🪷 Mahābhārata · Ādi-Parva · Chapter 56
The Book of the Beginning · Parva 1 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 33 Shlokas
MBh 1.56.1
जनमेजय उवाच
कथितं वै समासेन त्वया सर्वं द्विजोत्तम
महाभारतमाख्यानं कुरूणां चरितं महत्
MBh 1.56.2
कथां त्वनघ चित्रार्थामिमां कथयति त्वयि
विस्तरश्रवणे जातं कौतूहलमतीव मे
MBh 1.56.3
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्
MBh 1.56.4
न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः
अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः
MBh 1.56.5
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः
प्रयुज्यमानान्संक्लेशान्क्षान्तवन्तो दुरात्मनाम्
MBh 1.56.6
कथं नागायुतप्राणो बाहुशाली वृकोदरः
परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम
MBh 1.56.7
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः
शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा
MBh 1.56.8
कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा
अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः
MBh 1.56.9
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित्
अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः
MBh 1.56.10
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः
अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनंजयः
MBh 1.56.11
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन
यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः
MBh 1.56.12
वैशंपायन उवाच
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः
प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः
MBh 1.56.13
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम्
सत्यवत्यात्मजेनेह व्याख्यातममितौजसा
MBh 1.56.14
य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः
ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम्
MBh 1.56.15
इदं हि वेदैः समितं पवित्रमपि चोत्तमम्
श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम्
MBh 1.56.16
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते
इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी
MBh 1.56.17
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान्
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते
MBh 1.56.18
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम्
इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः
MBh 1.56.19
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा
महीं विजयते सर्वां शत्रूंश्चापि पराजयेत्
MBh 1.56.20
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत्
महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा
MBh 1.56.21
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम्
मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना
MBh 1.56.22
संप्रत्याचक्षते चैव आख्यास्यन्ति तथापरे
पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः
MBh 1.56.23
शरीरेण कृतं पापं वाचा च मनसैव च
सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा
MBh 1.56.24
भारतानां महज्जन्म शृण्वतामनसूयताम्
नास्ति व्याधिभयं तेषां परलोकभयं कुतः
MBh 1.56.25
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च
कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा
MBh 1.56.26
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्
अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम्
MBh 1.56.27
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः
ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते
MBh 1.56.28
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु
धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति
MBh 1.56.29
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः
अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितॄनपि
MBh 1.56.30
अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन्
तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते
MBh 1.56.31
भारतानां महज्जन्म महाभारतमुच्यते
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते
MBh 1.56.32
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः
महाभारतमाख्यानं कृतवानिदमुत्तमम्
MBh 1.56.33
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 55
- Next chapter · Ādi-Parva Ch 57 →
Sources and Connected Readings
Continue from these 33 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.56local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷