🪷 Mahābhārata · Ādi-Parva · Chapter 57

The Book of the Beginning · Parva 1 · 106 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 106 Shlokas

MBh 1.57.1
वैशंपायन उवाच राजोपरिचरो नाम धर्मनित्यो महीपतिः बभूव मृगयां गन्तुं स कदाचिद्धृतव्रतः
MBh 1.57.2
स चेदिविषयं रम्यं वसुः पौरवनन्दनः इन्द्रोपदेशाज्जग्राह ग्रहणीयं महीपतिः
MBh 1.57.3
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोरतिम् देवः साक्षात्स्वयं वज्री समुपायान्महीपतिम्
MBh 1.57.4
इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत्
MBh 1.57.5
इन्द्र उवाच न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते तं पाहि धर्मो हि धृतः कृत्स्नं धारयते जगत्
MBh 1.57.6
लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान्
MBh 1.57.7
दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः ऊधः पृथिव्या यो देशस्तमावस नराधिप
MBh 1.57.8
पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः
MBh 1.57.9
अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः वसुपूर्णा च वसुधा वस चेदिषु चेदिप
MBh 1.57.10
धर्मशीला जनपदाः सुसंतोषाश्च साधवः न च मिथ्याप्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा
MBh 1.57.11
न च पित्रा विभज्यन्ते नरा गुरुहिते रताः युञ्जते धुरि नो गाश्च कृशाः संधुक्षयन्ति च
MBh 1.57.12
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत्
MBh 1.57.13
देवोपभोग्यं दिव्यं च आकाशे स्फाटिकं महत् आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते
MBh 1.57.14
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः चरिष्यस्युपरिस्थो वै देवो विग्रहवानिव
MBh 1.57.15
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् धारयिष्यति संग्रामे या त्वां शस्त्रैरविक्षतम्
MBh 1.57.16
लक्षणं चैतदेवेह भविता ते नराधिप इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत्
MBh 1.57.17
वैशंपायन उवाच यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः इष्टप्रदानमुद्दिश्य शिष्टानां परिपालिनीम्
MBh 1.57.18
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा प्रवेशं कारयामास गते संवत्सरे तदा
MBh 1.57.19
ततः प्रभृति चाद्यापि यष्ट्याः क्षितिपसत्तमैः प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः
MBh 1.57.20
अपरेद्युस्तथा चास्याः क्रियते उच्छ्रयो नृपैः अलंकृतायाः पिटकैर्गन्धैर्माल्यैश्च भूषणैः माल्यदामपरिक्षिप्ता विधिवत्क्रियतेऽपि च
MBh 1.57.21
भगवान्पूज्यते चात्र हास्यरूपेण शंकरः स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः
MBh 1.57.22
एतां पूजां महेन्द्रस्तु दृष्ट्वा देव कृतां शुभाम् वसुना राजमुख्येन प्रीतिमानब्रवीद्विभुः
MBh 1.57.23
ये पूजयिष्यन्ति नरा राजानश्च महं मम कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः
MBh 1.57.24
तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति तथा स्फीतो जनपदो मुदितश्च भविष्यति
MBh 1.57.25
एवं महात्मना तेन महेन्द्रेण नराधिप वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः
MBh 1.57.26
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः भूमिदानादिभिर्दानैर्यथा पूता भवन्ति वै वरदानमहायज्ञैस्तथा शक्रोत्सवेन ते
MBh 1.57.27
संपूजितो मघवता वसुश्चेदिपतिस्तदा पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् इन्द्रप्रीत्या भूमिपतिश्चकारेन्द्रमहं वसुः
MBh 1.57.28
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत्
MBh 1.57.29
महारथो मगधराड्विश्रुतो यो बृहद्रथः प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् मच्छिल्लश्च यदुश्चैव राजन्यश्चापराजितः
MBh 1.57.30
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च वासवाः पञ्च राजानः पृथग्वंशाश्च शाश्वताः
MBh 1.57.31
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम्
MBh 1.57.32
पुरोपवाहिनीं तस्य नदीं शुक्तिमतीं गिरिः अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल
MBh 1.57.33
गिरिं कोलाहलं तं तु पदा वसुरताडयत् निश्चक्राम नदी तेन प्रहारविवरेण सा
MBh 1.57.34
तस्यां नद्यामजनयन्मिथुनं पर्वतः स्वयम् तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत्
MBh 1.57.35
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमम् चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः
MBh 1.57.36
वसोः पत्नी तु गिरिका कामात्काले न्यवेदयत् ऋतुकालमनुप्राप्तं स्नाता पुंसवने शुचिः
MBh 1.57.37
तदहः पितरश्चैनमूचुर्जहि मृगानिति तं राजसत्तमं प्रीतास्तदा मतिमतां वरम्
MBh 1.57.38
स पितॄणां नियोगं तमव्यतिक्रम्य पार्थिवः चचार मृगयां कामी गिरिकामेव संस्मरन् अतीव रूपसंपन्नां साक्षाच्छ्रियमिवापराम्
MBh 1.57.39
तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः
MBh 1.57.40
प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः
MBh 1.57.41
संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः अमोघत्वं च विज्ञाय रेतसो राजसत्तमः
MBh 1.57.42
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत्
MBh 1.57.43
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै
MBh 1.57.44
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् जवं परममास्थाय प्रदुद्राव विहंगमः
MBh 1.57.45
तमपश्यदथायान्तं श्येनं श्येनस्तथापरः अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया
MBh 1.57.46
तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि
MBh 1.57.47
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः मीनभावमनुप्राप्ता बभूव यमुनाचरी
MBh 1.57.48
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी
MBh 1.57.49
कदाचिदथ मत्सीं तां बबन्धुर्मत्स्यजीविनः मासे च दशमे प्राप्ते तदा भरतसत्तम उज्जह्रुरुदरात्तस्याः स्त्रीपुमांसं च मानुषम्
MBh 1.57.50
आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन् काये मत्स्या इमौ राजन्संभूतौ मानुषाविति
MBh 1.57.51
तयोः पुमांसं जग्राह राजोपरिचरस्तदा स मत्स्यो नाम राजासीद्धार्मिकः सत्यसंगरः
MBh 1.57.52
साप्सरा मुक्तशापा च क्षणेन समपद्यत पुरोक्ता या भगवता तिर्यग्योनिगता शुभे मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि
MBh 1.57.53
ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च सिद्धर्षिचारणपथं जगामाथ वराप्सराः
MBh 1.57.54
या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी राज्ञा दत्ताथ दाशाय इयं तव भवत्विति रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः
MBh 1.57.55
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् आसीन्मत्स्यसगन्धैव कंचित्कालं शुचिस्मिता
MBh 1.57.56
शुश्रूषार्थं पितुर्नावं तां तु वाहयतीं जले तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः
MBh 1.57.57
अतीव रूपसंपन्नां सिद्धानामपि काङ्क्षिताम् दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम् विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुंगवः
MBh 1.57.58
साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान् आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः
MBh 1.57.59
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः येन देशः स सर्वस्तु तमोभूत इवाभवत्
MBh 1.57.60
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी
MBh 1.57.61
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् त्वत्संयोगाच्च दुष्येत कन्याभावो ममानघ
MBh 1.57.62
कन्यात्वे दूषिते चापि कथं शक्ष्ये द्विजोत्तम गन्तुं गृहं गृहे चाहं धीमन्न स्थातुमुत्सहे एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम्
MBh 1.57.63
एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि
MBh 1.57.64
वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते
MBh 1.57.65
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः
MBh 1.57.66
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता जगाम सह संसर्गमृषिणाद्भुतकर्मणा
MBh 1.57.67
तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि
MBh 1.57.68
ततो योजनगन्धेति तस्या नाम परिश्रुतम् पराशरोऽपि भगवाञ्जगाम स्वं निवेशनम्
MBh 1.57.69
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्
MBh 1.57.70
स मातरमुपस्थाय तपस्येव मनो दधे स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्
MBh 1.57.71
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत्
MBh 1.57.72
पादापसारिणं धर्मं विद्वान्स तु युगे युगे आयुः शक्तिं च मर्त्यानां युगानुगमवेक्ष्य च
MBh 1.57.73
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः
MBh 1.57.74
वेदानध्यापयामास महाभारतपञ्चमान् सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम्
MBh 1.57.75
प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः
MBh 1.57.76
तथा भीष्मः शांतनवो गङ्गायाममितद्युतिः वसुवीर्यात्समभवन्महावीर्यो महायशाः
MBh 1.57.77
शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया अणीमाण्डव्य इति वै विख्यातः सुमहायशाः
MBh 1.57.78
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् इषीकया मया बाल्यादेका विद्धा शकुन्तिका
MBh 1.57.79
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः
MBh 1.57.80
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि
MBh 1.57.81
तेन शापेन धर्मोऽपि शूद्रयोनावजायत विद्वान्विदुररूपेण धार्मी तनुरकिल्बिषी
MBh 1.57.82
संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः
MBh 1.57.83
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः
MBh 1.57.84
अनादिनिधनो देवः स कर्ता जगतः प्रभुः अव्यक्तमक्षरं ब्रह्म प्रधानं निर्गुणात्मकम्
MBh 1.57.85
आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम् पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम्
MBh 1.57.86
अनन्तमचलं देवं हंसं नारायणं प्रभुम् धातारमजरं नित्यं तमाहुः परमव्ययम्
MBh 1.57.87
पुरुषः स विभुः कर्ता सर्वभूतपितामहः धर्मसंवर्धनार्थाय प्रजज्ञेऽन्धकवृष्णिषु
MBh 1.57.88
अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ सात्यकिः कृतवर्मा च नारायणमनुव्रतौ सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ
MBh 1.57.89
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत
MBh 1.57.90
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः
MBh 1.57.91
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः वैताने कर्मणि तते पावकात्समजायत वीरो द्रोणविनाशाय धनुषा सह वीर्यवान्
MBh 1.57.92
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम्
MBh 1.57.93
प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात्
MBh 1.57.94
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ
MBh 1.57.95
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः
MBh 1.57.96
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः
MBh 1.57.97
धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः
MBh 1.57.98
जज्ञाते रूपसंपन्नावश्विभ्यां तु यमावुभौ नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ
MBh 1.57.99
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा
MBh 1.57.100
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः
MBh 1.57.101
पाण्डवेभ्योऽपि पञ्चभ्यः कृष्णायां पञ्च जज्ञिरे कुमारा रूपसंपन्नाः सर्वशस्त्रविशारदाः
MBh 1.57.102
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः
MBh 1.57.103
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः
MBh 1.57.104
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वमागता यां यक्षः पुरुषं चक्रे स्थूणः प्रियचिकीर्षया
MBh 1.57.105
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे
MBh 1.57.106
तेषामपरिमेयानि नामधेयानि सर्वशः न शक्यं परिसंख्यातुं वर्षाणामयुतैरपि एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 106 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.57local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷