🪷 Mahābhārata · Ādi-Parva · Chapter 71
The Book of the Beginning · Parva 1 · 58 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 58 Shlokas
MBh 1.71.1
जनमेजय उवाच
ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः
कथं स शुक्रतनयां लेभे परमदुर्लभाम्
MBh 1.71.2
एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम
आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक्
MBh 1.71.3
वैशंपायन उवाच
ययातिरासीद्राजर्षिर्देवराजसमद्युतिः
तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा
MBh 1.71.4
तत्तेऽहं संप्रवक्ष्यामि पृच्छतो जनमेजय
देवयान्याश्च संयोगं ययातेर्नाहुषस्य च
MBh 1.71.5
सुराणामसुराणां च समजायत वै मिथः
ऐश्वर्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे
MBh 1.71.6
जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम्
पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे
ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम्
MBh 1.71.7
तत्र देवा निजघ्नुर्यान्दानवान्युधि संगतान्
तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात्
ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान्
MBh 1.71.8
असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि
न तान्संजीवयामास बृहस्पतिरुदारधीः
MBh 1.71.9
न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान्
संजीवनीं ततो देवा विषादमगमन्परम्
MBh 1.71.10
ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा
ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः
MBh 1.71.11
भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम्
यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि
शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि
MBh 1.71.12
वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः
रक्षते दानवांस्तत्र न स रक्षत्यदानवान्
MBh 1.71.13
तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम्
देवयानीं च दयितां सुतां तस्य महात्मनः
MBh 1.71.14
त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते
शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च
देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम्
MBh 1.71.15
तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः
तदाभिपूजितो देवैः समीपं वृषपर्वणः
MBh 1.71.16
स गत्वा त्वरितो राजन्देवैः संप्रेषितः कचः
असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह
MBh 1.71.17
ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः
नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान्
MBh 1.71.18
ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ
अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान्
MBh 1.71.19
शुक्र उवाच
कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः
अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः
MBh 1.71.20
वैशंपायन उवाच
कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम्
आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम्
MBh 1.71.21
व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत
आराधयन्नुपाध्यायं देवयानीं च भारत
MBh 1.71.22
नित्यमाराधयिष्यंस्तां युवा यौवनगोऽऽमुखे
गायन्नृत्यन्वादयंश्च देवयानीमतोषयत्
MBh 1.71.23
संशीलयन्देवयानीं कन्यां संप्राप्तयौवनाम्
पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत
MBh 1.71.24
देवयान्यपि तं विप्रं नियमव्रतचारिणम्
अनुगायमाना ललना रहः पर्यचरत्तदा
MBh 1.71.25
पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम्
तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम्
MBh 1.71.26
गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः
जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च
हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम्
MBh 1.71.27
ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम्
ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात्
उवाच वचनं काले देवयान्यथ भारत
MBh 1.71.28
अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो
अगोपाश्चागता गावः कचस्तात न दृश्यते
MBh 1.71.29
व्यक्तं हतो मृतो वापि कचस्तात भविष्यति
तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते
MBh 1.71.30
शुक्र उवाच
अयमेहीति शब्देन मृतं संजीवयाम्यहम्
MBh 1.71.31
वैशंपायन उवाच
ततः संजीवनीं विद्यां प्रयुज्य कचमाह्वयत्
आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया
हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया
MBh 1.71.32
स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया
वनं ययौ ततो विप्रो ददृशुर्दानवाश्च तम्
MBh 1.71.33
ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः
प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा
MBh 1.71.34
देवयान्यथ भूयोऽपि वाक्यं पितरमब्रवीत्
पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते
MBh 1.71.35
शुक्र उवाच
बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः
विद्यया जीवितोऽप्येवं हन्यते करवाणि किम्
MBh 1.71.36
मैवं शुचो मा रुद देवयानि; न त्वादृशी मर्त्यमनुप्रशोचेत्
सुराश्च विश्वे च जगच्च सर्व;मुपस्थितां वैकृतिमानमन्ति
MBh 1.71.37
देवयान्युवाच
यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश्चापि पिता तपोधनः
ऋषेः पुत्रं तमथो वापि पौत्रं; कथं न शोचेयमहं न रुद्याम्
MBh 1.71.38
स ब्रह्मचारी च तपोधनश्च; सदोत्थितः कर्मसु चैव दक्षः
कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचोऽभिरूपः
MBh 1.71.39
शुक्र उवाच
असंशयं मामसुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति
अब्राह्मणं कर्तुमिच्छन्ति रौद्रा;स्ते मां यथा प्रस्तुतं दानवैर्हि
अप्यस्य पापस्य भवेदिहान्तः; कं ब्रह्महत्या न दहेदपीन्द्रम्
MBh 1.71.40
वैशंपायन उवाच
संचोदितो देवयान्या महर्षिः पुनराह्वयत्
संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम्
MBh 1.71.41
गुरोर्भीतो विद्यया चोपहूतः; शनैर्वाचं जठरे व्याजहार
तमब्रवीत्केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र
MBh 1.71.42
कच उवाच
भवत्प्रसादान्न जहाति मां स्मृतिः; स्मरे च सर्वं यच्च यथा च वृत्तम्
न त्वेवं स्यात्तपसो व्ययो मे; ततः क्लेशं घोरमिमं सहामि
MBh 1.71.43
असुरैः सुरायां भवतोऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य
ब्राह्मीं मायामासुरी चैव माया; त्वयि स्थिते कथमेवातिवर्तेत्
MBh 1.71.44
शुक्र उवाच
किं ते प्रियं करवाण्यद्य वत्से; वधेन मे जीवितं स्यात्कचस्य
नान्यत्र कुक्षेर्मम भेदनेन; दृश्येत्कचो मद्गतो देवयानि
MBh 1.71.45
देवयान्युवाच
द्वौ मां शोकावग्निकल्पौ दहेतां; कचस्य नाशस्तव चैवोपघातः
कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता
MBh 1.71.46
शुक्र उवाच
संसिद्धरूपोऽसि बृहस्पतेः सुत; यत्त्वां भक्तं भजते देवयानी
विद्यामिमां प्राप्नुहि जीवनीं त्वं; न चेदिन्द्रः कचरूपी त्वमद्य
MBh 1.71.47
न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात्
ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि
MBh 1.71.48
पुत्रो भूत्वा भावय भावितो मा;मस्माद्देहादुपनिष्क्रम्य तात
समीक्षेथा धर्मवतीमवेक्षां; गुरोः सकाशात्प्राप्य विद्यां सविद्यः
MBh 1.71.49
वैशंपायन उवाच
गुरोः सकाशात्समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः
कचोऽभिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पौर्णमास्यामिवेन्दुः
MBh 1.71.50
दृष्ट्वा च तं पतितं ब्रह्मराशि;मुत्थापयामास मृतं कचोऽपि
विद्यां सिद्धां तामवाप्याभिवाद्य; ततः कचस्तं गुरुमित्युवाच
MBh 1.71.51
ऋतस्य दातारमनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम्
ये नाद्रियन्ते गुरुमर्चनीयं; पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान्
MBh 1.71.52
वैशंपायन उवाच
सुरापानाद्वञ्चनां प्रापयित्वा; संज्ञानाशं चैव तथातिघोरम्
दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन
MBh 1.71.53
समन्युरुत्थाय महानुभाव;स्तदोशना विप्रहितं चिकीर्षुः
काव्यः स्वयं वाक्यमिदं जगाद; सुरापानं प्रति वै जातशङ्कः
MBh 1.71.54
यो ब्राह्मणोऽद्य प्रभृतीह कश्चि;न्मोहात्सुरां पास्यति मन्दबुद्धिः
अपेतधर्मो ब्रह्महा चैव स स्या;दस्मिँल्लोके गर्हितः स्यात्परे च
MBh 1.71.55
मया चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके
सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश्चोपशृण्वन्तु सर्वे
MBh 1.71.56
इतीदमुक्त्वा स महानुभाव;स्तपोनिधीनां निधिरप्रमेयः
तान्दानवान्दैवविमूढबुद्धी;निदं समाहूय वचोऽभ्युवाच
MBh 1.71.57
आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे
संजीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः
MBh 1.71.58
गुरोरुष्य सकाशे तु दश वर्षशतानि सः
अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 70
- Next chapter · Ādi-Parva Ch 72 →
Sources and Connected Readings
Continue from these 58 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.71local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷