🪷 Mahābhārata · Anuśāsana-Parva · Chapter 101

The Book of the Final Teaching · Parva 13 · 65 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 65 Shlokas

MBh 13.101.1
युधिष्ठिर उवाच आलोकदानं नामैतत्कीदृशं भरतर्षभ कथमेतत्समुत्पन्नं फलं चात्र ब्रवीहि मे
MBh 13.101.2
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् मनोः प्रजापतेर्वादं सुवर्णस्य च भारत
MBh 13.101.3
तपस्वी कश्चिदभवत्सुवर्णो नाम नामतः वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे
MBh 13.101.4
कुलशीलगुणोपेतः स्वाध्याये च परं गतः बहून्स्ववंशप्रभवान्समतीतः स्वकैर्गुणैः
MBh 13.101.5
स कदाचिन्मनुं विप्रो ददर्शोपससर्प च कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः
MBh 13.101.6
ततस्तौ सिद्धसंकल्पौ मेरौ काञ्चनपर्वते रमणीये शिलापृष्ठे सहितौ संन्यषीदताम्
MBh 13.101.7
तत्र तौ कथयामास्तां कथा नानाविधाश्रयाः ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम्
MBh 13.101.8
सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायंभुवं प्रभुम् हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि
MBh 13.101.9
सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर किमेतत्कथमुत्पन्नं फलयोगं च शंस मे
MBh 13.101.10
मनुरुवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् शुक्रस्य च बलेश्चैव संवादं वै समागमे
MBh 13.101.11
बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः
MBh 13.101.12
तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः
MBh 13.101.13
कथेयमभवत्तत्र या त्वया परिकीर्तिता सुमनोधूपदीपानां संप्रदाने फलं प्रति
MBh 13.101.14
ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति
MBh 13.101.15
शुक्र उवाच तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम् एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च
MBh 13.101.16
सोमस्यात्मा च बहुधा संभूतः पृथिवीतले अमृतं च विषं चैव याश्चान्यास्तुल्यजातयः
MBh 13.101.17
अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति च मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः
MBh 13.101.18
अमृतं मङ्गलं विद्धि महद्विषममङ्गलम् ओषध्यो ह्यमृतं सर्वं विषं तेजोऽग्निसंभवम्
MBh 13.101.19
मनो ह्लादयते यस्माच्छ्रियं चापि दधाति ह तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः
MBh 13.101.20
देवताभ्यः सुमनसो यो ददाति नरः शुचिः तस्मात्सुमनसः प्रोक्ता यस्मात्तुष्यन्ति देवताः
MBh 13.101.21
यं यमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप
MBh 13.101.22
ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक् ओषध्यो बहुवीर्याश्च बहुरूपास्तथैव च
MBh 13.101.23
यज्ञियानां च वृक्षाणामयज्ञियान्निबोध मे आसुराणि च माल्यानि दैवतेभ्यो हितानि च
MBh 13.101.24
राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः पितॄणां मानुषाणां च कान्ता यास्त्वनुपूर्वशः
MBh 13.101.25
वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः
MBh 13.101.26
द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः इष्टगन्धानि देवानां पुष्पाणीति विभावयेत्
MBh 13.101.27
अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो
MBh 13.101.28
जलजानि च माल्यानि पद्मादीनि च यानि च गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः
MBh 13.101.29
ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः शत्रूणामभिचारार्थमथर्वसु निदर्शिताः
MBh 13.101.30
तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत्
MBh 13.101.31
मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः चारुरूपाः सुमनसो मानुषाणां स्मृता विभो
MBh 13.101.32
न तु श्मशानसंभूता न देवायतनोद्भवाः संनयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च
MBh 13.101.33
गिरिसानुरुहाः सौम्या देवानामुपपादयेत् प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति
MBh 13.101.34
गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः
MBh 13.101.35
सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत संकल्पसिद्धा मर्त्यानामीप्सितैश्च मनोरथैः
MBh 13.101.36
देवाः प्रीणन्ति सततं मानिता मानयन्ति च अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान्
MBh 13.101.37
अतऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम् धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे
MBh 13.101.38
निर्यासः सरलश्चैव कृत्रिमश्चैव ते त्रयः इष्टानिष्टो भवेद्गन्धस्तन्मे विस्तरतः शृणु
MBh 13.101.39
निर्यासाः सल्लकीवर्ज्या देवानां दयितास्तु ते गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्चयः
MBh 13.101.40
अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः
MBh 13.101.41
अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः फाणितासवसंयुक्तैर्मनुष्याणां विधीयते
MBh 13.101.42
देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः येऽन्ये वैहारिकास्ते तु मानुषाणामिति स्मृताः
MBh 13.101.43
य एवोक्ताः सुमनसां प्रदाने गुणहेतवः धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः
MBh 13.101.44
दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम् यथा येन यदा चैव प्रदेया यादृशाश्च ते
MBh 13.101.45
ज्योतिस्तेजः प्रकाशश्चाप्यूर्ध्वगं चापि वर्ण्यते प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम्
MBh 13.101.46
अन्धं तमस्तमिस्रं च दक्षिणायनमेव च उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते
MBh 13.101.47
यस्मादूर्ध्वगमेतत्तु तमसश्चैव भेषजम् तस्मादूर्ध्वगतेर्दाता भवेदिति विनिश्चयः
MBh 13.101.48
देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः तामसा राक्षसाश्चेति तस्माद्दीपः प्रदीयते
MBh 13.101.49
आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः तान्दत्त्वा नोपहिंसेत न हरेन्नोपनाशयेत्
MBh 13.101.50
दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः दीपप्रदः स्वर्गलोके दीपमाली विराजते
MBh 13.101.51
हविषा प्रथमः कल्पो द्वितीयस्त्वौषधीरसैः वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता
MBh 13.101.52
गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः
MBh 13.101.53
कुलोद्द्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा
MBh 13.101.54
बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान् देवयक्षोरगनृणां भूतानामथ रक्षसाम्
MBh 13.101.55
येषां नाग्रभुजो विप्रा देवतातिथिबालकाः राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान्
MBh 13.101.56
तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् शिरसा प्रणतश्चापि हरेद्बलिमतन्द्रितः
MBh 13.101.57
गृह्या हि देवता नित्यमाशंसन्ति गृहात्सदा बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः
MBh 13.101.58
इतो दत्तेन जीवन्ति देवताः पितरस्तथा ते प्रीताः प्रीणयन्त्येतानायुषा यशसा धनैः
MBh 13.101.59
बलयः सह पुष्पैस्तु देवानामुपहारयेत् दधिद्रप्सयुताः पुण्याः सुगन्धाः प्रियदर्शनाः
MBh 13.101.60
कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम् सुरासवपुरस्कारा लाजोल्लेपनभूषिताः
MBh 13.101.61
नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः तिलान्गुडसुसंपन्नान्भूतानामुपहारयेत्
MBh 13.101.62
अग्रदाताग्रभोगी स्याद्बलवर्णसमन्वितः तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम्
MBh 13.101.63
ज्वलत्यहरहो वेश्म याश्चास्य गृहदेवताः ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना
MBh 13.101.64
इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः सुवर्णाय मनुः प्राह सुवर्णो नारदाय च
MBh 13.101.65
नारदोऽपि मयि प्राह गुणानेतान्महाद्युते त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 65 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.101local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷