🪷 Mahābhārata · Ādi-Parva · Chapter 62
The Book of the Beginning · Parva 1 · 14 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 14 Shlokas
MBh 1.62.1
[ज]
तवत्तः शरुतम इदं बरह्मन देवदानवरक्षसाम
अंशावतरणं सम्यग गन्धर्वाप्सरसां तथा
MBh 1.62.2
इमं तु भूय इच्छामि कुरूणां वंशम आदितः
कथ्यमानं तवया विप्र विप्रर्षिगणसंनिधौ
MBh 1.62.3
[व]
पौरवाणां वंशकरॊ दुःषन्तॊ नाम वीर्यवान
पृथिव्याश चतुरन्ताया गॊप्ता भरतसत्तम
MBh 1.62.4
चतुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः
समुद्रावरणांश चापि देशान स समितिंजयः
MBh 1.62.5
आम्लेच्छाटविकान सर्वान स भुङ्क्ते रिपुमर्दनः
रत्नाकर समुद्रान्तांश चातुर्वर्ण्यजनावृतान
MBh 1.62.6
न वर्णसंकरकरॊ नाकृष्य करकृज जनः
न पापकृत कश चिद आसीत तस्मिन राजनि शासति
MBh 1.62.7
धर्म्यां रतिं सेवमाना धर्मार्थाव अभिपेदिरे
तदा नरा नरव्याघ्र तस्मिञ जनपदेश्वरे
MBh 1.62.8
नासीच चॊरभयं तात न कषुधा भयम अण्व अपि
नासीद वयाधिभयं चापि तस्मिञ जनपदेश्वरे
MBh 1.62.9
सवैर धर्मै रेमिरे वर्णा दैवे कर्मणि निःस्पृहाः
तम आश्रित्य महीपालम आसंश चैवाकुतॊ भयाः
MBh 1.62.10
कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च
सर्वरत्नसमृद्धा च मही वसुमती तदा
MBh 1.62.11
स चाद्भुतमहावीर्यॊ वज्रसंहननॊ युवा
उद्यम्य मन्दरं दॊर्भ्यां हरेत सवनकाननम
MBh 1.62.12
धनुष्य अथ गदायुद्धे तसरुप्रहरणेषु च
नागपृष्ठे ऽशवपृष्ठे च बभूव परिनिष्ठितः
MBh 1.62.13
बले विष्णुसमश चासीत तेजसा भास्करॊपमः
अक्षुब्धत्वे ऽरणव समः सहिष्णुत्वे धरा समः
MBh 1.62.14
संमतः स महीपालः परसन्नपुरराष्ट्रवान
भूयॊ धर्मपरैर भावैर विदितं जनम आवसत
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 61
- Next chapter · Ādi-Parva Ch 63 →
🪷 जय व्यास भगवान् 🪷