🪷 Mahābhārata · Ādi-Parva · Chapter 1

The Book of the Beginning · Parva 1 · 211 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 211 Shlokas

MBh 1.1.0
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् देवीं सरस्वतीं चैव ततो जयमुदीरयेत्
MBh 1.1.1
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे
MBh 1.1.2
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् विनयावनतो भूत्वा कदाचित्सूतनन्दनः
MBh 1.1.3
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः
MBh 1.1.4
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः
MBh 1.1.5
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः
MBh 1.1.6
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः
MBh 1.1.7
कुत आगम्यते सौते क्व चायं विहृतस्त्वया कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम
MBh 1.1.8
सूत उवाच जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च
MBh 1.1.9
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः कथिताश्चापि विधिवद्या वैशंपायनेन वै
MBh 1.1.10
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः बहूनि संपरिक्रम्य तीर्थान्यायतनानि च
MBh 1.1.11
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम्
MBh 1.1.12
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः
MBh 1.1.13
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः
MBh 1.1.14
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम्
MBh 1.1.15
ऋषय ऊचुः द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम्
MBh 1.1.16
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च
MBh 1.1.17
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम्
MBh 1.1.18
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान् यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया
MBh 1.1.19
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम्
MBh 1.1.20
सूत उवाच आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्
MBh 1.1.21
असच्च सच्चैव च यद्विश्वं सदसतः परम् परावराणां स्रष्टारं पुराणं परमव्ययम्
MBh 1.1.22
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्
MBh 1.1.23
महर्षेः पूजितस्येह सर्वलोके महात्मनः प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः
MBh 1.1.24
आचख्युः कवयः केचित्संप्रत्याचक्षते परे आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि
MBh 1.1.25
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः
MBh 1.1.26
अलंकृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम्
MBh 1.1.27
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते बृहदण्डमभूदेकं प्रजानां बीजमक्षयम्
MBh 1.1.28
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम्
MBh 1.1.29
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम्
MBh 1.1.30
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ
MBh 1.1.31
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये ततः प्रजानां पतयः प्राभवन्नेकविंशतिः
MBh 1.1.32
पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि
MBh 1.1.33
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः
MBh 1.1.34
राजर्षयश्च बहवः सर्वैः समुदिता गुणैः आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा
MBh 1.1.35
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम्
MBh 1.1.36
यदिदं दृश्यते किंचिद्भूतं स्थावरजङ्गमम् पुनः संक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये
MBh 1.1.37
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये दृश्यन्ते तानि तान्येव तथा भावा युगादिषु
MBh 1.1.38
एवमेतदनाद्यन्तं भूतसंहारकारकम् अनादिनिधनं लोके चक्रं संपरिवर्तते
MBh 1.1.39
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च त्रयस्त्रिंशच्च देवानां सृष्टिः संक्षेपलक्षणा
MBh 1.1.40
दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः सविता च ऋचीकोऽर्को भानुराशावहो रविः
MBh 1.1.41
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः
MBh 1.1.42
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान्
MBh 1.1.43
दश पुत्रसहस्राणि दशज्योतेर्महात्मनः ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः
MBh 1.1.44
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च
MBh 1.1.45
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः संभूता बहवो वंशा भूतसर्गाः सविस्तराः
MBh 1.1.46
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च
MBh 1.1.47
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च लोकयात्राविधानं च संभूतं दृष्टवानृषिः
MBh 1.1.48
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम्
MBh 1.1.49
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षेपमब्रवीत् इष्टं हि विदुषां लोके समासव्यासधारणम्
MBh 1.1.50
मन्वादि भारतं केचिदास्तीकादि तथापरे तथोपरिचराद्यन्ये विप्राः सम्यगधीयते
MBh 1.1.51
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे
MBh 1.1.52
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः
MBh 1.1.53
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः
MBh 1.1.54
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान्
MBh 1.1.55
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च जगाम तपसे धीमान्पुनरेवाश्रमं प्रति
MBh 1.1.56
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः
MBh 1.1.57
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः शशास शिष्यमासीनं वैशंपायनमन्तिके
MBh 1.1.58
स सदस्यैः सहासीनः श्रावयामास भारतम् कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः
MBh 1.1.59
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत्
MBh 1.1.60
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः
MBh 1.1.61
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः
MBh 1.1.62
ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम्
MBh 1.1.63
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः
MBh 1.1.64
नारदोऽश्रावयद्देवानसितो देवलः पितॄन् गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः
MBh 1.1.65
दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी
MBh 1.1.66
युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः माद्रीसुतौ पुष्पफले समृद्धे; मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च
MBh 1.1.67
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा
MBh 1.1.68
मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः
MBh 1.1.69
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः
MBh 1.1.70
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च
MBh 1.1.71
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः
MBh 1.1.72
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः
MBh 1.1.73
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम्
MBh 1.1.74
आहुः केचिन्न तस्यैते तस्यैत इति चापरे यदा चिरमृतः पाण्डुः कथं तस्येति चापरे
MBh 1.1.75
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम संततिम् उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः
MBh 1.1.76
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत्
MBh 1.1.77
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत्
MBh 1.1.78
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः
MBh 1.1.79
तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः
MBh 1.1.80
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च
MBh 1.1.81
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च तुतोष लोकः सकलस्तेषां शौर्यगुणेन च
MBh 1.1.82
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम्
MBh 1.1.83
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत्
MBh 1.1.84
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम्
MBh 1.1.85
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः
MBh 1.1.86
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च घातयित्वा जरासंधं चैद्यं च बलगर्वितम्
MBh 1.1.87
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च
MBh 1.1.88
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत
MBh 1.1.89
विमानप्रतिमां चापि मयेन सुकृतां सभाम् पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत
MBh 1.1.90
यत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात् प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत्
MBh 1.1.91
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः
MBh 1.1.92
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान्
MBh 1.1.93
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत
MBh 1.1.94
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम्
MBh 1.1.95
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत्
MBh 1.1.96
शृणु संजय मे सर्वं न मेऽसूयितुमर्हसि श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः
MBh 1.1.97
न विग्रहे मम मतिर्न च प्रीये कुरुक्षये न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च
MBh 1.1.98
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम्
MBh 1.1.99
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः तच्चावहसनं प्राप्य सभारोहणदर्शने
MBh 1.1.100
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे निरुत्साहश्च संप्राप्तुं श्रियमक्षत्रियो यथा गान्धारराजसहितश्छद्मद्यूतममन्त्रयत्
MBh 1.1.101
तत्र यद्यद्यथा ज्ञातं मया संजय तच्छृणु श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत
MBh 1.1.102
यदाश्रौषं धनुरायम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम् कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय संजय
MBh 1.1.103
यदाश्रौषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीमर्जुनेन इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय संजय
MBh 1.1.104
यदाश्रौषं देवराजं प्रवृष्टं; शरैर्दिव्यैर्वारितं चार्जुनेन अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय संजय
MBh 1.1.105
यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम् अन्वागतं भ्रातृभिरप्रमेयै;स्तदा नाशंसे विजयाय संजय
MBh 1.1.106
यदाश्रौषं द्रौपदीमश्रुकण्ठीं; सभां नीतां दुःखितामेकवस्त्राम् रजस्वलां नाथवतीमनाथव;त्तदा नाशंसे विजयाय संजय
MBh 1.1.107
यदाश्रौषं विविधास्तात चेष्टा; धर्मात्मनां प्रस्थितानां वनाय ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां; तदा नाशंसे विजयाय संजय
MBh 1.1.108
यदाश्रौषं स्नातकानां सहस्रै;रन्वागतं धर्मराजं वनस्थम् भिक्षाभुजां ब्राह्मणानां महात्मनां; तदा नाशंसे विजयाय संजय
MBh 1.1.109
यदाश्रौषमर्जुनो देवदेवं; किरातरूपं त्र्यम्बकं तोष्य युद्धे अवाप तत्पाशुपतं महास्त्रं; तदा नाशंसे विजयाय संजय
MBh 1.1.110
यदाश्रौषं त्रिदिवस्थं धनंजयं; शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् अधीयानं शंसितं सत्यसंधं; तदा नाशंसे विजयाय संजय
MBh 1.1.111
यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान् तस्मिन्देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय संजय
MBh 1.1.112
यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय संजय
MBh 1.1.113
यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत प्रश्नानुक्तान्विब्रुवन्तं च सम्य;क्तदा नाशंसे विजयाय संजय
MBh 1.1.114
यदाश्रौषं मामकानां वरिष्ठा;न्धनंजयेनैकरथेन भग्नान् विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय संजय
MBh 1.1.115
यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्तामुत्तरामर्जुनाय तां चार्जुनः प्रत्यगृह्णात्सुतार्थे; तदा नाशंसे विजयाय संजय
MBh 1.1.116
यदाश्रौषं निर्जितस्याधनस्य; प्रव्राजितस्य स्वजनात्प्रच्युतस्य अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय संजय
MBh 1.1.117
यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतो नारदस्य अहं द्रष्टा ब्रह्मलोके सदेति; तदा नाशंसे विजयाय संजय
MBh 1.1.118
यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम् यस्येमां गां विक्रममेकमाहु;स्तदा नाशंसे विजयाय संजय
MBh 1.1.119
यदाश्रौषं कर्णदुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय संजय
MBh 1.1.120
यदाश्रौषं वासुदेवे प्रयाते; रथस्यैकामग्रतस्तिष्ठमानाम् आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय संजय
MBh 1.1.121
यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शांतनवं च तेषाम् भारद्वाजं चाशिषोऽनुब्रुवाणं; तदा नाशंसे विजयाय संजय
MBh 1.1.122
यदाश्रौषं कर्ण उवाच भीष्मं; नाहं योत्स्ये युध्यमाने त्वयीति हित्वा सेनामपचक्राम चैव; तदा नाशंसे विजयाय संजय
MBh 1.1.123
यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर्गाण्डिवमप्रमेयम् त्रीण्युग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय संजय
MBh 1.1.124
यदाश्रौषं कश्मलेनाभिपन्ने; रथोपस्थे सीदमानेऽर्जुने वै कृष्णं लोकान्दर्शयानं शरीरे; तदा नाशंसे विजयाय संजय
MBh 1.1.125
यदाश्रौषं भीष्मममित्रकर्शनं; निघ्नन्तमाजावयुतं रथानाम् नैषां कश्चिद्वध्यते दृश्यरूप;स्तदा नाशंसे विजयाय संजय
MBh 1.1.126
यदाश्रौषं भीष्ममत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय संजय
MBh 1.1.127
यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः भीष्मं कृत्वा सोमकानल्पशेषां;स्तदा नाशंसे विजयाय संजय
MBh 1.1.128
यदाश्रौषं शांतनवे शयाने; पानीयार्थे चोदितेनार्जुनेन भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय संजय
MBh 1.1.129
यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानामनुलोमौ जयाय नित्यं चास्माञ्श्वापदा व्याभषन्त;स्तदा नाशंसे विजयाय संजय
MBh 1.1.130
यदा द्रोणो विविधानस्त्रमार्गा;न्विदर्शयन्समरे चित्रयोधी न पाण्डवाञ्श्रेष्ठतमान्निहन्ति; तदा नाशंसे विजयाय संजय
MBh 1.1.131
यदाश्रौषं चास्मदीयान्महारथा;न्व्यवस्थितानर्जुनस्यान्तकाय संशप्तकान्निहतानर्जुनेन; तदा नाशंसे विजयाय संजय
MBh 1.1.132
यदाश्रौषं व्यूहमभेद्यमन्यै;र्भारद्वाजेनात्तशस्त्रेण गुप्तम् भित्त्वा सौभद्रं वीरमेकं प्रविष्टं; तदा नाशंसे विजयाय संजय
MBh 1.1.133
यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः महारथाः पार्थमशक्नुवन्त;स्तदा नाशंसे विजयाय संजय
MBh 1.1.134
यदाश्रौषमभिमन्युं निहत्य; हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् क्रोधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय संजय
MBh 1.1.135
यदाश्रौषं सैन्धवार्थे प्रतिज्ञां; प्रतिज्ञातां तद्वधायार्जुनेन सत्यां निस्तीर्णां शत्रुमध्ये च तेन; तदा नाशंसे विजयाय संजय
MBh 1.1.136
यदाश्रौषं श्रान्तहये धनंजये; मुक्त्वा हयान्पाययित्वोपवृत्तान् पुनर्युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय संजय
MBh 1.1.137
यदाश्रौषं वाहनेष्वाश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेन सर्वान्योधान्वारितानर्जुनेन; तदा नाशंसे विजयाय संजय
MBh 1.1.138
यदाश्रौषं नागबलैर्दुरुत्सहं; द्रोणानीकं युयुधानं प्रमथ्य यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ; तदा नाशंसे विजयाय संजय
MBh 1.1.139
यदाश्रौषं कर्णमासाद्य मुक्तं; वधाद्भीमं कुत्सयित्वा वचोभिः धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय संजय
MBh 1.1.140
यदा द्रोणः कृतवर्मा कृपश्च; कर्णो द्रौणिर्मद्रराजश्च शूरः अमर्षयन्सैन्धवं वध्यमानं; तदा नाशंसे विजयाय संजय
MBh 1.1.141
यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय संजय
MBh 1.1.142
यदाश्रौषं कर्णघटोत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम् यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय संजय
MBh 1.1.143
यदाश्रौषं द्रोणमाचार्यमेकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् रथोपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय संजय
MBh 1.1.144
यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय संजय
MBh 1.1.145
यदा द्रोणे निहते द्रोणपुत्रो; नारायणं दिव्यमस्त्रं विकुर्वन् नैषामन्तं गतवान्पाण्डवानां; तदा नाशंसे विजयाय संजय
MBh 1.1.146
यदाश्रौषं कर्णमत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् तस्मिन्भ्रातॄणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय संजय
MBh 1.1.147
यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणमुग्रम् युधिष्ठिरं शून्यमधर्षयन्तं; तदा नाशंसे विजयाय संजय
MBh 1.1.148
यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत सदा संग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय संजय
MBh 1.1.149
यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन हतं संग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय संजय
MBh 1.1.150
यदाश्रौषं श्रान्तमेकं शयानं; ह्रदं गत्वा स्तम्भयित्वा तदम्भः दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय संजय
MBh 1.1.151
यदाश्रौषं पाण्डवांस्तिष्ठमाना;न्गङ्गाह्रदे वासुदेवेन सार्धम् अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय संजय
MBh 1.1.152
यदाश्रौषं विविधांस्तात मार्गा;न्गदायुद्धे मण्डलं संचरन्तम् मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय संजय
MBh 1.1.153
यदाश्रौषं द्रोणपुत्रादिभिस्तै;र्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् कृतं बीभत्समयशस्यं च कर्म; तदा नाशंसे विजयाय संजय
MBh 1.1.154
यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् क्रुद्धेनैषीकमवधीद्येन गर्भं; तदा नाशंसे विजयाय संजय
MBh 1.1.155
यदाश्रौषं ब्रह्मशिरोऽर्जुनेन; मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय संजय
MBh 1.1.156
यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे द्वैपायनः केशवो द्रोणपुत्रं; परस्परेणाभिशापैः शशाप
MBh 1.1.157
शोच्या गान्धारी पुत्रपौत्रैर्विहीना; तथा वध्वः पितृभिर्भ्रातृभिश्च कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यमसपत्नं पुनस्तैः
MBh 1.1.158
कष्टं युद्धे दश शेषाः श्रुता मे; त्रयोऽस्माकं पाण्डवानां च सप्त द्व्यूना विंशतिराहताक्षौहिणीनां; तस्मिन्संग्रामे विग्रहे क्षत्रियाणाम्
MBh 1.1.159
तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् संज्ञां नोपलभे सूत मनो विह्वलतीव मे
MBh 1.1.160
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत्
MBh 1.1.161
संजयैवंगते प्राणांस्त्यक्तुमिच्छामि माचिरम् स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे
MBh 1.1.162
तं तथावादिनं दीनं विलपन्तं महीपतिम् गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत्
MBh 1.1.163
श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् द्वैपायनस्य वदतो नारदस्य च धीमतः
MBh 1.1.164
महत्सु राजवंशेषु गुणैः समुदितेषु च जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः
MBh 1.1.165
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः अस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः
MBh 1.1.166
वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम्
MBh 1.1.167
बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् विश्वामित्रममित्रघ्नमम्बरीषं महाबलम्
MBh 1.1.168
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च रामं दाशरथिं चैव शशबिन्दुं भगीरथम्
MBh 1.1.169
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा
MBh 1.1.170
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः
MBh 1.1.171
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः महारथा महात्मानः सर्वैः समुदिता गुणैः
MBh 1.1.172
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः
MBh 1.1.173
विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः
MBh 1.1.174
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः अजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः
MBh 1.1.175
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः
MBh 1.1.176
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः
MBh 1.1.177
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः
MBh 1.1.178
अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः महापुराणः संभाव्यः प्रत्यङ्गः परहा श्रुतिः
MBh 1.1.179
एते चान्ये च बहवः शतशोऽथ सहस्रशः श्रूयन्तेऽयुतशश्चान्ये संख्याताश्चापि पद्मशः
MBh 1.1.180
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः
MBh 1.1.181
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम्
MBh 1.1.182
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः
MBh 1.1.183
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि
MBh 1.1.184
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत
MBh 1.1.185
निग्रहानुग्रहौ चापि विदितौ ते नराधिप नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे
MBh 1.1.186
भवितव्यं तथा तच्च नातः शोचितुमर्हसि दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति
MBh 1.1.187
विधातृविहितं मार्गं न कश्चिदतिवर्तते कालमूलमिदं सर्वं भावाभावौ सुखासुखे
MBh 1.1.188
कालः पचति भूतानि कालः संहरति प्रजाः निर्दहन्तं प्रजाः कालं कालः शमयते पुनः
MBh 1.1.189
कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान् कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः कालः सर्वेषु भूतेषु चरत्यविधृतः समः
MBh 1.1.190
अतीतानागता भावा ये च वर्तन्ति सांप्रतम् तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि
MBh 1.1.191
सूत उवाच अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् भारताध्ययनात्पुण्यादपि पादमधीयतः श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः
MBh 1.1.192
देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः
MBh 1.1.193
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः स हि सत्यमृतं चैव पवित्रं पुण्यमेव च
MBh 1.1.194
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः
MBh 1.1.195
असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते संततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः
MBh 1.1.196
अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् अव्यक्तादि परं यच्च स एव परिगीयते
MBh 1.1.197
यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताः प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम्
MBh 1.1.198
श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः आसेवन्निममध्यायं नरः पापात्प्रमुच्यते
MBh 1.1.199
अनुक्रमणिमध्यायं भारतस्येममादितः आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति
MBh 1.1.200
उभे संध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात् अनुक्रमण्या यावत्स्यादह्ना रात्र्या च संचितम्
MBh 1.1.201
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा
MBh 1.1.202
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् यथैतानि वरिष्ठानि तथा भारतमुच्यते
MBh 1.1.203
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः अक्षय्यमन्नपानं तत्पितॄंस्तस्योपतिष्ठति
MBh 1.1.204
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति
MBh 1.1.205
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते भ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः
MBh 1.1.206
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः
MBh 1.1.207
यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः
MBh 1.1.208
चत्वार एकतो वेदा भारतं चैकमेकतः समागतैः सुरर्षिभिस्तुलामारोपितं पुरा महत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकम्
MBh 1.1.209
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते
MBh 1.1.210
तपो न कल्कोऽध्ययनं न कल्कः; स्वाभाविको वेदविधिर्न कल्कः प्रसह्य वित्ताहरणं न कल्क;स्तान्येव भावोपहतानि कल्कः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 211 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.1local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷