🪷 Mahābhārata · Ādi-Parva · Chapter 2
The Book of the Beginning · Parva 1 · 243 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 243 Shlokas
MBh 1.2.1
ऋषय ऊचुः
समन्तपञ्चकमिति यदुक्तं सूतनन्दन
एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम्
MBh 1.2.2
सूत उवाच
शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः
समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः
MBh 1.2.3
त्रेताद्वापरयोः संधौ रामः शस्त्रभृतां वरः
असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः
MBh 1.2.4
स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः
समन्तपञ्चके पञ्च चकार रुधिरह्रदान्
MBh 1.2.5
स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः
पितॄन्संतर्पयामास रुधिरेणेति नः श्रुतम्
MBh 1.2.6
अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम्
तं क्षमस्वेति सिषिधुस्ततः स विरराम ह
MBh 1.2.7
तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम्
समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम्
MBh 1.2.8
येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते
तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः
MBh 1.2.9
अन्तरे चैव संप्राप्ते कलिद्वापरयोरभूत्
समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः
MBh 1.2.10
तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया
MBh 1.2.11
एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः
पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः
MBh 1.2.12
तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः
यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः
MBh 1.2.13
ऋषय ऊचुः
अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन
एतदिच्छामहे श्रोतुं सर्वमेव यथातथम्
MBh 1.2.14
अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम्
यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव
MBh 1.2.15
सूत उवाच
एको रथो गजश्चैको नराः पञ्च पदातयः
त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते
MBh 1.2.16
पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः
त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते
MBh 1.2.17
त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः
स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः
MBh 1.2.18
चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी
अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः
MBh 1.2.19
अक्षौहिण्याः प्रसंख्यानं रथानां द्विजसत्तमाः
संख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः
MBh 1.2.20
शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः
गजानां तु परीमाणमेतदेवात्र निर्दिशेत्
MBh 1.2.21
ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव
नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः
MBh 1.2.22
पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च
दशोत्तराणि षट्प्राहुर्यथावदिह संख्यया
MBh 1.2.23
एतामक्षौहिणीं प्राहुः संख्यातत्त्वविदो जनाः
यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः
MBh 1.2.24
एतया संख्यया ह्यासन्कुरुपाण्डवसेनयोः
अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः
MBh 1.2.25
समेतास्तत्र वै देशे तत्रैव निधनं गताः
कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा
MBh 1.2.26
अहानि युयुधे भीष्मो दशैव परमास्त्रवित्
अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम्
MBh 1.2.27
अहनी युयुधे द्वे तु कर्णः परबलार्दनः
शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम्
MBh 1.2.28
तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः
प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम्
MBh 1.2.29
यत्तु शौनकसत्रे ते भारताख्यानविस्तरम्
आख्यास्ये तत्र पौलोममाख्यानं चादितः परम्
MBh 1.2.30
विचित्रार्थपदाख्यानमनेकसमयान्वितम्
अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः
MBh 1.2.31
आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम्
इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम्
MBh 1.2.32
इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा
स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक्
MBh 1.2.33
अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः
भारतस्येतिहासस्य श्रूयतां पर्वसंग्रहः
MBh 1.2.34
पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसंग्रहः
पौष्यं पौलोममास्तीकमादिवंशावतारणम्
MBh 1.2.35
ततः संभवपर्वोक्तमद्भुतं देवनिर्मितम्
दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते
MBh 1.2.36
ततो बकवधः पर्व पर्व चैत्ररथं ततः
ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते
MBh 1.2.37
क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम्
विदुरागमनं पर्व राज्यलम्भस्तथैव च
MBh 1.2.38
अर्जुनस्य वने वासः सुभद्राहरणं ततः
सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम्
MBh 1.2.39
ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम्
सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम्
MBh 1.2.40
जरासंधवधः पर्व पर्व दिग्विजयस्तथा
पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते
MBh 1.2.41
ततश्चार्घाभिहरणं शिशुपालवधस्ततः
द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम्
MBh 1.2.42
तत आरण्यकं पर्व किर्मीरवध एव च
ईश्वरार्जुनयोर्युद्धं पर्व कैरातसंज्ञितम्
MBh 1.2.43
इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम्
तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः
MBh 1.2.44
जटासुरवधः पर्व यक्षयुद्धमतः परम्
तथैवाजगरं पर्व विज्ञेयं तदनन्तरम्
MBh 1.2.45
मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम्
संवादश्च ततः पर्व द्रौपदीसत्यभामयोः
MBh 1.2.46
घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः
व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते
MBh 1.2.47
द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः
कुण्डलाहरणं पर्व ततः परमिहोच्यते
MBh 1.2.48
आरणेयं ततः पर्व वैराटं तदनन्तरम्
कीचकानां वधः पर्व पर्व गोग्रहणं ततः
MBh 1.2.49
अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम्
उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम्
MBh 1.2.50
ततः संजययानाख्यं पर्व ज्ञेयमतः परम्
प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया
MBh 1.2.51
पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम्
यानसंधिस्ततः पर्व भगवद्यानमेव च
MBh 1.2.52
ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः
निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः
MBh 1.2.53
रथातिरथसंख्या च पर्वोक्तं तदनन्तरम्
उलूकदूतागमनं पर्वामर्षविवर्धनम्
MBh 1.2.54
अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम्
भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम्
MBh 1.2.55
जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम्
भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम्
MBh 1.2.56
पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः
द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः
MBh 1.2.57
अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते
जयद्रथवधः पर्व घटोत्कचवधस्ततः
MBh 1.2.58
ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम्
मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते
MBh 1.2.59
कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम्
ह्रदप्रवेशनं पर्व गदायुद्धमतः परम्
MBh 1.2.60
सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम्
अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते
MBh 1.2.61
ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम्
जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम्
MBh 1.2.62
श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम्
आभिषेचनिकं पर्व धर्मराजस्य धीमतः
MBh 1.2.63
चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः
प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम्
MBh 1.2.64
शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम्
आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम्
MBh 1.2.65
ततः पर्व परिज्ञेयमानुशासनिकं परम्
स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः
MBh 1.2.66
ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम्
अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम्
MBh 1.2.67
पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च
नारदागमनं पर्व ततः परमिहोच्यते
MBh 1.2.68
मौसलं पर्व च ततो घोरं समनुवर्ण्यते
महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः
MBh 1.2.69
हरिवंशस्ततः पर्व पुराणं खिलसंज्ञितम्
भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत्
MBh 1.2.70
एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना
यथावत्सूतपुत्रेण लोमहर्षणिना पुनः
MBh 1.2.71
कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु
समासो भारतस्यायं तत्रोक्तः पर्वसंग्रहः
MBh 1.2.72
पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम्
पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः
MBh 1.2.73
आस्तीके सर्वनागानां गरुडस्य च संभवः
क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा
MBh 1.2.74
यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च
कथेयमभिनिर्वृत्ता भारतानां महात्मनाम्
MBh 1.2.75
विविधाः संभवा राज्ञामुक्ताः संभवपर्वणि
अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च
MBh 1.2.76
अंशावतरणं चात्र देवानां परिकीर्तितम्
दैत्यानां दानवानां च यक्षाणां च महौजसाम्
MBh 1.2.77
नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम्
अन्येषां चैव भूतानां विविधानां समुद्भवः
MBh 1.2.78
वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम्
शंतनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि
MBh 1.2.79
तेजोंशानां च संघाताद्भीष्मस्याप्यत्र संभवः
राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः
MBh 1.2.80
प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च
हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः
MBh 1.2.81
विचित्रवीर्यस्य तथा राज्ये संप्रतिपादनम्
धर्मस्य नृषु संभूतिरणीमाण्डव्यशापजा
MBh 1.2.82
कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा
धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च संभवः
MBh 1.2.83
वारणावतयात्रा च मन्त्रो दुर्योधनस्य च
विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया
MBh 1.2.84
पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम्
घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता
MBh 1.2.85
अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि
बकस्य निधनं चैव नागराणां च विस्मयः
MBh 1.2.86
अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा
भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ
MBh 1.2.87
तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम्
पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते
MBh 1.2.88
पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च
द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः
MBh 1.2.89
विदुरस्य च संप्राप्तिर्दर्शनं केशवस्य च
खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम्
MBh 1.2.90
नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया
सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम्
MBh 1.2.91
पार्थस्य वनवासश्च उलूप्या पथि संगमः
पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च
MBh 1.2.92
द्वारकायां सुभद्रा च कामयानेन कामिनी
वासुदेवस्यानुमते प्राप्ता चैव किरीटिना
MBh 1.2.93
हरणं गृह्य संप्राप्ते कृष्णे देवकिनन्दने
संप्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम्
MBh 1.2.94
अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः
मयस्य मोक्षो ज्वलनाद्भुजंगस्य च मोक्षणम्
महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसंभवः
MBh 1.2.95
इत्येतदादिपर्वोक्तं प्रथमं बहुविस्तरम्
अध्यायानां शते द्वे तु संख्याते परमर्षिणा
अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा
MBh 1.2.96
सप्त श्लोकसहस्राणि तथा नव शतानि च
श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना
MBh 1.2.97
द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते
सभाक्रिया पाण्डवानां किंकराणां च दर्शनम्
MBh 1.2.98
लोकपालसभाख्यानं नारदाद्देवदर्शनात्
राजसूयस्य चारम्भो जरासंधवधस्तथा
MBh 1.2.99
गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम्
राजसूयेऽर्घसंवादे शिशुपालवधस्तथा
MBh 1.2.100
यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च
दुर्योधनस्यावहासो भीमेन च सभातले
MBh 1.2.101
यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत्
यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत्
MBh 1.2.102
यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात्
तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः
पुनरेव ततो द्यूते समाह्वयत पाण्डवान्
MBh 1.2.103
एतत्सर्वं सभापर्व समाख्यातं महात्मना
अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र संख्यया
MBh 1.2.104
श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च
श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः
MBh 1.2.105
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत्
पौरानुगमनं चैव धर्मपुत्रस्य धीमतः
MBh 1.2.106
वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः
यत्र सौभवधाख्यानं किर्मीरवध एव च
अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः
MBh 1.2.107
महादेवेन युद्धं च किरातवपुषा सह
दर्शनं लोकपालानां स्वर्गारोहणमेव च
MBh 1.2.108
दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः
युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम्
MBh 1.2.109
नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम्
दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे
MBh 1.2.110
वनवासगतानां च पाण्डवानां महात्मनाम्
स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै
MBh 1.2.111
तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम्
जटासुरस्य तत्रैव वधः समुपवर्ण्यते
MBh 1.2.112
नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने
यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत्
MBh 1.2.113
यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः
यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा
MBh 1.2.114
आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम्
लोपामुद्राभिगमनमपत्यार्थमृषेरपि
MBh 1.2.115
ततः श्येनकपोतीयमुपाख्यानमनन्तरम्
इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम्
MBh 1.2.116
ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः
जामदग्न्यस्य रामस्य चरितं भूरितेजसः
MBh 1.2.117
कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते
सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः
MBh 1.2.118
शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ
ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः
MBh 1.2.119
जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः
पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः
MBh 1.2.120
अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम्
विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः
MBh 1.2.121
अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना
निवातकवचैर्युद्धं हिरण्यपुरवासिभिः
MBh 1.2.122
समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने
घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः
MBh 1.2.123
पुनरागमनं चैव तेषां द्वैतवनं सरः
जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात्
MBh 1.2.124
यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे
मार्कण्डेयसमस्यायामुपाख्यानानि भागशः
MBh 1.2.125
संदर्शनं च कृष्णस्य संवादश्चैव सत्यया
व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च
MBh 1.2.126
सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च
रामायणमुपाख्यानमत्रैव बहुविस्तरम्
MBh 1.2.127
कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात्
आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम्
जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम्
MBh 1.2.128
एतदारण्यकं पर्व तृतीयं परिकीर्तितम्
अत्राध्यायशते द्वे तु संख्याते परमर्षिणा
एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः
MBh 1.2.129
एकादश सहस्राणि श्लोकानां षट्शतानि च
चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम्
MBh 1.2.130
अतः परं निबोधेदं वैराटं पर्वविस्तरम्
विराटनगरं गत्वा श्मशाने विपुलां शमीम्
दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत
MBh 1.2.131
यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते
दुरात्मनो वधो यत्र कीचकस्य वृकोदरात्
MBh 1.2.132
गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि
गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः
MBh 1.2.133
विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः
अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम्
MBh 1.2.134
चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम्
अत्रापि परिसंख्यातमध्यायानां महात्मना
MBh 1.2.135
सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु
श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु
पर्वण्यस्मिन्समाख्याताः संख्यया परमर्षिणा
MBh 1.2.136
उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम्
उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया
दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ
MBh 1.2.137
साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति
इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः
MBh 1.2.138
अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ
अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम्
MBh 1.2.139
वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः
अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः
MBh 1.2.140
संजयं प्रेषयामास शमार्थं पाण्डवान्प्रति
यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान्
MBh 1.2.141
श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान्
प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया
MBh 1.2.142
विदुरो यत्र वाक्यानि विचित्राणि हितानि च
श्रावयामास राजानं धृतराष्ट्रं मनीषिणम्
MBh 1.2.143
तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम्
मनस्तापान्वितो राजा श्रावितः शोकलालसः
MBh 1.2.144
प्रभाते राजसमितौ संजयो यत्र चाभिभोः
ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च
MBh 1.2.145
यत्र कृष्णो दयापन्नः संधिमिच्छन्महायशाः
स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम्
MBh 1.2.146
प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै
शमार्थं याचमानस्य पक्षयोरुभयोर्हितम्
MBh 1.2.147
कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम्
योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम्
MBh 1.2.148
रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः
उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः
MBh 1.2.149
ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम्
नगराद्धास्तिनपुराद्बलसंख्यानमेव च
MBh 1.2.150
यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति
श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना
रथातिरथसंख्यानमम्बोपाख्यानमेव च
MBh 1.2.151
एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते
उद्योगपर्व निर्दिष्टं संधिविग्रहसंश्रितम्
MBh 1.2.152
अध्यायाः संख्यया त्वत्र षडशीतिशतं स्मृतम्
श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च
MBh 1.2.153
श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना
व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः
MBh 1.2.154
अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते
जम्बूखण्डविनिर्माणं यत्रोक्तं संजयेन ह
MBh 1.2.155
यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम्
यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम्
MBh 1.2.156
कश्मलं यत्र पार्थस्य वासुदेवो महामतिः
मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः
MBh 1.2.157
शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः
विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत्
MBh 1.2.158
षष्ठमेतन्महापर्व भारते परिकीर्तितम्
अध्यायानां शतं प्रोक्तं सप्तदश तथापरे
MBh 1.2.159
पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च
श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः
व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि
MBh 1.2.160
द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते
यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात्
MBh 1.2.161
भगदत्तो महाराजो यत्र शक्रसमो युधि
सुप्रतीकेन नागेन सह शस्तः किरीटिना
MBh 1.2.162
यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः
जयद्रथमुखा बालं शूरमप्राप्तयौवनम्
MBh 1.2.163
हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः
संशप्तकावशेषं च कृतं निःशेषमाहवे
MBh 1.2.164
अलम्बुसः श्रुतायुश्च जलसंधश्च वीर्यवान्
सौमदत्तिर्विराटश्च द्रुपदश्च महारथः
घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि
MBh 1.2.165
अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते
अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः
MBh 1.2.166
सप्तमं भारते पर्व महदेतदुदाहृतम्
अत्र ते पृथिवीपालाः प्रायशो निधनं गताः
द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः
MBh 1.2.167
अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा
अष्टौ श्लोकसहस्राणि तथा नव शतानि च
MBh 1.2.168
श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना
पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि
MBh 1.2.169
अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम्
सारथ्ये विनियोगश्च मद्रराजस्य धीमतः
आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम्
MBh 1.2.170
प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः
हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम्
MBh 1.2.171
अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः
द्वैरथे यत्र पार्थेन हतः कर्णो महारथः
MBh 1.2.172
अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः
एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि
चत्वार्येव सहस्राणि नव श्लोकशतानि च
MBh 1.2.173
अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम्
हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत्
MBh 1.2.174
वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः
विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते
MBh 1.2.175
शल्यस्य निधनं चात्र धर्मराजान्महारथात्
गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम्
सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता
MBh 1.2.176
नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत्
एकोनषष्टिरध्यायास्तत्र संख्याविशारदैः
MBh 1.2.177
संख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते
त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा
मुनिना संप्रणीतानि कौरवाणां यशोभृताम्
MBh 1.2.178
अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम्
भग्नोरुं यत्र राजानं दुर्योधनममर्षणम्
MBh 1.2.179
व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः
कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः
MBh 1.2.180
प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः
अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान्
पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम्
MBh 1.2.181
प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः
पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः
MBh 1.2.182
यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात्
सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः
MBh 1.2.183
द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता
कृतानशनसंकल्पा यत्र भर्तॄनुपाविशत्
MBh 1.2.184
द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः
अन्वधावत संक्रुद्धो भारद्वाजं गुरोः सुतम्
MBh 1.2.185
भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः
अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत्
MBh 1.2.186
मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः
यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः
MBh 1.2.187
द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः
तोयकर्मणि सर्वेषां राज्ञामुदकदानिके
MBh 1.2.188
गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः
सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम्
MBh 1.2.189
अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना
श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च
MBh 1.2.190
श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसंख्यया
सौप्तिकैषीकसंबन्धे पर्वण्यमितबुद्धिना
MBh 1.2.191
अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम्
विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः
क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः
MBh 1.2.192
यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः
पुत्रान्भ्रातॄन्पितॄंश्चैव ददृशुर्निहतान्रणे
MBh 1.2.193
यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः
राज्ञां तानि शरीराणि दाहयामास शास्त्रतः
MBh 1.2.194
एतदेकादशं प्रोक्तं पर्वातिकरुणं महत्
सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः
MBh 1.2.195
श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते
संख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना
प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम्
MBh 1.2.196
अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम्
यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः
घातयित्वा पितॄन्भ्रातॄन्पुत्रान्संबन्धिबान्धवान्
MBh 1.2.197
शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः
राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः
MBh 1.2.198
आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः
यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात्
मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः
MBh 1.2.199
द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम्
पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम्
त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः
MBh 1.2.200
श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश
पञ्च चैव शतान्याहुः पञ्चविंशतिसंख्यया
MBh 1.2.201
अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम्
यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम्
भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः
MBh 1.2.202
व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः
विविधानां च दानानां फलयोगाः पृथग्विधाः
MBh 1.2.203
तथा पात्रविशेषाश्च दानानां च परो विधिः
आचारविधियोगश्च सत्यस्य च परा गतिः
MBh 1.2.204
एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम्
भीष्मस्यात्रैव संप्राप्तिः स्वर्गस्य परिकीर्तिता
MBh 1.2.205
एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम्
अध्यायानां शतं चात्र षट्चत्वारिंशदेव च
श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च
MBh 1.2.206
ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम्
तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम्
MBh 1.2.207
सुवर्णकोशसंप्राप्तिर्जन्म चोक्तं परिक्षितः
दग्धस्यास्त्राग्निना पूर्वं कृष्णात्संजीवनं पुनः
MBh 1.2.208
चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः
तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः
MBh 1.2.209
चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनंजयः
संग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः
अश्वमेधे महायज्ञे नकुलाख्यानमेव च
MBh 1.2.210
इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम्
अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः
MBh 1.2.211
त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना
MBh 1.2.212
तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम्
यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः
धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह
MBh 1.2.213
यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा
पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता
MBh 1.2.214
यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान्
लोकान्तरगतान्वीरानपश्यत्पुनरागतान्
MBh 1.2.215
ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम्
त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः
MBh 1.2.216
यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः
संजयश्च महामात्रो विद्वान्गावल्गणिर्वशी
MBh 1.2.217
ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः
नारदाच्चैव शुश्राव वृष्णीनां कदनं महत्
MBh 1.2.218
एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम्
द्विचत्वारिंशदध्यायाः पर्वैतदभिसंख्यया
MBh 1.2.219
सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च
षडेव च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना
MBh 1.2.220
अतः परं निबोधेदं मौसलं पर्व दारुणम्
यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि
ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः
MBh 1.2.221
आपाने पानगलिता दैवेनाभिप्रचोदिताः
एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम्
MBh 1.2.222
यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ
नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम्
MBh 1.2.223
यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम्
दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः
MBh 1.2.224
स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः
ददर्श यदुवीराणामापाने वैशसं महत्
MBh 1.2.225
शरीरं वासुदेवस्य रामस्य च महात्मनः
संस्कारं लम्भयामास वृष्णीनां च प्रधानतः
MBh 1.2.226
स वृद्धबालमादाय द्वारवत्यास्ततो जनम्
ददर्शापदि कष्टायां गाण्डीवस्य पराभवम्
MBh 1.2.227
सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम्
नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम्
MBh 1.2.228
दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः
धर्मराजं समासाद्य संन्यासं समरोचयेत्
MBh 1.2.229
इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम्
अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम्
MBh 1.2.230
महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम्
यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः
द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः
MBh 1.2.231
अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा
विंशतिश्च तथा श्लोकाः संख्यातास्तत्त्वदर्शिना
MBh 1.2.232
स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम्
अध्यायाः पञ्च संख्याताः पर्वैतदभिसंख्यया
श्लोकानां द्वे शते चैव प्रसंख्याते तपोधनाः
MBh 1.2.233
अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः
खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम्
MBh 1.2.234
एतदखिलमाख्यातं भारतं पर्वसंग्रहात्
अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया
तन्महद्दारुणं युद्धमहान्यष्टादशाभवत्
MBh 1.2.235
यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः
न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः
MBh 1.2.236
श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते
पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव
MBh 1.2.237
इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः
पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः
MBh 1.2.238
अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः
अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः
MBh 1.2.239
क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः
इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः
MBh 1.2.240
अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते
आहारमनपाश्रित्य शरीरस्येव धारणम्
MBh 1.2.241
इदं सर्वैः कविवरैराख्यानमुपजीव्यते
उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः
MBh 1.2.242
द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च
यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन
MBh 1.2.243
आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसंग्रहेण
श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 1
- Next chapter · Ādi-Parva Ch 3 →
Sources and Connected Readings
Continue from these 243 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.2local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷