🪷 Mahābhārata · Anuśāsana-Parva · Chapter 9
The Book of the Final Teaching · Parva 13 · 24 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 24 Shlokas
MBh 13.9.1
युधिष्ठिर उवाच
ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह
न प्रयच्छन्ति मोहात्ते के भवन्ति महामते
MBh 13.9.2
एतन्मे तत्त्वतो ब्रूहि धर्मं धर्मभृतां वर
प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः
MBh 13.9.3
भीष्म उवाच
यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु
आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम्
MBh 13.9.4
यां रात्रिं जायते पापो यां च रात्रिं विनश्यति
एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत
यच्च तस्य हुतं किंचित्सर्वं तस्योपहन्यते
MBh 13.9.5
अत्रैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः
निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया
MBh 13.9.6
अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः
अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते
MBh 13.9.7
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
सृगालस्य च संवादं वानरस्य च भारत
MBh 13.9.8
तौ सखायौ पुरा ह्यास्तां मानुषत्वे परंतप
अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा
MBh 13.9.9
ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत्
श्मशानमध्ये संप्रेक्ष्य पूर्वजातिमनुस्मरन्
MBh 13.9.10
किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम्
यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान्
MBh 13.9.11
एवमुक्तः प्रत्युवाच सृगालो वानरं तदा
ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाकृतम्
MBh 13.9.12
तत्कृते पापिकां योनिमापन्नोऽस्मि प्लवंगम
तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः
MBh 13.9.13
इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम्
कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम्
MBh 13.9.14
श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते
कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव
MBh 13.9.15
एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै
प्रतिश्रुत्य भवेद्देयं नाशा कार्या हि ब्राह्मणैः
MBh 13.9.16
ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते
सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः
MBh 13.9.17
यं निरीक्षेत संक्रुद्ध आशया पूर्वजातया
प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा
MBh 13.9.18
स एव हि यदा तुष्टो वचसा प्रतिनन्दति
भवत्यगदसंकाशो विषये तस्य भारत
MBh 13.9.19
पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा
पुरं जनपदं चैव शान्तिरिष्टेव पुष्यति
MBh 13.9.20
एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते
सहस्रकिरणस्येव सवितुर्धरणीतले
MBh 13.9.21
तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर
यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम
MBh 13.9.22
ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः
शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया
MBh 13.9.23
इतो दत्तेन जीवन्ति देवताः पितरस्तथा
तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता
MBh 13.9.24
महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते
वेलायां न तु कस्यांचिद्गच्छेद्विप्रो ह्यपूजितः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 8
- Next chapter · Anuśāsana-Parva Ch 10 →
Sources and Connected Readings
Continue from these 24 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.9local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷