🪷 Mahābhārata · Ādi-Parva · Chapter 64
The Book of the Beginning · Parva 1 · 42 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 42 Shlokas
MBh 1.64.1
वैशंपायन उवाच
ततो मृगसहस्राणि हत्वा विपुलवाहनः
राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह
MBh 1.64.2
एक एवोत्तमबलः क्षुत्पिपासासमन्वितः
स वनस्यान्तमासाद्य महदीरिणमासदत्
MBh 1.64.3
तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम्
मनःप्रह्लादजननं दृष्टिकान्तमतीव च
शीतमारुतसंयुक्तं जगामान्यन्महद्वनम्
MBh 1.64.4
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम्
विपुलं मधुरारावैर्नादितं विहगैस्तथा
MBh 1.64.5
प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम्
षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम्
MBh 1.64.6
नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी
षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत्
MBh 1.64.7
विहगैर्नादितं पुष्पैरलंकृतमतीव च
सर्वर्तुकुसुमैर्वृक्षैरतीव सुखशाद्वलम्
मनोरमं महेष्वासो विवेश वनमुत्तमम्
MBh 1.64.8
मारुतागलितास्तत्र द्रुमाः कुसुमशालिनः
पुष्पवृष्टिं विचित्रां स्म व्यसृजंस्ते पुनः पुनः
MBh 1.64.9
दिवस्पृशोऽथ संघुष्टाः पक्षिभिर्मधुरस्वरैः
विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः
MBh 1.64.10
तेषां तत्र प्रवालेषु पुष्पभारावनामिषु
रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु
MBh 1.64.11
तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान्
लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान्
संपश्यन्स महातेजा बभूव मुदितस्तदा
MBh 1.64.12
परस्पराश्लिष्टशाखैः पादपैः कुसुमाचितैः
अशोभत वनं तत्तैर्महेन्द्रध्वजसंनिभैः
MBh 1.64.13
सुखशीतः सुगन्धी च पुष्परेणुवहोऽनिलः
परिक्रामन्वने वृक्षानुपैतीव रिरंसया
MBh 1.64.14
एवंगुणसमायुक्तं ददर्श स वनं नृपः
नदीकच्छोद्भवं कान्तमुच्छ्रितध्वजसंनिभम्
MBh 1.64.15
प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहंगमम्
आश्रमप्रवरं रम्यं ददर्श च मनोरमम्
MBh 1.64.16
नानावृक्षसमाकीर्णं संप्रज्वलितपावकम्
यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम्
MBh 1.64.17
अग्न्यागारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम्
महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च
MBh 1.64.18
मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम्
नैकपक्षिगणाकीर्णां तपोवनमनोरमाम्
तत्र व्यालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः
MBh 1.64.19
तं चाप्यतिरथः श्रीमानाश्रमं प्रत्यपद्यत
देवलोकप्रतीकाशं सर्वतः सुमनोहरम्
MBh 1.64.20
नदीमाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः
सर्वप्राणभृतां तत्र जननीमिव विष्ठिताम्
MBh 1.64.21
सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम्
सकिंनरगणावासां वानरर्क्षनिषेविताम्
MBh 1.64.22
पुण्यस्वाध्यायसंघुष्टां पुलिनैरुपशोभिताम्
मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम्
MBh 1.64.23
नदीमाश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा
चकाराभिप्रवेशाय मतिं स नृपतिस्तदा
MBh 1.64.24
अलंकृतं द्वीपवत्या मालिन्या रम्यतीरया
नरनारायणस्थानं गङ्गयेवोपशोभितम्
मत्तबर्हिणसंघुष्टं प्रविवेश महद्वनम्
MBh 1.64.25
तत्स चैत्ररथप्रख्यं समुपेत्य नरेश्वरः
अतीव गुणसंपन्नमनिर्देश्यं च वर्चसा
महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम्
MBh 1.64.26
रथिनीमश्वसंबाधां पदातिगणसंकुलाम्
अवस्थाप्य वनद्वारि सेनामिदमुवाच सः
MBh 1.64.27
मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम्
काश्यपं स्थीयतामत्र यावदागमनं मम
MBh 1.64.28
तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः
क्षुत्पिपासे जहौ राजा हर्षं चावाप पुष्कलम्
MBh 1.64.29
सामात्यो राजलिङ्गानि सोऽपनीय नराधिपः
पुरोहितसहायश्च जगामाश्रममुत्तमम्
दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम्
MBh 1.64.30
ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य च
षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम्
MBh 1.64.31
ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः
शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु
MBh 1.64.32
यज्ञविद्याङ्गविद्भिश्च क्रमद्भिश्च क्रमानपि
अमितात्मभिः सुनियतैः शुशुभे स तदाश्रमः
MBh 1.64.33
अथर्ववेदप्रवराः पूगयाज्ञिक संमताः
संहितामीरयन्ति स्म पदक्रमयुतां तु ते
MBh 1.64.34
शब्दसंस्कारसंयुक्तं ब्रुवद्भिश्चापरैर्द्विजैः
नादितः स बभौ श्रीमान्ब्रह्मलोक इवाश्रमः
MBh 1.64.35
यज्ञसंस्कारविद्भिश्च क्रमशिक्षा विशारदैः
न्यायतत्त्वार्थविज्ञानसंपन्नैर्वेदपारगैः
MBh 1.64.36
नानावाक्यसमाहारसमवायविशारदैः
विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः
MBh 1.64.37
स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः
लोकायतिकमुख्यैश्च समन्तादनुनादितम्
MBh 1.64.38
तत्र तत्र च विप्रेन्द्रान्नियतान्संशितव्रतान्
जपहोमपरान्सिद्धान्ददर्श परवीरहा
MBh 1.64.39
आसनानि विचित्राणि पुष्पवन्ति महीपतिः
प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत्
MBh 1.64.40
देवतायतनानां च पूजां प्रेक्ष्य कृतां द्विजैः
ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः
MBh 1.64.41
स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम्
नातृप्यत्प्रेक्षमाणो वै तपोधनगणैर्युतम्
MBh 1.64.42
स काश्यपस्यायतनं महाव्रतै;र्वृतं समन्तादृषिभिस्तपोधनैः
विवेश सामात्यपुरोहितोऽरिहा; विविक्तमत्यर्थमनोहरं शिवम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 63
- Next chapter · Ādi-Parva Ch 65 →
Sources and Connected Readings
Continue from these 42 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.64local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷