🪷 Mahābhārata · Ādi-Parva · Chapter 206

The Book of the Beginning · Parva 1 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 34 Shlokas

MBh 1.206.1
वैशंपायन उवाच तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः
MBh 1.206.2
वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये
MBh 1.206.3
कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः
MBh 1.206.4
एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः
MBh 1.206.5
रमणीयानि चित्राणि वनानि च सरांसि च सरितः सागरांश्चैव देशानपि च भारत
MBh 1.206.6
पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ स गङ्गाद्वारमासाद्य निवेशमकरोत्प्रभुः
MBh 1.206.7
तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो रथी
MBh 1.206.8
निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः
MBh 1.206.9
तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च कृतपुष्पोपहारेषु तीरान्तरगतेषु च
MBh 1.206.10
कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः
MBh 1.206.11
तथा पर्याकुले तस्मिन्निवेशे पाण्डुनन्दनः अभिषेकाय कौन्तेयो गङ्गामवततार ह
MBh 1.206.12
तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया
MBh 1.206.13
अपकृष्टो महाबाहुर्नागराजस्य कन्यया अन्तर्जले महाराज उलूप्या कामयानया
MBh 1.206.14
ददर्श पाण्डवस्तत्र पावकं सुसमाहितम् कौरव्यस्याथ नागस्य भवने परमार्चिते
MBh 1.206.15
तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनंजयः अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः
MBh 1.206.16
अग्निकार्यं स कृत्वा तु नागराजसुतां तदा प्रहसन्निव कौन्तेय इदं वचनमब्रवीत्
MBh 1.206.17
किमिदं साहसं भीरु कृतवत्यसि भामिनि कश्चायं सुभगो देशः का च त्वं कस्य चात्मजा
MBh 1.206.18
उलूप्युवाच ऐरावतकुले जातः कौरव्यो नाम पन्नगः तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी
MBh 1.206.19
साहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम् दृष्टवत्येव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता
MBh 1.206.20
तां मामनङ्गमथितां त्वत्कृते कुरुनन्दन अनन्यां नन्दयस्वाद्य प्रदानेनात्मनो रहः
MBh 1.206.21
अर्जुन उवाच ब्रह्मचर्यमिदं भद्रे मम द्वादशवार्षिकम् धर्मराजेन चादिष्टं नाहमस्मि स्वयंवशः
MBh 1.206.22
तव चापि प्रियं कर्तुमिच्छामि जलचारिणि अनृतं नोक्तपूर्वं च मया किंचन कर्हिचित्
MBh 1.206.23
कथं च नानृतं तत्स्यात्तव चापि प्रियं भवेत् न च पीड्येत मे धर्मस्तथा कुर्यां भुजंगमे
MBh 1.206.24
उलूप्युवाच जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः
MBh 1.206.25
परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति यो नोऽनुप्रविशेन्मोहात्स नो द्वादशवार्षिकम् वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः
MBh 1.206.26
तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् कृतं वस्तत्र धर्मार्थमत्र धर्मो न दुष्यति
MBh 1.206.27
परित्राणं च कर्तव्यमार्तानां पृथुलोचन कृत्वा मम परित्राणं तव धर्मो न लुप्यते
MBh 1.206.28
यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः स च ते धर्म एव स्याद्दत्त्वा प्राणान्ममार्जुन
MBh 1.206.29
भक्तां भजस्व मां पार्थ सतामेतन्मतं प्रभो न करिष्यसि चेदेवं मृतां मामुपधारय
MBh 1.206.30
प्राणदानान्महाबाहो चर धर्ममनुत्तमम् शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम
MBh 1.206.31
दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः साहं शरणमभ्येमि रोरवीमि च दुःखिता
MBh 1.206.32
याचे त्वामभिकामाहं तस्मात्कुरु मम प्रियम् स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि
MBh 1.206.33
वैशंपायन उवाच एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम्
MBh 1.206.34
स नागभवने रात्रिं तामुषित्वा प्रतापवान् उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 34 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.206local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷