🪷 Mahābhārata · Anuśāsana-Parva · Chapter 102
The Book of the Final Teaching · Parva 13 · 29 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 29 Shlokas
MBh 13.102.1
युधिष्ठिर उवाच
श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम्
फलं बलिविधाने च तद्भूयो वक्तुमर्हसि
MBh 13.102.2
धूपप्रदानस्य फलं प्रदीपस्य तथैव च
बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः
MBh 13.102.3
भीष्म उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नहुषं प्रति संवादमगस्त्यस्य भृगोस्तथा
MBh 13.102.4
नहुषो हि महाराज राजर्षिः सुमहातपाः
देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा
MBh 13.102.5
तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन्
मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः
MBh 13.102.6
मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः
प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः
MBh 13.102.7
अग्निकार्याणि समिधः कुशाः सुमनसस्तथा
बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च
MBh 13.102.8
सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः
जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः
MBh 13.102.9
दैवतान्यर्चयंश्चापि विधिवत्स सुरेश्वरः
सर्वाण्येव यथान्यायं यथापूर्वमरिंदम
MBh 13.102.10
अथेन्द्रस्य भविष्यत्वादहंकारस्तमाविशत्
सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपते
MBh 13.102.11
स ऋषीन्वाहयामास वरदानमदान्वितः
परिहीनक्रियश्चापि दुर्बलत्वमुपेयिवान्
MBh 13.102.12
तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान्
अहंकाराभिभूतस्य सुमहानत्यवर्तत
MBh 13.102.13
अथ पर्यायश ऋषीन्वाहनायोपचक्रमे
पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत
MBh 13.102.14
अथागम्य महातेजा भृगुर्ब्रह्मविदां वरः
अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत्
MBh 13.102.15
एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः
नहुषस्य किमर्थं वै मर्षयाम महामुने
MBh 13.102.16
अगस्त्य उवाच
कथमेष मया शक्यः शप्तुं यस्य महामुने
वरदेन वरो दत्तो भवतो विदितश्च सः
MBh 13.102.17
यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति
इत्यनेन वरो देवाद्याचितो गच्छता दिवम्
MBh 13.102.18
एवं न दग्धः स मया भवता च न संशयः
अन्येनाप्यृषिमुख्येन न शप्तो न च पातितः
MBh 13.102.19
अमृतं चैव पानाय दत्तमस्मै पुरा विभो
महात्मने तदर्थं च नास्माभिर्विनिपात्यते
MBh 13.102.20
प्रायच्छत वरं देवः प्रजानां दुःखकारकम्
द्विजेष्वधर्मयुक्तानि स करोति नराधमः
MBh 13.102.21
अत्र यत्प्राप्तकालं नस्तद्ब्रूहि वदतां वर
भवांश्चापि यथा ब्रूयात्कुर्वीमहि तथा वयम्
MBh 13.102.22
भृगुरुवाच
पितामहनियोगेन भवन्तमहमागतः
प्रतिकर्तुं बलवति नहुषे दर्पमास्थिते
MBh 13.102.23
अद्य हि त्वा सुदुर्बुद्धी रथे योक्ष्यति देवराट्
अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा
MBh 13.102.24
अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम्
संचाल्य पापकर्माणमिन्द्रस्थानात्सुदुर्मतिम्
MBh 13.102.25
अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति
दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः
MBh 13.102.26
व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम्
अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम्
MBh 13.102.27
तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम्
धरण्यां पातयिष्यामि प्रेक्षतस्ते महामुने
MBh 13.102.28
नहुषं पापकर्माणमैश्वर्यबलमोहितम्
यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने
MBh 13.102.29
एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः
अगस्त्यः परमप्रीतो बभूव विगतज्वरः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Anuśāsana-Parva chapter-index (154 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Anuśāsana-Parva Ch 101
- Next chapter · Anuśāsana-Parva Ch 103 →
Sources and Connected Readings
Continue from these 29 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 13.102local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷