🪷 Mahābhārata · Ādi-Parva · Chapter 63

The Book of the Beginning · Parva 1 · 26 shlokas in canonical Devanāgarī Sanskrit

The Devanāgarī Yathārtha · 26 Shlokas

MBh 1.63.1
[वै] स कदा चिन महाबाहुः परभूतबलवाहनः वनं जगाम गहनं हयनागशतैर वृतः
MBh 1.63.2
खड्गशक्ति धरैर वीरैर गदामुसलपाणिभिः परासतॊमर हस्तैश च ययौ यॊधशतैर वृतः
MBh 1.63.3
सिंहनादैश च यॊधानां शङ्खदुन्दुभिनिस्वनैः रथनेमि सवनैश चापि सनागवरबृंहितैः
MBh 1.63.4
हेषितस्वनमिश्रैश च कष्वेडितास्फॊटित सवनैः आसीत किलकिला शब्दस तस्मिन गच्छति पार्थिवे
MBh 1.63.5
परासादवरशृङ्गस्थाः परया नृप शॊभया ददृशुस तं सत्रियस तत्र शूरम आत्मयशः करम
MBh 1.63.6
शक्रॊपमम अमित्रघ्नं परवारणवारणम पश्यन्तः सत्रीगणास तत्र शस्त्रपाणिं सम मेनिरे
MBh 1.63.7
अयं स पुरुषव्याघ्रॊ रणे ऽदभुतपराक्रमः यस्य बाहुबलं पराप्य न भवन्त्य असुहृद्गणाः
MBh 1.63.8
इति वाचॊ बरुवन्त्यस ताः सत्रियः परेम्णा नराधिपम तुष्टुवुः पुष्पवृष्टीश च ससृजुस तस्य मूधनि
MBh 1.63.9
तत्र तत्र च विप्रेन्द्रैः सतूयमानः समन्ततः निर्ययौ परया परीत्या वनं मृगजिघांसया
MBh 1.63.10
सुदूरम अनुजग्मुस तं पौरजानपदास तदा नयवर्तन्त ततः पश्चाद अनुज्ञाता नृपेण ह
MBh 1.63.11
सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः महीम आपूरयाम आस घॊषेण तरिदिवं तथा
MBh 1.63.12
स गच्छन ददृशे धीमान नन्दनप्रतिमं वनम बिल्वार्क खदिराकीर्णं कपित्थ धव संकुलम
MBh 1.63.13
विषमं पर्वत परस्थैर अश्मभिश च समावृतम निर्जलं निर्मनुष्यं च बहुयॊजनम आयतम मृगसंघैर वृतं घॊरैर अन्यैश चापि वनेचरैः
MBh 1.63.14
तद वनं मनुजव्याघ्रः सभृत्यबलवाहनः लॊडयाम आस दुःषन्तः सूदयन विविधान मृगान
MBh 1.63.15
बाणगॊचर संप्राप्तांस तत्र वयाघ्रगणान बहून पातयाम आस दुःषन्तॊ निर्बिभेद च सायकैः
MBh 1.63.16
दूरस्थान सायकैः कांश चिद अभिनत स नरर्षभः अभ्याशम आगतांश चान्यान खड्गेन निरकृन्तत
MBh 1.63.17
कांश चिद एणान स निर्जघ्ने शक्त्या शक्तिमतां वरः गदा मण्डलतत्त्वज्ञश चचारामित विक्रमः
MBh 1.63.18
तॊमरैर असिभिश चापि गदामुसलकर्पणैः चचार स विनिघ्नन वै वन्यांस तत्र मृगद्विजान
MBh 1.63.19
राज्ञा चाद्भुतवीर्येण यॊधैश च समरप्रियैः लॊड्यमानं महारण्यं तत्यजुश च महामृगाः
MBh 1.63.20
तत्र विद्रुत संघानि हतयूथपतीनि च मृगयूथान्य अथौत्सुक्याच छब्दं चक्रुस ततस ततः
MBh 1.63.21
शुष्कां चापि नदीं गत्वा जलनैराश्य कर्शिताः वयायामक्लान्तहृदयाः पतन्ति सम विचेतसः
MBh 1.63.22
कषुत्पिपासापरीताश च शरान्ताश च पतिता भुवि के चित तत्र नरव्याघ्रैर अभक्ष्यन्त बुभुक्षितैः
MBh 1.63.23
के चिद अग्निम अथॊत्पाद्य समिध्य च वनेचराः भक्षयन्ति सम मांसानि परकुट्य विधिवत तदा
MBh 1.63.24
तत्र के चिद गजा मत्ता बलिनः शस्त्रविक्षताः संकॊच्याग्र करान भीताः परद्रवन्ति सम वेगिताः
MBh 1.63.25
शकृन मूत्रं सृजन्तश च कषरन्तः शॊणितं बहु वन्या गजवरास तत्र ममृदुर मनुजान बहून
MBh 1.63.26
तद वनं बलमेघेन शरधारेण संवृतम वयरॊचन महिषाकीर्णं राज्ञा हतमहामृगम

🪷 The Honest Framing

This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.

Navigation

🪷 जय व्यास भगवान् 🪷