🪷 Mahābhārata · Anuśāsana-Parva · Chapter 103
The Book of the Final Teaching · Parva 13 · 37 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 37 Shlokas
MBh 13.103.1
युधिष्ठिर उवाच
कथं स वै विपन्नश्च कथं वै पातितो भुवि
कथं चानिन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति
MBh 13.103.2
भीष्म उवाच
एवं तयोः संवदतोः क्रियास्तस्य महात्मनः
सर्वा एवाभ्यवर्तन्त या दिव्या याश्च मानुषाः
MBh 13.103.3
तथैव दीपदानानि सर्वोपकरणानि च
बलिकर्म च यच्चान्यदुत्सेकाश्च पृथग्विधाः
सर्वास्तस्य समुत्पन्ना देवराज्ञो महात्मनः
MBh 13.103.4
देवलोके नृलोके च सदाचारा बुधैः स्मृताः
ते चेद्भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः
धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च
MBh 13.103.5
यथा सिद्धस्य चान्नस्य द्विजायाग्रं प्रदीयते
बलयश्च गृहोद्देशे अतः प्रीयन्ति देवताः
MBh 13.103.6
यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणा
तथा शतगुणा प्रीतिर्देवतानां स्म जायते
MBh 13.103.7
एवं धूपप्रदानं च दीपदानं च साधवः
प्रशंसन्ति नमस्कारैर्युक्तमात्मगुणावहम्
MBh 13.103.8
स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता
नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः
गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः
MBh 13.103.9
इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः
सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम्
MBh 13.103.10
कस्यचित्त्वथ कालस्य भाग्यक्षय उपस्थिते
सर्वमेतदवज्ञाय न चकारैतदीदृशम्
MBh 13.103.11
ततः स परिहीणोऽभूत्सुरेन्द्रो बलिकर्मतः
धूपदीपोदकविधिं न यथावच्चकार ह
ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत
MBh 13.103.12
अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह
द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः
MBh 13.103.13
ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत्
निमीलयस्व नयने जटा यावद्विशामि ते
MBh 13.103.14
स्थाणुभूतस्य तस्याथ जटाः प्राविशदच्युतः
भृगुः स सुमहातेजाः पातनाय नृपस्य ह
MBh 13.103.15
ततः स देवराट्प्राप्तस्तमृषिं वाहनाय वै
ततोऽगस्त्यः सुरपतिं वाक्यमाह विशां पते
MBh 13.103.16
योजयस्वेन्द्र मां क्षिप्रं कं च देशं वहामि ते
यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप
MBh 13.103.17
इत्युक्तो नहुषस्तेन योजयामास तं मुनिम्
भृगुस्तस्य जटासंस्थो बभूव हृषितो भृशम्
MBh 13.103.18
न चापि दर्शनं तस्य चकार स भृगुस्तदा
वरदानप्रभावज्ञो नहुषस्य महात्मनः
MBh 13.103.19
न चुकोप स चागस्त्यो युक्तोऽपि नहुषेण वै
तं तु राजा प्रतोदेन चोदयामास भारत
MBh 13.103.20
न चुकोप स धर्मात्मा ततः पादेन देवराट्
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः
MBh 13.103.21
तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः
शशाप बलवत्क्रुद्धो नहुषं पापचेतसम्
MBh 13.103.22
भृगुरुवाच
यस्मात्पदाहनः क्रोधाच्छिरसीमं महामुनिम्
तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते
MBh 13.103.23
इत्युक्तः स तदा तेन सर्पो भूत्वा पपात ह
अदृष्टेनाथ भृगुणा भूतले भरतर्षभ
MBh 13.103.24
भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते
न स शक्तोऽभविष्यद्वै पातने तस्य तेजसा
MBh 13.103.25
स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा
पतितोऽपि महाराज भूतले स्मृतिमानभूत्
प्रसादयामास भृगुं शापान्तो मे भवेदिति
MBh 13.103.26
ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम्
शापान्तार्थं महाराज स च प्रादात्कृपान्वितः
MBh 13.103.27
भृगुरुवाच
राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः
स त्वां मोक्षयिता शापादित्युक्त्वान्तरधीयत
MBh 13.103.28
अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः
स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः
MBh 13.103.29
नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः
जगाम ब्रह्मसदनं पश्यतस्ते जनाधिप
MBh 13.103.30
तदा तु पातयित्वा तं नहुषं भूतले भृगुः
जगाम ब्रह्मसदनं ब्रह्मणे च न्यवेदयत्
MBh 13.103.31
ततः शक्रं समानाय्य देवानाह पितामहः
वरदानान्मम सुरा नहुषो राज्यमाप्तवान्
स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः
MBh 13.103.32
न च शक्यं विना राज्ञा सुरा वर्तयितुं क्वचित्
तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम्
MBh 13.103.33
एवं संभाषमाणं तु देवाः पार्थ पितामहम्
एवमस्त्विति संहृष्टाः प्रत्यूचुस्ते पितामहम्
MBh 13.103.34
सोऽभिषिक्तो भगवता देवराज्येन वासवः
ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत
MBh 13.103.35
एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात्
स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः
MBh 13.103.36
तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः
दिव्यं चक्षुरवाप्नोति प्रेत्य दीपप्रदायकः
पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत
MBh 13.103.37
यावदक्षिनिमेषाणि ज्वलते तावतीः समाः
रूपवान्धनवांश्चापि नरो भवति दीपदः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 102
- Next chapter · Anuśāsana-Parva Ch 104 →
Sources and Connected Readings
Continue from these 37 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.103local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷