.65
तस्मान्मौनानि मुनयो दीक्षां कुर्वन्ति चादृताः
दुरुक्तस्य भयाद्राजन्नानुभाषन्ति किंचन
MBh 13.10.66
धार्मिका गुणसंपन्नाः सत्यार्जवपरायणाः
दुरुक्तवाचाभिहताः प्राप्नुवन्तीह दुष्कृतम्
MBh 13.10.67
उपदेशो न कर्तव्यः कदाचिदपि कस्यचित्
उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात्
MBh 13.10.68
विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता
सत्यानृतेन हि कृत उपदेशो हिनस्ति वै
MBh 13.10.69
वक्तव्यमिह पृष्टेन विनिश्चित्य विपर्ययम्
स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात्
MBh 13.10.70
एतत्ते सर्वमाख्यातमुपदेशे कृते सति
महान्क्लेशो हि भवति तस्मान्नोपदिशेत्क्वचित्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 9
- Next chapter · Anuśāsana-Parva Ch 11 →
Sources and Connected Readings
Continue from these 70 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.10local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷