🪷 Mahābhārata · Anuśāsana-Parva · Chapter 100

The Book of the Final Teaching · Parva 13 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 25 Shlokas

MBh 13.100.1
युधिष्ठिर उवाच गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव
MBh 13.100.2
भीष्म उवाच अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप वासुदेवस्य संवादं पृथिव्याश्चैव भारत
MBh 13.100.3
संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान् पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम्
MBh 13.100.4
वासुदेव उवाच गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत्
MBh 13.100.5
पृथिव्युवाच ऋषयः पितरो देवा मनुष्याश्चैव माधव इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे
MBh 13.100.6
सदा यज्ञेन देवांश्च आतिथ्येन च मानवान् छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन
MBh 13.100.7
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन
MBh 13.100.8
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन्
MBh 13.100.9
सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम्
MBh 13.100.10
प्रजानां पतये चैव पृथग्घोमो विधीयते तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत्
MBh 13.100.11
दक्षिणायां यमायेह प्रतीच्यां वरुणाय च सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये
MBh 13.100.12
धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव मनोर्वै इति च प्राहुर्बलिं द्वारे गृहस्य वै मरुद्भ्यो देवताभ्यश्च बलिमन्तर्गृहे हरेत्
MBh 13.100.13
तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत्
MBh 13.100.14
एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये अलाभे ब्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत्
MBh 13.100.15
यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि
MBh 13.100.16
पितॄन्संतर्पयित्वा तु बलिं कुर्याद्विधानतः वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम्
MBh 13.100.17
ततोऽन्नेनावशेषेण भोजयेदतिथीनपि अर्चापूर्वं महाराज ततः प्रीणाति मानुषान्
MBh 13.100.18
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते
MBh 13.100.19
आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत्
MBh 13.100.20
ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत्
MBh 13.100.21
राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च अर्चयेन्मधुपर्केण परिसंवत्सरोषितान्
MBh 13.100.22
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते
MBh 13.100.23
एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते
MBh 13.100.24
भीष्म उवाच इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् तथा चकार सततं त्वमप्येवं समाचर
MBh 13.100.25
एवं गृहस्थधर्मं त्वं चेतयानो नराधिप इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 25 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.100local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷