🪷 Mahābhārata · Ādi-Parva · Chapter 58

The Book of the Beginning · Parva 1 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 51 Shlokas

MBh 1.58.1
जनमेजय उवाच य एते कीर्तिता ब्रह्मन्ये चान्ये नानुकीर्तिताः सम्यक्ताञ्श्रोतुमिच्छामि राज्ञश्चान्यान्सुवर्चसः
MBh 1.58.2
यदर्थमिह संभूता देवकल्पा महारथाः भुवि तन्मे महाभाग सम्यगाख्यातुमर्हसि
MBh 1.58.3
वैशंपायन उवाच रहस्यं खल्विदं राजन्देवानामिति नः श्रुतम् तत्तु ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे
MBh 1.58.4
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां पुरा जामदग्न्यस्तपस्तेपे महेन्द्रे पर्वतोत्तमे
MBh 1.58.5
तदा निःक्षत्रिये लोके भार्गवेण कृते सति ब्राह्मणान्क्षत्रिया राजन्गर्भार्थिन्योऽभिचक्रमुः
MBh 1.58.6
ताभिः सह समापेतुर्ब्राह्मणाः संशितव्रताः ऋतावृतौ नरव्याघ्र न कामान्नानृतौ तथा
MBh 1.58.7
तेभ्यस्तु लेभिरे गर्भान्क्षत्रियास्ताः सहस्रशः ततः सुषुविरे राजन्क्षत्रियान्वीर्यसंमतान् कुमारांश्च कुमारीश्च पुनः क्षत्राभिवृद्धये
MBh 1.58.8
एवं तद्ब्राह्मणैः क्षत्रं क्षत्रियासु तपस्विभिः जातमृध्यत धर्मेण सुदीर्घेणायुषान्वितम् चत्वारोऽपि तदा वर्णा बभूवुर्ब्राह्मणोत्तराः
MBh 1.58.9
अभ्यगच्छन्नृतौ नारीं न कामान्नानृतौ तथा तथैवान्यानि भूतानि तिर्यग्योनिगतान्यपि ऋतौ दारांश्च गच्छन्ति तदा स्म भरतर्षभ
MBh 1.58.10
ततोऽवर्धन्त धर्मेण सहस्रशतजीविनः ताः प्रजाः पृथिवीपाल धर्मव्रतपरायणाः आधिभिर्व्याधिभिश्चैव विमुक्ताः सर्वशो नराः
MBh 1.58.11
अथेमां सागरापाङ्गां गां गजेन्द्रगताखिलाम् अध्यतिष्ठत्पुनः क्षत्रं सशैलवनकाननाम्
MBh 1.58.12
प्रशासति पुनः क्षत्रे धर्मेणेमां वसुंधराम् ब्राह्मणाद्यास्तदा वर्णा लेभिरे मुदमुत्तमाम्
MBh 1.58.13
कामक्रोधोद्भवान्दोषान्निरस्य च नराधिपाः दण्डं दण्ड्येषु धर्मेण प्रणयन्तोऽन्वपालयन्
MBh 1.58.14
तथा धर्मपरे क्षत्रे सहस्राक्षः शतक्रतुः स्वादु देशे च काले च ववर्षाप्याययन्प्रजाः
MBh 1.58.15
न बाल एव म्रियते तदा कश्चिन्नराधिप न च स्त्रियं प्रजानाति कश्चिदप्राप्तयौवनः
MBh 1.58.16
एवमायुष्मतीभिस्तु प्रजाभिर्भरतर्षभ इयं सागरपर्यन्ता समापूर्यत मेदिनी
MBh 1.58.17
ईजिरे च महायज्ञैः क्षत्रिया बहुदक्षिणैः साङ्गोपनिषदान्वेदान्विप्राश्चाधीयते तदा
MBh 1.58.18
न च विक्रीणते ब्रह्म ब्राह्मणाः स्म तदा नृप न च शूद्रसमाभ्याशे वेदानुच्चारयन्त्युत
MBh 1.58.19
कारयन्तः कृषिं गोभिस्तथा वैश्याः क्षिताविह न गामयुञ्जन्त धुरि कृशाङ्गाश्चाप्यजीवयन्
MBh 1.58.20
फेनपांश्च तथा वत्सान्न दुहन्ति स्म मानवाः न कूटमानैर्वणिजः पण्यं विक्रीणते तदा
MBh 1.58.21
कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः
MBh 1.58.22
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित्
MBh 1.58.23
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ फलन्त्यृतुषु वृक्षाश्च पुष्पाणि च फलानि च
MBh 1.58.24
एवं कृतयुगे सम्यग्वर्तमाने तदा नृप आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम्
MBh 1.58.25
ततः समुदिते लोके मानुषे भरतर्षभ असुरा जज्ञिरे क्षेत्रे राज्ञां मनुजपुंगव
MBh 1.58.26
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि ऐश्वर्याद्भ्रंशिताश्चापि संबभूवुः क्षिताविह
MBh 1.58.27
इह देवत्वमिच्छन्तो मानुषेषु मनस्विनः जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो
MBh 1.58.28
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च क्रव्यादेषु च भूतेषु गजेषु च मृगेषु च
MBh 1.58.29
जातैरिह महीपाल जायमानैश्च तैर्मही न शशाकात्मनात्मानमियं धारयितुं धरा
MBh 1.58.30
अथ जाता महीपालाः केचिद्बलसमन्विताः दितेः पुत्रा दनोश्चैव तस्माल्लोकादिह च्युताः
MBh 1.58.31
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम् इमां सागरपर्यन्तां परीयुररिमर्दनाः
MBh 1.58.32
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन् अन्यानि चैव भूतानि पीडयामासुरोजसा
MBh 1.58.33
त्रासयन्तो विनिघ्नन्तस्तांस्तान्भूतगणांश्च ते विचेरुः सर्वतो राजन्महीं शतसहस्रशः
MBh 1.58.34
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च
MBh 1.58.35
एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः पीड्यमाना महीपाल ब्रह्माणमुपचक्रमे
MBh 1.58.36
न हीमां पवनो राजन्न नागा न नगा महीम् तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात्
MBh 1.58.37
ततो मही महीपाल भारार्ता भयपीडिता जगाम शरणं देवं सर्वभूतपितामहम्
MBh 1.58.38
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम्
MBh 1.58.39
गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः वन्द्यमानं मुदोपेतैर्ववन्दे चैनमेत्य सा
MBh 1.58.40
अथ विज्ञापयामास भूमिस्तं शरणार्थिनी संनिधौ लोकपालानां सर्वेषामेव भारत
MBh 1.58.41
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवः पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः
MBh 1.58.42
स्रष्टा हि जगतः कस्मान्न संबुध्येत भारत सुरासुराणां लोकानामशेषेण मनोगतम्
MBh 1.58.43
तामुवाच महाराज भूमिं भूमिपतिर्विभुः प्रभवः सर्वभूतानामीशः शंभुः प्रजापतिः
MBh 1.58.44
यदर्थमसि संप्राप्ता मत्सकाशं वसुंधरे तदर्थं संनियोक्ष्यामि सर्वानेव दिवौकसः
MBh 1.58.45
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम्
MBh 1.58.46
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक् अस्यामेव प्रसूयध्वं विरोधायेति चाब्रवीत्
MBh 1.58.47
तथैव च समानीय गन्धर्वाप्सरसां गणान् उवाच भगवान्सर्वानिदं वचनमुत्तमम् स्वैरंशैः संप्रसूयध्वं यथेष्टं मानुषेष्विति
MBh 1.58.48
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा
MBh 1.58.49
अथ ते सर्वशोंऽशैः स्वैर्गन्तुं भूमिं कृतक्षणाः नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः
MBh 1.58.50
यः स चक्रगदापाणिः पीतवासासितप्रभः पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः
MBh 1.58.51
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम् अंशेनावतरस्वेति तथेत्याह च तं हरिः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 51 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.58local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷