🪷 Mahābhārata · Ādi-Parva · Chapter 70

The Book of the Beginning · Parva 1 · 46 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 46 Shlokas

MBh 1.70.1
वैशंपायन उवाच प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च भरतस्य कुरोः पूरोरजमीढस्य चान्वये
MBh 1.70.2
यादवानामिमं वंशं पौरवाणां च सर्वशः तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ
MBh 1.70.3
तेजोभिरुदिताः सर्वे महर्षिसमतेजसः दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः
MBh 1.70.4
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः संभूताः पुरुषव्याघ्र स हि लोकपितामहः
MBh 1.70.5
वीरिण्या सह संगम्य दक्षः प्राचेतसो मुनिः आत्मतुल्यानजनयत्सहस्रं संशितव्रतान्
MBh 1.70.6
सहस्रसंख्यान्समितान्सुतान्दक्षस्य नारदः मोक्षमध्यापयामास सांख्यज्ञानमनुत्तमम्
MBh 1.70.7
ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय
MBh 1.70.8
ददौ स दश धर्माय कश्यपाय त्रयोदश कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे
MBh 1.70.9
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् इन्द्रादीन्वीर्यसंपन्नान्विवस्वन्तमथापि च
MBh 1.70.10
विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत
MBh 1.70.11
मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः
MBh 1.70.12
तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण संगतम् ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन्
MBh 1.70.13
वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम्
MBh 1.70.14
पृषध्रनवमानाहुः क्षत्रधर्मपरायणान् नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान्
MBh 1.70.15
पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम्
MBh 1.70.16
पुरूरवास्ततो विद्वानिलायां समपद्यत सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम्
MBh 1.70.17
त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः
MBh 1.70.18
विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः जहार च स विप्राणां रत्नान्युत्क्रोशतामपि
MBh 1.70.19
सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ
MBh 1.70.20
ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत लोभान्वितो मदबलान्नष्टसंज्ञो नराधिपः
MBh 1.70.21
स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा
MBh 1.70.22
षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः
MBh 1.70.23
नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते
MBh 1.70.24
आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः
MBh 1.70.25
पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् नहुषः पालयामास ब्रह्मक्षत्रमथो विशः
MBh 1.70.26
स हत्वा दस्युसंघातानृषीन्करमदापयत् पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान्
MBh 1.70.27
कारयामास चेन्द्रत्वमभिभूय दिवौकसः तेजसा तपसा चैव विक्रमेणौजसा तथा
MBh 1.70.28
यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम् नहुषो जनयामास षट्पुत्रान्प्रियवाससि
MBh 1.70.29
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः स पालयामास महीमीजे च विविधैः सवैः
MBh 1.70.30
अतिशक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः
MBh 1.70.31
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे
MBh 1.70.32
देवयान्यामजायेतां यदुस्तुर्वसुरेव च द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे
MBh 1.70.33
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम्
MBh 1.70.34
जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत
MBh 1.70.35
यौवनेन चरन्कामान्युवा युवतिभिः सह विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः
MBh 1.70.36
तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च
MBh 1.70.37
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् यौवनेन त्वदीयेन चरेयं विषयानहम्
MBh 1.70.38
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः
MBh 1.70.39
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः अहं तन्वाभिनवया युवा कामानवाप्नुयाम्
MBh 1.70.40
न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः
MBh 1.70.41
राजंश्चराभिनवया तन्वा यौवनगोचरः अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया
MBh 1.70.42
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् संचारयामास जरां तदा पुत्रे महात्मनि
MBh 1.70.43
पौरवेणाथ वयसा राजा यौवनमास्थितः यायातेनापि वयसा राज्यं पूरुरकारयत्
MBh 1.70.44
ततो वर्षसहस्रान्ते ययातिरपराजितः अतृप्त एव कामानां पूरुं पुत्रमुवाच ह
MBh 1.70.45
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः पौरवो वंश इति ते ख्यातिं लोके गमिष्यति
MBh 1.70.46
ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च कालेन महता पश्चात्कालधर्ममुपेयिवान्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 46 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.70local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷