🪷 Mahābhārata · Ādi-Parva · Chapter 99

The Book of the Beginning · Parva 1 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 49 Shlokas

MBh 1.99.1
भीष्म उवाच पुनर्भरतवंशस्य हेतुं संतानवृद्धये वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु
MBh 1.99.2
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः
MBh 1.99.3
वैशंपायन उवाच ततः सत्यवती भीष्मं वाचा संसज्जमानया विहसन्तीव सव्रीडमिदं वचनमब्रवीत्
MBh 1.99.4
सत्यमेतन्महाबाहो यथा वदसि भारत विश्वासात्ते प्रवक्ष्यामि संतानाय कुलस्य च न ते शक्यमनाख्यातुमापद्धीयं तथाविधा
MBh 1.99.5
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम्
MBh 1.99.6
धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम सा कदाचिदहं तत्र गता प्रथमयौवने
MBh 1.99.7
अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम्
MBh 1.99.8
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु
MBh 1.99.9
तमहं शापभीता च पितुर्भीता च भारत वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे
MBh 1.99.10
अभिभूय स मां बालां तेजसा वशमानयत् तमसा लोकमावृत्य नौगतामेव भारत
MBh 1.99.11
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः
MBh 1.99.12
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि
MBh 1.99.13
पाराशर्यो महायोगी स बभूव महानृषिः कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः
MBh 1.99.14
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च
MBh 1.99.15
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः स नियुक्तो मया व्यक्तं त्वया च अमितद्युते भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति
MBh 1.99.16
स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि
MBh 1.99.17
तव ह्यनुमते भीष्म नियतं स महातपाः विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति
MBh 1.99.18
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति
MBh 1.99.19
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान्
MBh 1.99.20
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः उक्तं भवत्या यच्छ्रेयः परमं रोचते मम
MBh 1.99.21
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम्
MBh 1.99.22
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन
MBh 1.99.23
तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम्
MBh 1.99.24
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत्
MBh 1.99.25
भवत्या यदभिप्रेतं तदहं कर्तुमागतः शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव
MBh 1.99.26
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम्
MBh 1.99.27
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम्
MBh 1.99.28
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे तेषां पिता यथा स्वामी तथा माता न संशयः
MBh 1.99.29
विधातृविहितः स त्वं यथा मे प्रथमः सुतः विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः
MBh 1.99.30
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे
MBh 1.99.31
अयं शांतनवः सत्यं पालयन्सत्यविक्रमः बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने
MBh 1.99.32
स त्वं व्यपेक्षया भ्रातुः संतानाय कुलस्य च भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ
MBh 1.99.33
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि
MBh 1.99.34
यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे रूपयौवनसंपन्ने पुत्रकामे च धर्मतः
MBh 1.99.35
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक अनुरूपं कुलस्यास्य संतत्याः प्रसवस्य च
MBh 1.99.36
व्यास उवाच वेत्थ धर्मं सत्यवति परं चापरमेव च यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः
MBh 1.99.37
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम्
MBh 1.99.38
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया
MBh 1.99.39
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः न हि मामव्रतोपेता उपेयात्काचिदङ्गना
MBh 1.99.40
सत्यवत्युवाच यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः
MBh 1.99.41
कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति
MBh 1.99.42
व्यास उवाच यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् विरूपतां मे सहतामेतदस्याः परं व्रतम्
MBh 1.99.43
यदि मे सहते गन्धं रूपं वेषं तथा वपुः अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम्
MBh 1.99.44
वैशंपायन उवाच समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः ततोऽभिगम्य सा देवी स्नुषां रहसि संगताम् धर्म्यमर्थसमायुक्तमुवाच वचनं हितम्
MBh 1.99.45
कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे भरतानां समुच्छेदो व्यक्तं मद्भाग्यसंक्षयात्
MBh 1.99.46
व्यथितां मां च संप्रेक्ष्य पितृवंशं च पीडितम् भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये
MBh 1.99.47
सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह नष्टं च भारतं वंशं पुनरेव समुद्धर
MBh 1.99.48
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः
MBh 1.99.49
सा धर्मतोऽनुनीयैनां कथंचिद्धर्मचारिणीम् भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 49 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.99local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷