🪷 Mahābhārata · Anuśāsana-Parva · Chapter 99

The Book of the Final Teaching · Parva 13 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 33 Shlokas

MBh 13.99.1
युधिष्ठिर उवाच आरामाणां तडागानां यत्फलं कुरुनन्दन तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ
MBh 13.99.2
भीष्म उवाच सुप्रदर्शा वनवती चित्रधातुविभूषिता उपेता सर्वबीजैश्च श्रेष्ठा भूमिरिहोच्यते
MBh 13.99.3
तस्याः क्षेत्रविशेषं च तडागानां निवेशनम् औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः
MBh 13.99.4
तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान्
MBh 13.99.5
अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम् कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम्
MBh 13.99.6
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः तडागं सुकृतं देशे क्षेत्रमेव महाश्रयम्
MBh 13.99.7
चतुर्विधानां भूतानां तडागमुपलक्षयेत् तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम्
MBh 13.99.8
देवा मनुष्या गन्धर्वाः पितरोरगराक्षसाः स्थावराणि च भूतानि संश्रयन्ति जलाशयम्
MBh 13.99.9
तस्मात्तांस्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः या च तत्र फलावाप्तिरृषिभिः समुदाहृता
MBh 13.99.10
वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः
MBh 13.99.11
शरत्काले तु सलिलं तडागे यस्य तिष्ठति गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम्
MBh 13.99.12
हेमन्तकाले सलिलं तडागे यस्य तिष्ठति स वै बहुसुवर्णस्य यज्ञस्य लभते फलम्
MBh 13.99.13
यस्य वै शैशिरे काले तडागे सलिलं भवेत् अग्निष्टोमस्य यज्ञस्य फलमाहुर्मनीषिणः
MBh 13.99.14
तडागं सुकृतं यस्य वसन्ते तु महाश्रयम् अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते
MBh 13.99.15
निदाघकाले पानीयं तडागे यस्य तिष्ठति वाजपेयसमं तस्य फलं वै मुनयो विदुः
MBh 13.99.16
स कुलं तारयेत्सर्वं यस्य खाते जलाशये गावः पिबन्ति पानीयं साधवश्च नराः सदा
MBh 13.99.17
तडागे यस्य गावस्तु पिबन्ति तृषिता जलम् मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत्
MBh 13.99.18
यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च तडागदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते
MBh 13.99.19
दुर्लभं सलिलं तात विशेषेण परत्र वै पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती
MBh 13.99.20
तिलान्ददत पानीयं दीपान्ददत जाग्रत ज्ञातिभिः सह मोदध्वमेतत्प्रेतेषु दुर्लभम्
MBh 13.99.21
सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते पानीयं नरशार्दूल तस्माद्दातव्यमेव हि
MBh 13.99.22
एवमेतत्तडागेषु कीर्तितं फलमुत्तमम् अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामपि रोपणे
MBh 13.99.23
स्थावराणां च भूतानां जातयः षट्प्रकीर्तिताः वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः
MBh 13.99.24
एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम्
MBh 13.99.25
लभते नाम लोके च पितृभिश्च महीयते देवलोकगतस्यापि नाम तस्य न नश्यति
MBh 13.99.26
अतीतानागते चोभे पितृवंशं च भारत तारयेद्वृक्षरोपी च तस्माद्वृक्षान्प्ररोपयेत्
MBh 13.99.27
तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान्
MBh 13.99.28
पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन् छायया चातिथींस्तात पूजयन्ति महीरुहाः
MBh 13.99.29
किंनरोरगरक्षांसि देवगन्धर्वमानवाः तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान्
MBh 13.99.30
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र च
MBh 13.99.31
तस्मात्तडागे वृक्षा वै रोप्याः श्रेयोर्थिना सदा पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः
MBh 13.99.32
तडागकृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः
MBh 13.99.33
तस्मात्तडागं कुर्वीत आरामांश्चैव रोपयेत् यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 33 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.99local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷