🪷 Mahābhārata · Anuśāsana-Parva · Chapter 104

The Book of the Final Teaching · Parva 13 · 29 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 29 Shlokas

MBh 13.104.1
युधिष्ठिर उवाच ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ नृशंसकारिणो मूढाः क्व ते गच्छन्ति मानवाः
MBh 13.104.2
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् चण्डालस्य च संवादं क्षत्रबन्धोश्च भारत
MBh 13.104.3
राजन्य उवाच वृद्धरूपोऽसि चण्डाल बालवच्च विचेष्टसे श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम्
MBh 13.104.4
साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते कस्माद्गोरजसा ध्वस्तमपां कुण्डे निषिञ्चसि
MBh 13.104.5
चण्डाल उवाच ब्राह्मणस्य गवां राजन्ह्रियतीनां रजः पुरा सोममुद्ध्वंसयामास तं सोमं येऽपिबन्द्विजाः
MBh 13.104.6
दीक्षितश्च स राजापि क्षिप्रं नरकमाविशत् सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत्
MBh 13.104.7
येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन्
MBh 13.104.8
जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधुन्वतीः पशूनवेक्षमाणाश्च साधुवृत्तेन दंपती
MBh 13.104.9
अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप
MBh 13.104.10
चण्डालोऽहं ततो राजन्भुक्त्वा तदभवं मृतः ब्रह्मस्वहारी च नृपः सोऽप्रतिष्ठां गतिं ययौ
MBh 13.104.11
तस्माद्धरेन्न विप्रस्वं कदाचिदपि किंचन ब्रह्मस्वरजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम्
MBh 13.104.12
तस्मात्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता विक्रयं हीह सोमस्य गर्हयन्ति मनीषिणः
MBh 13.104.13
ये चैनं क्रीणते राजन्ये च विक्रीणते जनाः ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः
MBh 13.104.14
सोमं तु रजसा ध्वस्तं विक्रीयाद्बुद्धिपूर्वकम् श्रोत्रियो वार्धुषी भूत्वा चिररात्राय नश्यति नरकं त्रिंशतं प्राप्य श्वविष्ठामुपजीवति
MBh 13.104.15
श्वचर्यामतिमानं च सखिदारेषु विप्लवम् तुलयाधारयद्धर्मो ह्यतिमानोऽतिरिच्यते
MBh 13.104.16
श्वानं वै पापिनं पश्य विवर्णं हरिणं कृशम् अतिमानेन भूतानामिमां गतिमुपागतम्
MBh 13.104.17
अहं वै विपुले जातः कुले धनसमन्विते अन्यस्मिञ्जन्मनि विभो ज्ञानविज्ञानपारगः
MBh 13.104.18
अभवं तत्र जानानो ह्येतान्दोषान्मदात्तदा संरब्ध एव भूतानां पृष्ठमांसान्यभक्षयम्
MBh 13.104.19
सोऽहं तेन च वृत्तेन भोजनेन च तेन वै इमामवस्थां संप्राप्तः पश्य कालस्य पर्ययम्
MBh 13.104.20
आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम् धावमानं सुसंरब्धं पश्य मां रजसान्वितम्
MBh 13.104.21
स्वाध्यायैस्तु महत्पापं तरन्ति गृहमेधिनः दानैः पृथग्विधैश्चापि यथा प्राहुर्मनीषिणः
MBh 13.104.22
तथा पापकृतं विप्रमाश्रमस्थं महीपते सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत
MBh 13.104.23
अहं तु पापयोन्यां वै प्रसूतः क्षत्रियर्षभ निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत
MBh 13.104.24
जातिस्मरत्वं तु मम केनचित्पूर्वकर्मणा शुभेन येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप
MBh 13.104.25
त्वमिमं मे प्रपन्नाय संशयं ब्रूहि पृच्छते चण्डालत्वात्कथमहं मुच्येयमिति सत्तम
MBh 13.104.26
राजन्य उवाच चण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि ब्राह्मणार्थे त्यजन्प्राणान्गतिमिष्टामवाप्स्यसि
MBh 13.104.27
दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम् हुत्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि
MBh 13.104.28
भीष्म उवाच इत्युक्तः स तदा राजन्ब्रह्मस्वार्थे परंतप हुत्वा रणमुखे प्राणान्गतिमिष्टामवाप ह
MBh 13.104.29
तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ यदीच्छसि महाबाहो शाश्वतीं गतिमुत्तमाम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 29 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.104local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷