🪷 Mahābhārata · Ādi-Parva · Chapter 200
The Book of the Beginning · Parva 1 · 23 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 23 Shlokas
MBh 1.200.1
जनमेजय उवाच
एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन
अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः
MBh 1.200.2
सर्व एव महात्मानः पूर्वे मम पितामहाः
द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत
MBh 1.200.3
कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः
वर्तमाना महाभागा नाभिद्यन्त परस्परम्
MBh 1.200.4
श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया
MBh 1.200.5
वैशंपायन उवाच
धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः
रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परंतपाः
MBh 1.200.6
प्राप्य राज्यं महातेजाः सत्यसंधो युधिष्ठिरः
पालयामास धर्मेण पृथिवीं भ्रातृभिः सह
MBh 1.200.7
जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः
मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः
MBh 1.200.8
कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः
आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च
MBh 1.200.9
अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु
नारदस्त्वथ देवर्षिराजगाम यदृच्छया
आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः
MBh 1.200.10
देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि
प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत्
MBh 1.200.11
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत्
आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति
MBh 1.200.12
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः
प्रेषयामास कृष्णायै भगवन्तमुपस्थितम्
MBh 1.200.13
श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता
जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह
MBh 1.200.14
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी
कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा
MBh 1.200.15
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः
आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः
गम्यतामिति होवाच भगवांस्तामनिन्दिताम्
MBh 1.200.16
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान्
विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः
MBh 1.200.17
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी
यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम्
MBh 1.200.18
सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ
आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ
MBh 1.200.19
एकराज्यावेकगृहावेकशय्यासनाशनौ
तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः
MBh 1.200.20
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम्
यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर
MBh 1.200.21
युधिष्ठिर उवाच
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने
उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम्
MBh 1.200.22
अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा
यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम्
MBh 1.200.23
एतत्सर्वं यथावृत्तं विस्तरेण तपोधन
श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 199
- Next chapter · Ādi-Parva Ch 201 →
Sources and Connected Readings
Continue from these 23 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.200local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷