🪷 Mahābhārata · Ādi-Parva · Chapter 98
The Book of the Beginning · Parva 1 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 33 Shlokas
MBh 1.98.1
भीष्म उवाच
जामदग्न्येन रामेण पितुर्वधममृष्यता
क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः
शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै
MBh 1.98.2
पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता
निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम्
MBh 1.98.3
एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना
त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा
MBh 1.98.4
ततः संभूय सर्वाभिः क्षत्रियाभिः समन्ततः
उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः
MBh 1.98.5
पाणिग्राहस्य तनय इति वेदेषु निश्चितम्
धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः
लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः
MBh 1.98.6
अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा
ममता नाम तस्यासीद्भार्या परमसंमता
MBh 1.98.7
उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम्
बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत
MBh 1.98.8
उवाच ममता तं तु देवरं वदतां वरम्
अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति
MBh 1.98.9
अयं च मे महाभाग कुक्षावेव बृहस्पते
औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत
MBh 1.98.10
अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि
तस्मादेवंगतेऽद्य त्वमुपारमितुमर्हसि
MBh 1.98.11
एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः
कामात्मानं तदात्मानं न शशाक नियच्छितुम्
MBh 1.98.12
संबभूव ततः कामी तया सार्धमकामया
उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत
MBh 1.98.13
भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र संभवः
अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः
MBh 1.98.14
शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः
उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः
MBh 1.98.15
यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति
एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि
MBh 1.98.16
स वै दीर्घतमा नाम शापादृषिरजायत
बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा
MBh 1.98.17
स पुत्राञ्जनयामास गौतमादीन्महायशाः
ऋषेरुतथ्यस्य तदा संतानकुलवृद्धये
MBh 1.98.18
लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः
काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन्
MBh 1.98.19
न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते
चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान्
MBh 1.98.20
सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः
जगाम सुबहून्देशानन्धस्तेनोडुपेन ह
MBh 1.98.21
तं तु राजा बलिर्नाम सर्वधर्मविशारदः
अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम्
MBh 1.98.22
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः
ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ
MBh 1.98.23
संतानार्थं महाभाग भार्यासु मम मानद
पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि
MBh 1.98.24
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः
तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा
MBh 1.98.25
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह
स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा
MBh 1.98.26
तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी
जनयामास धर्मात्मा पुत्रानेकादशैव तु
MBh 1.98.27
काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः
उवाच तमृषिं राजा ममैत इति वीर्यवान्
MBh 1.98.28
नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन्
शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः
MBh 1.98.29
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव
अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे
MBh 1.98.30
ततः प्रसादयामास पुनस्तमृषिसत्तमम्
बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः
MBh 1.98.31
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत्
भविष्यति कुमारस्ते तेजस्वी सत्यवागिति
MBh 1.98.32
तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत
एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि
MBh 1.98.33
जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः
एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 97
- Next chapter · Ādi-Parva Ch 99 →
Sources and Connected Readings
Continue from these 33 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.98local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷