🪷 Mahābhārata · Ādi-Parva · Chapter 205
The Book of the Beginning · Parva 1 · 30 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 30 Shlokas
MBh 1.205.1
वैशंपायन उवाच
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः
MBh 1.205.2
तेषां मनुजसिंहानां पञ्चानाममितौजसाम्
बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी
MBh 1.205.3
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः
बभूव परमप्रीता नागैरिव सरस्वती
MBh 1.205.4
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु
व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः
MBh 1.205.5
अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते
कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम
MBh 1.205.6
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः
आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान्
MBh 1.205.7
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः
प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः
MBh 1.205.8
ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते
शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति
MBh 1.205.9
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते
रोरूयमाणे च मयि क्रियतामस्त्रधारणम्
MBh 1.205.10
रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः
तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनंजयः
MBh 1.205.11
श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम्
आयुधानि च यत्रासन्पाण्डवानां महात्मनाम्
कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः
MBh 1.205.12
स प्रवेशाय चाशक्तो गमनाय च पाण्डवः
तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः
आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः
MBh 1.205.13
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः
अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः
MBh 1.205.14
उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः
यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम्
MBh 1.205.15
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे
प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत्
MBh 1.205.16
अनापृच्छ्य च राजानं गते मयि न संशयः
अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत्
MBh 1.205.17
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम
अधर्मो वा महानस्तु वने वा मरणं मम
शरीरस्यापि नाशेन धर्म एव विशिष्यते
MBh 1.205.18
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनंजयः
अनुप्रविश्य राजानमापृच्छ्य च विशां पते
MBh 1.205.19
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत
ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः
MBh 1.205.20
न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह
यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव
MBh 1.205.21
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी
शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम्
MBh 1.205.22
ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः
आजगाम पुरं वीरः सव्यसाची परंतपः
MBh 1.205.23
सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः
धर्मराजमुवाचेदं व्रतमादिश्यतां मम
MBh 1.205.24
समयः समतिक्रान्तो भवत्संदर्शनान्मया
वनवासं गमिष्यामि समयो ह्येष नः कृतः
MBh 1.205.25
इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम्
कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया
युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम्
MBh 1.205.26
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ
अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम्
सर्वं तदनुजानामि व्यलीकं न च मे हृदि
MBh 1.205.27
गुरोरनुप्रवेशो हि नोपघातो यवीयसः
यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः
MBh 1.205.28
निवर्तस्व महाबाहो कुरुष्व वचनं मम
न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता
MBh 1.205.29
अर्जुन उवाच
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम्
न सत्याद्विचलिष्यामि सत्येनायुधमालभे
MBh 1.205.30
वैशंपायन उवाच
सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः
वने द्वादश वर्षाणि वासायोपजगाम ह
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 204
- Next chapter · Ādi-Parva Ch 206 →
Sources and Connected Readings
Continue from these 30 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.205local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷