🪷 Mahābhārata · Anuśāsana-Parva · Chapter 107

The Book of the Final Teaching · Parva 13 · 148 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 148 Shlokas

MBh 13.107.1
युधिष्ठिर उवाच शतायुरुक्तः पुरुषः शतवीर्यश्च वैदिके कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह
MBh 13.107.2
आयुष्मान्केन भवति स्वल्पायुर्वापि मानवः केन वा लभते कीर्तिं केन वा लभते श्रियम्
MBh 13.107.3
तपसा ब्रह्मचर्येण जपैर्होमैस्तथौषधैः जन्मना यदि वाचारात्तन्मे ब्रूहि पितामह
MBh 13.107.4
भीष्म उवाच अत्र ते वर्तयिष्यामि यन्मां त्वमनुपृच्छसि अल्पायुर्येन भवति दीर्घायुर्वापि मानवः
MBh 13.107.5
येन वा लभते कीर्तिं येन वा लभते श्रियम् यथा च वर्तन्पुरुषः श्रेयसा संप्रयुज्यते
MBh 13.107.6
आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च
MBh 13.107.7
दुराचारो हि पुरुषो नेहायुर्विन्दते महत् त्रसन्ति यस्माद्भूतानि तथा परिभवन्ति च
MBh 13.107.8
तस्मात्कुर्यादिहाचारं य इच्छेद्भूतिमात्मनः अपि पापशरीरस्य आचारो हन्त्यलक्षणम्
MBh 13.107.9
आचारलक्षणो धर्मः सन्तश्चाचारलक्षणाः साधूनां च यथा वृत्तमेतदाचारलक्षणम्
MBh 13.107.10
अप्यदृष्टं श्रुतं वापि पुरुषं धर्मचारिणम् भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम्
MBh 13.107.11
ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः
MBh 13.107.12
विशीला भिन्नमर्यादा नित्यं संकीर्णमैथुनाः अल्पायुषो भवन्तीह नरा निरयगामिनः
MBh 13.107.13
सर्वलक्षणहीनोऽपि समुदाचारवान्नरः श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति
MBh 13.107.14
अक्रोधनः सत्यवादी भूतानामविहिंसकः अनसूयुरजिह्मश्च शतं वर्षाणि जीवति
MBh 13.107.15
लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः नित्योच्छिष्टः संकुसुको नेहायुर्विन्दते महत्
MBh 13.107.16
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् उत्थायाचम्य तिष्ठेत पूर्वां संध्यां कृताञ्जलिः
MBh 13.107.17
एवमेवापरां संध्यां समुपासीत वाग्यतः नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन
MBh 13.107.18
ऋषयो दीर्घसंध्यत्वाद्दीर्घमायुरवाप्नुवन् तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः
MBh 13.107.19
ये च पूर्वामुपासन्ते द्विजाः संध्यां न पश्चिमाम् सर्वांस्तान्धार्मिको राजा शूद्रकर्माणि कारयेत्
MBh 13.107.20
परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् न हीदृशमनायुष्यं लोके किंचन विद्यते यादृशं पुरुषस्येह परदारोपसेवनम्
MBh 13.107.21
प्रसाधनं च केशानामञ्जनं दन्तधावनम् पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम्
MBh 13.107.22
पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन उदक्यया च संभाषां न कुर्वीत कदाचन
MBh 13.107.23
नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन
MBh 13.107.24
प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन् प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत्
MBh 13.107.25
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः धन्यं पश्चान्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः
MBh 13.107.26
नाधितिष्ठेत्तुषाञ्जातु केशभस्मकपालिकाः अन्यस्य चाप्युपस्थानं दूरतः परिवर्जयेत्
MBh 13.107.27
शान्तिहोमांश्च कुर्वीत सावित्राणि च कारयेत् निषण्णश्चापि खादेत न तु गच्छन्कथंचन
MBh 13.107.28
मूत्रं न तिष्ठता कार्यं न भस्मनि न गोव्रजे
MBh 13.107.29
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम्
MBh 13.107.30
त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन अग्निं गां ब्राह्मणं चैव तथास्यायुर्न रिष्यते
MBh 13.107.31
त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः
MBh 13.107.32
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते
MBh 13.107.33
अभिवादयेत वृद्धांश्च आसनं चैव दापयेत् कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात्
MBh 13.107.34
न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत् नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत्
MBh 13.107.35
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत्
MBh 13.107.36
न पाणिभ्यामुभाभ्यां च कण्डूयेज्जातु वै शिरः न चाभीक्ष्णं शिरः स्नायात्तथास्यायुर्न रिष्यते
MBh 13.107.37
शिरःस्नातश्च तैलेन नाङ्गं किंचिदुपस्पृशेत् तिलपिष्टं न चाश्नीयात्तथायुर्विन्दते महत्
MBh 13.107.38
नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन वाते च पूतिगन्धे च मनसापि न चिन्तयेत्
MBh 13.107.39
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः आयुरस्य निकृन्तामि प्रजामस्याददे तथा
MBh 13.107.40
य उच्छिष्टः प्रवदति स्वाध्यायं चाधिगच्छति यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः तस्माद्युक्तोऽप्यनध्याये नाधीयीत कदाचन
MBh 13.107.41
प्रत्यादित्यं प्रत्यनिलं प्रति गां च प्रति द्विजान् ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः
MBh 13.107.42
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः दक्षिणाभिमुखो रात्रौ तथास्यायुर्न रिष्यते
MBh 13.107.43
त्रीन्कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषुः ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः
MBh 13.107.44
दहत्याशीविषः क्रुद्धो यावत्पश्यति चक्षुषा क्षत्रियोऽपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा
MBh 13.107.45
ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः
MBh 13.107.46
गुरुणा वैरनिर्बन्धो न कर्तव्यः कदाचन अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर
MBh 13.107.47
सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः
MBh 13.107.48
दूरादावसथान्मूत्रं दूरात्पादावसेचनम् उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा
MBh 13.107.49
नातिकल्पं नातिसायं न च मध्यंदिने स्थिते नाज्ञातैः सह गच्छेत नैको न वृषलैः सह
MBh 13.107.50
पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च
MBh 13.107.51
प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन् चतुष्पथान्प्रकुर्वीत सर्वानेव प्रदक्षिणान्
MBh 13.107.52
मध्यंदिने निशाकाले मध्यरात्रे च सर्वदा चतुष्पथान्न सेवेत उभे संध्ये तथैव च
MBh 13.107.53
उपानहौ च वस्त्रं च धृतमन्यैर्न धारयेत् ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत्
MBh 13.107.54
अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः अष्टम्यां सर्वपक्षाणां ब्रह्मचारी सदा भवेत्
MBh 13.107.55
वृथा मांसं न खादेत पृष्ठमांसं तथैव च आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत्
MBh 13.107.56
नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम्
MBh 13.107.57
वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु
MBh 13.107.58
रोहते सायकैर्विद्धं वनं परशुना हतम् वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम्
MBh 13.107.59
हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत्
MBh 13.107.60
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् द्वेषस्तम्भाभिमानांश्च तैक्ष्ण्यं च परिवर्जयेत्
MBh 13.107.61
परस्य दण्डं नोद्यच्छेत्क्रोद्धो नैनं निपातयेत् अन्यत्र पुत्राच्छिष्याद्वा शिक्षार्थं ताडनं स्मृतम्
MBh 13.107.62
न ब्राह्मणान्परिवदेन्नक्षत्राणि न निर्दिशेत् तिथिं पक्षस्य न ब्रूयात्तथास्यायुर्न रिष्यते
MBh 13.107.63
कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा
MBh 13.107.64
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते
MBh 13.107.65
संयावं कृसरं मांसं शष्कुली पायसं तथा आत्मार्थं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत्
MBh 13.107.66
नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा वाग्यतो दन्तकाष्ठं च नित्यमेव समाचरेत् न चाभ्युदितशायी स्यात्प्रायश्चित्ती तथा भवेत्
MBh 13.107.67
मातापितरमुत्थाय पूर्वमेवाभिवादयेत् आचार्यमथ वाप्येनं तथायुर्विन्दते महत्
MBh 13.107.68
वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि च वर्जयेत्
MBh 13.107.69
उदङ्मुखश्च सततं शौचं कुर्यात्समाहितः
MBh 13.107.70
अकृत्वा देवतापूजां नान्यं गच्छेत्कदाचन अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम्
MBh 13.107.71
अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वा कदाचन
MBh 13.107.72
उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च प्राक्शिरास्तु स्वपेद्विद्वानथ वा दक्षिणाशिराः
MBh 13.107.73
न भग्ने नावदीर्णे वा शयने प्रस्वपेत च नान्तर्धाने न संयुक्ते न च तिर्यक्कदाचन
MBh 13.107.74
न नग्नः कर्हिचित्स्नायान्न निशायां कदाचन स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः
MBh 13.107.75
न चानुलिम्पेदस्नात्वा स्नात्वा वासो न निर्धुनेत् आर्द्र एव तु वासांसि नित्यं सेवेत मानवः स्रजश्च नावकर्षेत न बहिर्धारयेत च
MBh 13.107.76
रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पण्डितैः वर्जयित्वा तु कमलं तथा कुवलयं विभो
MBh 13.107.77
रक्तं शिरसि धार्यं तु तथा वानेयमित्यपि काञ्चनी चैव या माला न सा दुष्यति कर्हिचित् स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशां पते
MBh 13.107.78
विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः तथा नान्यधृतं धार्यं न चापदशमेव च
MBh 13.107.79
अन्यदेव भवेद्वासः शयनीये नरोत्तम अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि
MBh 13.107.80
प्रियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च पृथगेवानुलिम्पेत केसरेण च बुद्धिमान्
MBh 13.107.81
उपवासं च कुर्वीत स्नातः शुचिरलंकृतः पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत्
MBh 13.107.82
नालीढया परिहतं भक्षयीत कदाचन तथा नोद्धृतसाराणि प्रेक्षतां नाप्रदाय च
MBh 13.107.83
न संनिकृष्टो मेधावी नाशुचिर्न च सत्सु च प्रतिषिद्धान्न धर्मेषु भक्षान्भुञ्जीत पृष्ठतः
MBh 13.107.84
पिप्पलं च वटं चैव शणशाकं तथैव च उदुम्बरं न खादेच्च भवार्थी पुरुषोत्तमः
MBh 13.107.85
आजं गव्यं च यन्मांसं मायूरं चैव वर्जयेत् वर्जयेच्छुष्कमांसं च तथा पर्युषितं च यत्
MBh 13.107.86
न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिषु दधिसक्तून्न भुञ्जीत वृथामांसं च वर्जयेत्
MBh 13.107.87
वालेन तु न भुञ्जीत परश्राद्धं तथैव च सायं प्रातश्च भुञ्जीत नान्तराले समाहितः
MBh 13.107.88
वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन भूमौ सदैव नाश्नीयान्नानासीनो न शब्दवत्
MBh 13.107.89
तोयपूर्वं प्रदायान्नमतिथिभ्यो विशां पते पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः
MBh 13.107.90
समानमेकपङ्क्त्यां तु भोज्यमन्नं नरेश्वर विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने
MBh 13.107.91
पानीयं पायसं सर्पिर्दधिसक्तुमधून्यपि निरस्य शेषमेतेषां न प्रदेयं तु कस्यचित्
MBh 13.107.92
भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत् दधि चाप्यनुपानं वै न कर्तव्यं भवार्थिना
MBh 13.107.93
आचम्य चैव हस्तेन परिस्राव्य तथोदकम् अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत्
MBh 13.107.94
पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः ज्ञातिश्रैष्ठ्यमवाप्नोति प्रयोगकुशलो नरः
MBh 13.107.95
अद्भिः प्राणान्समालभ्य नाभिं पाणितलेन च स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना
MBh 13.107.96
अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थमुदाहृतम् कनिष्ठिकायाः पश्चात्तु देवतीर्थमिहोच्यते
MBh 13.107.97
अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतस्तथा
MBh 13.107.98
परापवादं न ब्रूयान्नाप्रियं च कदाचन न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना
MBh 13.107.99
पतितैस्तु कथां नेच्छेद्दर्शनं चापि वर्जयेत् संसर्गं च न गच्छेत तथायुर्विन्दते महत्
MBh 13.107.100
न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम् न चास्नातां स्त्रियं गच्छेत्तथायुर्विन्दते महत्
MBh 13.107.101
स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते त्रिः पीत्वापो द्विः प्रमृज्य कृतशौचो भवेन्नरः
MBh 13.107.102
इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा
MBh 13.107.103
ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव प्रवृत्तं च हितं चोक्त्वा भोजनाद्यन्तयोस्तथा
MBh 13.107.104
सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत्
MBh 13.107.105
वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेदपि गृहे वासयितव्यास्ते धन्यमायुष्यमेव च
MBh 13.107.106
गृहे पारावता धन्याः शुकाश्च सहसारिकाः गृहेष्वेते न पापाय तथा वै तैलपायिकाः
MBh 13.107.107
उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा निविशेयुर्यदा तत्र शान्तिमेव तदाचरेत्
MBh 13.107.108
अमङ्गल्यानि चैतानि तथाक्रोशो महात्मनाम् महात्मनां च गुह्यानि न वक्तव्यानि कर्हिचित्
MBh 13.107.109
अगम्याश्च न गच्छेत राजपत्नीः सखीस्तथा वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर
MBh 13.107.110
बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च संबन्धिनां च राजेन्द्र तथायुर्विन्दते महत्
MBh 13.107.111
ब्राह्मणस्थपतिभ्यां च निर्मितं यन्निवेशनम् तदावसेत्सदा प्राज्ञो भवार्थी मनुजेश्वर
MBh 13.107.112
संध्यायां न स्वपेद्राजन्विद्यां न च समाचरेत् न भुञ्जीत च मेधावी तथायुर्विन्दते महत्
MBh 13.107.113
नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम् पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता
MBh 13.107.114
वर्जनीयाश्च वै नित्यं सक्तवो निशि भारत शेषाणि चावदातानि पानीयं चैव भोजने
MBh 13.107.115
सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत् द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत्
MBh 13.107.116
महाकुलप्रसूतां च प्रशस्तां लक्षणैस्तथा वयःस्थां च महाप्राज्ञ कन्यामावोढुमर्हति
MBh 13.107.117
अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत
MBh 13.107.118
कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते पुत्रा निवेश्याश्च कुलाद्भृत्या लभ्याश्च भारत
MBh 13.107.119
शिरःस्नातोऽथ कुर्वीत दैवं पित्र्यमथापि च नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः न प्रोष्ठपदयोः कार्यं तथाग्नेये च भारत
MBh 13.107.120
दारुणेषु च सर्वेषु प्रत्यहं च विवर्जयेत् ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत्
MBh 13.107.121
प्राङ्मुखः श्मश्रुकर्माणि कारयेत समाहितः उदङ्मुखो वा राजेन्द्र तथायुर्विन्दते महत्
MBh 13.107.122
परिवादं न च ब्रूयात्परेषामात्मनस्तथा परिवादो न धर्माय प्रोच्यते भरतर्षभ
MBh 13.107.123
वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम समार्षां व्यङ्गितां चैव मातुः स्वकुलजां तथा
MBh 13.107.124
वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम् तथातिकृष्णवर्णां च वर्णोत्कृष्टां च वर्जयेत्
MBh 13.107.125
अयोनिं च वियोनिं च न गच्छेत विचक्षणः पिङ्गलां कुष्ठिनीं नारीं न त्वमावोढुमर्हसि
MBh 13.107.126
अपस्मारिकुले जातां निहीनां चैव वर्जयेत् श्वित्रिणां च कुले जातां त्रयाणां मनुजेश्वर
MBh 13.107.127
लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः मनोज्ञा दर्शनीया च तां भवान्वोढुमर्हति
MBh 13.107.128
महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर अवरा पतिता चैव न ग्राह्या भूतिमिच्छता
MBh 13.107.129
अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः वेदेषु ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत्
MBh 13.107.130
न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याश्च सर्वशः अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत्
MBh 13.107.131
अनायुष्यो दिवास्वप्नस्तथाभ्युदितशायिता प्रातर्निशायां च तथा ये चोच्छिष्टाः स्वपन्ति वै
MBh 13.107.132
पारदार्यमनायुष्यं नापितोच्छिष्टता तथा यत्नतो वै न कर्तव्यमभ्यासश्चैव भारत
MBh 13.107.133
संध्यां न भुञ्जेन्न स्नायान्न पुरीषं समुत्सृजेत् प्रयतश्च भवेत्तस्यां न च किंचित्समाचरेत्
MBh 13.107.134
ब्राह्मणान्पूजयेच्चापि तथा स्नात्वा नराधिप देवांश्च प्रणमेत्स्नातो गुरूंश्चाप्यभिवादयेत्
MBh 13.107.135
अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत्तु दर्शकः अनिमन्त्रिते ह्यनायुष्यं गमनं तत्र भारत
MBh 13.107.136
न चैकेन परिव्राज्यं न गन्तव्यं तथा निशि अनागतायां संध्यायां पश्चिमायां गृहे वसेत्
MBh 13.107.137
मातुः पितुर्गुरूणां च कार्यमेवानुशासनम् हितं वाप्यहितं वापि न विचार्यं नरर्षभ
MBh 13.107.138
धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह यत्नवान्भव राजेन्द्र यत्नवान्सुखमेधते
MBh 13.107.139
अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित्
MBh 13.107.140
युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप
MBh 13.107.141
पुराणमितिहासाश्च तथाख्यानानि यानि च महात्मनां च चरितं श्रोतव्यं नित्यमेव ते
MBh 13.107.142
पत्नीं रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत् स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः
MBh 13.107.143
पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत् एतेन विधिना पत्नीमुपगच्छेत पण्डितः
MBh 13.107.144
ज्ञातिसंबन्धिमित्राणि पूजनीयानि नित्यशः यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः अतऊर्ध्वमरण्यं च सेवितव्यं नराधिप
MBh 13.107.145
एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर
MBh 13.107.146
आचारो भूतिजनन आचारः कीर्तिवर्धनः आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम्
MBh 13.107.147
आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते आचारप्रभवो धर्मो धर्मादायुर्विवर्धते
MBh 13.107.148
एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् अनुकम्पता सर्ववर्णान्ब्रह्मणा समुदाहृतम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 148 source-pinned Devanāgarī addresses to Anuśāsana-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 13.107local chapter route · Anuśāsana-ParvaAnuśāsana-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷