🪷 Mahābhārata · Anuśāsana-Parva · Chapter 106
The Book of the Final Teaching · Parva 13 · 42 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 42 Shlokas
MBh 13.106.1
युधिष्ठिर उवाच
दानं बहुविधाकारं शान्तिः सत्यमहिंसता
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत्
MBh 13.106.2
पितामहस्य विदितं किमन्यत्र तपोबलात्
तपसो यत्परं तेऽद्य तन्मे व्याख्यातुमर्हसि
MBh 13.106.3
भीष्म उवाच
तपः प्रचक्षते यावत्तावल्लोका युधिष्ठिर
मतं मम तु कौन्तेय तपो नानशनात्परम्
MBh 13.106.4
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भगीरथस्य संवादं ब्रह्मणश्च महात्मनः
MBh 13.106.5
अतीत्य सुरलोकं च गवां लोकं च भारत
ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतिः
MBh 13.106.6
तं दृष्ट्वा स वचः प्राह ब्रह्मा राजन्भगीरथम्
कथं भगीरथागास्त्वमिमं देशं दुरासदम्
MBh 13.106.7
न हि देवा न गन्धर्वा न मनुष्या भगीरथ
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः
MBh 13.106.8
भगीरथ उवाच
निःशङ्कमन्नमददं ब्राह्मणेभ्यः; शतं सहस्राणि सदैव दानम्
ब्राह्मं व्रतं नित्यमास्थाय विद्धि; न त्वेवाहं तस्य फलादिहागाम्
MBh 13.106.9
दशैकरात्रान्दश पञ्चरात्रा;नेकादशैकादशकान्क्रतूंश्च
ज्योतिष्टोमानां च शतं यदिष्टं; फलेन तेनापि च नागतोऽहम्
MBh 13.106.10
यच्चावसं जाह्नवीतीरनित्यः; शतं समास्तप्यमानस्तपोऽहम्
अदां च तत्राश्वतरीसहस्रं; नारीपुरं न च तेनाहमागाम्
MBh 13.106.11
दशायुतानि चाश्वानामयुतानि च विंशतिम्
पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः
MBh 13.106.12
सुवर्णचन्द्रोडुपधारिणीनां; कन्योत्तमानामददं स्रग्विणीनाम्
षष्टिं सहस्राणि विभूषितानां; जाम्बूनदैराभरणैर्न तेन
MBh 13.106.13
दशार्बुदान्यददं गोसवेज्या;स्वेकैकशो दश गा लोकनाथ
समानवत्साः पयसा समन्विताः; सुवर्णकांस्योपदुहा न तेन
MBh 13.106.14
अप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम्
गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च
MBh 13.106.15
दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह
प्रादां दशगुणं ब्रह्मन्न च तेनाहमागतः
MBh 13.106.16
वाजिनां बाह्लिजातानामयुतान्यददं दश
कर्काणां हेममालानां न च तेनाहमागतः
MBh 13.106.17
कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम्
एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः
MBh 13.106.18
वाजिनां श्यामकर्णानां हरितानां पितामह
प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च
MBh 13.106.19
ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान्
पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च
MBh 13.106.20
अलंकृतानां देवेश दिव्यैः कनकभूषणैः
रथानां काञ्चनाङ्गानां सहस्राण्यददं दश
सप्त चान्यानि युक्तानि वाजिभिः समलंकृतैः
MBh 13.106.21
दक्षिणावयवाः केचिद्वेदैर्ये संप्रकीर्तिताः
वाजपेयेषु दशसु प्रादां तेनापि नाप्यहम्
MBh 13.106.22
शक्रतुल्यप्रभावानामिज्यया विक्रमेण च
सहस्रं निष्ककण्ठानामददं दक्षिणामहम्
MBh 13.106.23
विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह
अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः
MBh 13.106.24
स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते
दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते
MBh 13.106.25
वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते
वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम्
तपस्वी नियताहारः शममास्थाय वाग्यतः
MBh 13.106.26
दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम्
मूर्ध्ना धारां महादेवः शिरसा यामधारयत्
न तेनाप्यहमागच्छं फलेनेह पितामह
MBh 13.106.27
शम्याक्षेपैरयजं यच्च देवा;न्सद्यस्कानामयुतैश्चापि यत्तत्
त्रयोदशद्वादशाहांश्च देव; सपौण्डरीकान्न च तेषां फलेन
MBh 13.106.28
अष्टौ सहस्राणि ककुद्मिनामहं; शुक्लर्षभाणामददं ब्राह्मणेभ्यः
एकैकं वै काञ्चनं शृङ्गमेभ्यः; पत्नीश्चैषामददं निष्ककण्ठीः
MBh 13.106.29
हिरण्यरत्ननिचितानददं रत्नपर्वतान्
धनधान्यसमृद्धांश्च ग्रामाञ्शतसहस्रशः
MBh 13.106.30
शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः
इष्ट्वानेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च
MBh 13.106.31
एकादशाहैरयजं सदक्षिणै;र्द्विर्द्वादशाहैरश्वमेधैश्च देव
आर्कायणैः षोडशभिश्च ब्रह्मं;स्तेषां फलेनेह न चागतोऽस्मि
MBh 13.106.32
निष्कैककण्ठमददं योजनायतं; तद्विस्तीर्णं काञ्चनपादपानाम्
वनं चूतानां रत्नविभूषितानां; न चैव तेषामागतोऽहं फलेन
MBh 13.106.33
तुरायणं हि व्रतमप्रधृष्य;मक्रोधनोऽकरवं त्रिंशतोऽब्दान्
शतं गवामष्ट शतानि चैव; दिने दिने ह्यददं ब्राह्मणेभ्यः
MBh 13.106.34
पयस्विनीनामथ रोहिणीनां; तथैव चाप्यनडुहां लोकनाथ
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश; नेहागतस्तेन फलेन चाहम्
MBh 13.106.35
त्रिंशदग्निमहं ब्रह्मन्नयजं यच्च नित्यदा
अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः
MBh 13.106.36
दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः
न चैव तेषां देवेश फलेनाहमिहागतः
MBh 13.106.37
सरय्वां बाहुदायां च गङ्गायामथ नैमिषे
गवां शतानामयुतमददं न च तेन वै
MBh 13.106.38
इन्द्रेण गुह्यं निहितं वै गुहायां; यद्भार्गवस्तपसेहाभ्यविन्दत्
जाज्वल्यमानमुशनस्तेजसेह; तत्साधयामास महं वरेण्यम्
MBh 13.106.39
ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते
सहस्रमृषयश्चासन्ये वै तत्र समागताः
उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो
MBh 13.106.40
प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो
इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा
MBh 13.106.41
कामं यथावद्विहितं विधात्रा; पृष्टेन वाच्यं तु मया यथावत्
तपो हि नान्यच्चानशनान्मतं मे; नमोऽस्तु ते देववर प्रसीद
MBh 13.106.42
भीष्म उवाच
इत्युक्तवन्तं तं ब्रह्मा राजानं स्म भगीरथम्
पूजयामास पूजार्हं विधिदृष्टेन कर्मणा
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 105
- Next chapter · Anuśāsana-Parva Ch 107 →
Sources and Connected Readings
Continue from these 42 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.106local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷