🪷 Mahābhārata · Ādi-Parva · Chapter 199

The Book of the Beginning · Parva 1 · 50 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 50 Shlokas

MBh 1.199.1
द्रुपद उवाच एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् ममापि परमो हर्षः संबन्धेऽस्मिन्कृते विभो
MBh 1.199.2
गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा
MBh 1.199.3
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ
MBh 1.199.4
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ
MBh 1.199.5
युधिष्ठिर उवाच परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम्
MBh 1.199.6
वैशंपायन उवाच ततोऽब्रवीद्वासुदेवो गमनं मम रोचते यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित्
MBh 1.199.7
द्रुपद उवाच यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम
MBh 1.199.8
यथैव हि महाभागाः कौन्तेया मम सांप्रतम् तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः
MBh 1.199.9
न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः
MBh 1.199.10
वैशंपायन उवाच ततस्ते समनुज्ञाता द्रुपदेन महात्मना पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः
MBh 1.199.11
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् सविहारं सुखं जग्मुर्नगरं नागसाह्वयम्
MBh 1.199.12
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान्
MBh 1.199.13
विकर्णं च महेष्वासं चित्रसेनं च भारत द्रोणं च परमेष्वासं गौतमं कृपमेव च
MBh 1.199.14
तैस्ते परिवृता वीराः शोभमाना महारथाः नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा
MBh 1.199.15
कौतूहलेन नगरं दीर्यमाणमिवाभवत् यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः
MBh 1.199.16
तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः उदीरिता अशृण्वंस्ते पाण्डवा हृदयंगमाः
MBh 1.199.17
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् यो नः स्वानिव दायादान्धर्मेण परिरक्षति
MBh 1.199.18
अद्य पाण्डुर्महाराजो वनादिव वनप्रियः आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः
MBh 1.199.19
किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम् यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः
MBh 1.199.20
यदि दत्तं यदि हुतं विद्यते यदि नस्तपः तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम्
MBh 1.199.21
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम्
MBh 1.199.22
कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात्
MBh 1.199.23
विश्रान्तास्ते महात्मानः कंचित्कालं महाबलाः आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च
MBh 1.199.24
धृतराष्ट्र उवाच भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश
MBh 1.199.25
न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविश
MBh 1.199.26
वैशंपायन उवाच प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः अर्धं राज्यस्य संप्राप्य खाण्डवप्रस्थमाविशन्
MBh 1.199.27
ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः
MBh 1.199.28
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः नगरं मापयामासुर्द्वैपायनपुरोगमाः
MBh 1.199.29
सागरप्रतिरूपाभिः परिखाभिरलंकृतम् प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता
MBh 1.199.30
पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा
MBh 1.199.31
द्विपक्षगरुडप्रख्यैर्द्वारैर्घोरप्रदर्शनैः गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः
MBh 1.199.32
विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम्
MBh 1.199.33
तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम्
MBh 1.199.34
सुविभक्तमहारथ्यं देवताबाधवर्जितम् विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः
MBh 1.199.35
तत्त्रिविष्टपसंकाशमिन्द्रप्रस्थं व्यरोचत मेघवृन्दमिवाकाशे वृद्धं विद्युत्समावृतम्
MBh 1.199.36
तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम्
MBh 1.199.37
तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा
MBh 1.199.38
वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा
MBh 1.199.39
उद्यानानि च रम्याणि नगरस्य समन्ततः आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा
MBh 1.199.40
पुंनागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा शालतालकदम्बैश्च बकुलैश्च सकेतकैः
MBh 1.199.41
मनोहरैः पुष्पितैश्च फलभारावनामितैः प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः
MBh 1.199.42
जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः
MBh 1.199.43
नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतम् मत्तबर्हिणसंघुष्टं कोकिलैश्च सदामदैः
MBh 1.199.44
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः मनोहरैश्चित्रगृहैस्तथा जगतिपर्वतैः वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा
MBh 1.199.45
सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः
MBh 1.199.46
रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः तडागानि च रम्याणि बृहन्ति च महान्ति च
MBh 1.199.47
तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत
MBh 1.199.48
तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः
MBh 1.199.49
पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम् शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा
MBh 1.199.50
तान्निवेश्य ततो वीरो रामेण सह केशवः ययौ द्वारवतीं राजन्पाण्डवानुमते तदा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 50 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.199local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷