🪷 Mahābhārata · Anuśāsana-Parva · Chapter 105

The Book of the Final Teaching · Parva 13 · 62 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 62 Shlokas

MBh 13.105.1
युधिष्ठिर उवाच एको लोकः सुकृतिनां सर्वे त्वाहो पितामह उत तत्रापि नानात्वं तन्मे ब्रूहि पितामह
MBh 13.105.2
भीष्म उवाच कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो जनाः
MBh 13.105.3
अत्राप्युदाहरन्तीममितिहासं पुरातनम् गौतमस्य मुनेस्तात संवादं वासवस्य च
MBh 13.105.4
ब्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः महावने हस्तिशिशुं परिद्यूनममातृकम्
MBh 13.105.5
तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः स तु दीर्घेण कालेन बभूवातिबलो महान्
MBh 13.105.6
तं प्रभिन्नं महानागं प्रस्रुतं सर्वतो मदम् धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम्
MBh 13.105.7
ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः अभ्यभाषत राजानं धृतराष्ट्रं महातपाः
MBh 13.105.8
मा मे हार्षीर्हस्तिनं पुत्रमेनं; दुःखात्पुष्टं धृतराष्ट्राकृतज्ञ मित्रं सतां सप्तपदं वदन्ति; मित्रद्रोहो नैव राजन्स्पृशेत्त्वाम्
MBh 13.105.9
इध्मोदकप्रदातारं शून्यपालकमाश्रमे विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि
MBh 13.105.10
शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम न मे विक्रोशतो राजन्हर्तुमर्हसि कुञ्जरम्
MBh 13.105.11
धृतराष्ट्र उवाच गवां सहस्रं भवते ददामि; दासीशतं निष्कशतानि पञ्च अन्यच्च वित्तं विविधं महर्षे; किं ब्राह्मणस्येह गजेन कृत्यम्
MBh 13.105.12
गौतम उवाच त्वामेव गावोऽभि भवन्तु राज;न्दास्यः सनिष्का विविधं च रत्नम् अन्यच्च वित्तं विविधं नरेन्द्र; किं ब्राह्मणस्येह धनेन कृत्यम्
MBh 13.105.13
धृतराष्ट्र उवाच ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं; राजन्यानां नागकुलानि विप्र स्वं वाहनं नयतो नास्त्यधर्मो; नागश्रेष्ठाद्गौतमास्मान्निवर्त
MBh 13.105.14
गौतम उवाच यत्र प्रेतो नन्दति पुण्यकर्मा; यत्र प्रेतः शोचति पापकर्मा वैवस्वतस्य सदने महात्मन;स्तत्र त्वाहं हस्तिनं यातयिष्ये
MBh 13.105.15
धृतराष्ट्र उवाच ये निष्क्रिया नास्तिकाः श्रद्दधानाः; पापात्मान इन्द्रियार्थे निविष्टाः यमस्य ते यातनां प्राप्नुवन्ति; परं गन्ता धृतराष्ट्रो न तत्र
MBh 13.105.16
गौतम उवाच वैवस्वती संयमनी जनानां; यत्रानृतं नोच्यते यत्र सत्यम् यत्राबला बलिनं यातयन्ति; तत्र त्वाहं हस्तिनं यातयिष्ये
MBh 13.105.17
धृतराष्ट्र उवाच ज्येष्ठां स्वसारं पितरं मातरं च; गुरुं यथा मानयन्तश्चरन्ति तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र
MBh 13.105.18
गौतम उवाच मन्दाकिनी वैश्रवणस्य राज्ञो; महाभोगा भोगिजनप्रवेश्या गन्धर्वयक्षैरप्सरोभिश्च जुष्टा; तत्र त्वाहं हस्तिनं यातयिष्ये
MBh 13.105.19
धृतराष्ट्र उवाच अतिथिव्रताः सुव्रता ये जना वै; प्रतिश्रयं ददति ब्राह्मणेभ्यः शिष्टाशिनः संविभज्याश्रितांश्च; मन्दाकिनीं तेऽपि विभूषयन्ति
MBh 13.105.20
गौतम उवाच मेरोरग्रे यद्वनं भाति रम्यं; सुपुष्पितं किंनरगीतजुष्टम् सुदर्शना यत्र जम्बूर्विशाला; तत्र त्वाहं हस्तिनं यातयिष्ये
MBh 13.105.21
धृतराष्ट्र उवाच ये ब्राह्मणा मृदवः सत्यशीला; बहुश्रुताः सर्वभूताभिरामाः येऽधीयन्ते सेतिहासं पुराणं; मध्वाहुत्या जुह्वति च द्विजेभ्यः
MBh 13.105.22
तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र यद्विद्यते विदितं स्थानमस्ति; तद्ब्रूहि त्वं त्वरितो ह्येष यामि
MBh 13.105.23
गौतम उवाच सुपुष्पितं किंनरराजजुष्टं; प्रियं वनं नन्दनं नारदस्य गन्धर्वाणामप्सरसां च सद्म; तत्र त्वाहं हस्तिनं यातयिष्ये
MBh 13.105.24
धृतराष्ट्र उवाच ये नृत्तगीतकुशला जनाः सदा; ह्ययाचमानाः सहिताश्चरन्ति तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र
MBh 13.105.25
गौतम उवाच यत्रोत्तराः कुरवो भान्ति रम्या; देवैः सार्धं मोदमाना नरेन्द्र यत्राग्नियौनाश्च वसन्ति विप्रा; ह्ययोनयः पर्वतयोनयश्च
MBh 13.105.26
यत्र शक्रो वर्षति सर्वकामा;न्यत्र स्त्रियः कामचाराश्चरन्ति यत्र चेर्ष्या नास्ति नारीनराणां; तत्र त्वाहं हस्तिनं यातयिष्ये
MBh 13.105.27
धृतराष्ट्र उवाच ये सर्वभूतेषु निवृत्तकामा; अमांसादा न्यस्तदण्डाश्चरन्ति न हिंसन्ति स्थावरं जङ्गमं च; भूतानां ये सर्वभूतात्मभूताः
MBh 13.105.28
निराशिषो निर्ममा वीतरागा; लाभालाभे तुल्यनिन्दाप्रशंसाः तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र
MBh 13.105.29
गौतम उवाच ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा निर्मला वीतशोकाः सोमस्य राज्ञः सदने महात्मन;स्तत्र त्वाहं हस्तिनं यातयिष्ये
MBh 13.105.30
धृतराष्ट्र उवाच ये दानशीला न प्रतिगृह्णते सदा; न चाप्यर्थानाददते परेभ्यः येषामदेयमर्हते नास्ति किंचि;त्सर्वातिथ्याः सुप्रसादा जनाश्च
MBh 13.105.31
ये क्षन्तारो नाभिजल्पन्ति चान्या;ञ्शक्ता भूत्वा सततं पुण्यशीलाः तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र
MBh 13.105.32
गौतम उवाच ततः परं भान्ति लोकाः सनातना; विरजसो वितमस्का विशोकाः आदित्यस्य सुमहान्तः सुवृत्ता;स्तत्र त्वाहं हस्तिनं यातयिष्ये
MBh 13.105.33
धृतराष्ट्र उवाच स्वाध्यायशीला गुरुशुश्रूषणे रता;स्तपस्विनः सुव्रताः सत्यसंधाः आचार्याणामप्रतिकूलभाषिणो; नित्योत्थिता गुरुकर्मस्वचोद्याः
MBh 13.105.34
तथाविधानामेष लोको महर्षे; विशुद्धानां भावितवाङ्मतीनाम् सत्ये स्थितानां वेदविदां महात्मनां; परं गन्ता धृतराष्ट्रो न तत्र
MBh 13.105.35
गौतम उवाच ततः परे भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा विशोकाः वरुणस्य राज्ञः सदने महात्मन;स्तत्र त्वाहं हस्तिनं यातयिष्ये
MBh 13.105.36
धृतराष्ट्र उवाच चातुर्मास्यैर्ये यजन्ते जनाः सदा; तथेष्टीनां दशशतं प्राप्नुवन्ति ये चाग्निहोत्रं जुह्वति श्रद्दधाना; यथान्यायं त्रीणि वर्षाणि विप्राः
MBh 13.105.37
स्वदारिणां धर्मधुरे महात्मनां; यथोचिते वर्त्मनि सुस्थितानाम् धर्मात्मनामुद्वहतां गतिं तां; परं गन्ता धृतराष्ट्रो न तत्र
MBh 13.105.38
गौतम उवाच इन्द्रस्य लोका विरजा विशोका; दुरन्वयाः काङ्क्षिता मानवानाम् तस्याहं ते भवने भूरितेजसो; राजन्निमं हस्तिनं यातयिष्ये
MBh 13.105.39
धृतराष्ट्र उवाच शतवर्षजीवी यश्च शूरो मनुष्यो; वेदाध्यायी यश्च यज्वाप्रमत्तः एते सर्वे शक्रलोकं व्रजन्ति; परं गन्ता धृतराष्ट्रो न तत्र
MBh 13.105.40
गौतम उवाच प्राजापत्याः सन्ति लोका महान्तो; नाकस्य पृष्ठे पुष्कला वीतशोकाः मनीषिताः सर्वलोकोद्भवानां; तत्र त्वाहं हस्तिनं यातयिष्ये
MBh 13.105.41
धृतराष्ट्र उवाच ये राजानो राजसूयाभिषिक्ता; धर्मात्मानो रक्षितारः प्रजानाम् ये चाश्वमेधावभृथाप्लुताङ्गा;स्तेषां लोका धृतराष्ट्रो न तत्र
MBh 13.105.42
गौतम उवाच ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा वीतशोकाः तस्मिन्नहं दुर्लभे त्वाप्रधृष्ये; गवां लोके हस्तिनं यातयिष्ये
MBh 13.105.43
धृतराष्ट्र उवाच यो गोसहस्री शतदः समां समां; यो गोशती दश दद्याच्च शक्त्या तथा दशभ्यो यश्च दद्यादिहैकां; पञ्चभ्यो वा दानशीलस्तथैकाम्
MBh 13.105.44
ये जीर्यन्ते ब्रह्मचर्येण विप्रा; ब्राह्मीं वाचं परिरक्षन्ति चैव मनस्विनस्तीर्थयात्रापरायणा;स्ते तत्र मोदन्ति गवां विमाने
MBh 13.105.45
प्रभासं मानसं पुण्यं पुष्कराणि महत्सरः पुण्यं च नैमिषं तीर्थं बाहुदां करतोयिनीम्
MBh 13.105.46
गयां गयशिरश्चैव विपाशां स्थूलवालुकाम् तूष्णींगङ्गां दशगङ्गां महाह्रदमथापि च
MBh 13.105.47
गौतमीं कौशिकीं पाकां महात्मानो धृतव्रताः सरस्वतीदृषद्वत्यौ यमुनां ये प्रयान्ति च
MBh 13.105.48
तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै
MBh 13.105.49
गौतम उवाच यत्र शीतभयं नास्ति न चोष्णभयमण्वपि न क्षुत्पिपासे न ग्लानिर्न दुःखं न सुखं तथा
MBh 13.105.50
न द्वेष्यो न प्रियः कश्चिन्न बन्धुर्न रिपुस्तथा न जरामरणे वापि न पुण्यं न च पातकम्
MBh 13.105.51
तस्मिन्विरजसि स्फीते प्रज्ञासत्त्वव्यवस्थिते स्वयंभुभवने पुण्ये हस्तिनं मे यतिष्यति
MBh 13.105.52
धृतराष्ट्र उवाच निर्मुक्ताः सर्वसङ्गेभ्यो कृतात्मानो यतव्रताः अध्यात्मयोगसंस्थाने युक्ताः स्वर्गगतिं गताः
MBh 13.105.53
ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्त्विकाः न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने
MBh 13.105.54
गौतम उवाच रथन्तरं यत्र बृहच्च गीयते; यत्र वेदी पुण्डरीकैः स्तृणोति यत्रोपयाति हरिभिः सोमपीथी; तत्र त्वाहं हस्तिनं यातयिष्ये
MBh 13.105.55
बुध्यामि त्वां वृत्रहणं शतक्रतुं; व्यतिक्रमन्तं भुवनानि विश्वा कच्चिन्न वाचा वृजिनं कदाचि;दकार्षं ते मनसोऽभिषङ्गात्
MBh 13.105.56
शक्र उवाच यस्मादिमं लोकपथं प्रजाना;मन्वागमं पदवादे गजस्य तस्माद्भवान्प्रणतं मानुशास्तु; ब्रवीषि यत्तत्करवाणि सर्वम्
MBh 13.105.57
गौतम उवाच श्वेतं करेणुं मम पुत्रनागं; यं मेऽहार्षीर्दशवर्षाणि बालम् यो मे वने वसतोऽभूद्द्वितीय;स्तमेव मे देहि सुरेन्द्र नागम्
MBh 13.105.58
शक्र उवाच अयं सुतस्ते द्विजमुख्य नाग;श्चाघ्रायते त्वामभिवीक्षमाणः पादौ च ते नासिकयोपजिघ्रते; श्रेयो मम ध्याहि नमश्च तेऽस्तु
MBh 13.105.59
गौतम उवाच शिवं सदैवेह सुरेन्द्र तुभ्यं; ध्यायामि पूजां च सदा प्रयुञ्जे ममापि त्वं शक्र शिवं ददस्व; त्वया दत्तं प्रतिगृह्णामि नागम्
MBh 13.105.60
शक्र उवाच येषां वेदा निहिता वै गुहायां; मनीषिणां सत्त्ववतां महात्मनाम् तेषां त्वयैकेन महात्मनास्मि; बुद्धस्तस्मात्प्रीतिमांस्तेऽहमद्य
MBh 13.105.61
हन्तैहि ब्राह्मण क्षिप्रं सह पुत्रेण हस्तिना प्राप्नुहि त्वं शुभाँल्लोकानह्नाय च चिराय च
MBh 13.105.62
भीष्म उवाच स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना दिवमाचक्रमे वज्री सद्भिः सह दुरासदम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 62 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.105local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷