🪷 Mahābhārata · Ādi-Parva · Chapter 178
The Book of the Beginning · Parva 1 · 18 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 18 Shlokas
MBh 1.178.1
वैशंपायन उवाच
तेऽलंकृताः कुण्डलिनो युवानः; परस्परं स्पर्धमानाः समेताः
अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुरहंकृतेन
MBh 1.178.2
रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन
समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः
MBh 1.178.3
परस्परं स्पर्धया प्रेक्षमाणाः; संकल्पजेनापि परिप्लुताङ्गाः
कृष्णा ममैषेत्यभिभाषमाणा; नृपासनेभ्यः सहसोपतस्थुः
MBh 1.178.4
ते क्षत्रिया रङ्गगताः समेता; जिगीषमाणा द्रुपदात्मजां ताम्
चकाशिरे पर्वतराजकन्या;मुमां यथा देवगणाः समेताः
MBh 1.178.5
कन्दर्पबाणाभिनिपीडिताङ्गाः; कृष्णागतैस्ते हृदयैर्नरेन्द्राः
रङ्गावतीर्णा द्रुपदात्मजार्थं; द्वेष्यान्हि चक्रुः सुहृदोऽपि तत्र
MBh 1.178.6
अथाययुर्देवगणा विमानै; रुद्रादित्या वसवोऽथाश्विनौ च
साध्याश्च सर्वे मरुतस्तथैव; यमं पुरस्कृत्य धनेश्वरं च
MBh 1.178.7
दैत्याः सुपर्णाश्च महोरगाश्च; देवर्षयो गुह्यकाश्चारणाश्च
विश्वावसुर्नारदपर्वतौ च; गन्धर्वमुख्याश्च सहाप्सरोभिः
MBh 1.178.8
हलायुधस्तत्र च केशवश्च; वृष्ण्यन्धकाश्चैव यथा प्रधानाः
प्रेक्षां स्म चक्रुर्यदुपुंगवास्ते; स्थिताश्च कृष्णस्य मते बभूवुः
MBh 1.178.9
दृष्ट्वा हि तान्मत्तगजेन्द्ररूपा;न्पञ्चाभिपद्मानिव वारणेन्द्रान्
भस्मावृताङ्गानिव हव्यवाहा;न्पार्थान्प्रदध्यौ स यदुप्रवीरः
MBh 1.178.10
शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ
शनैः शनैस्तांश्च निरीक्ष्य रामो; जनार्दनं प्रीतमना ददर्श
MBh 1.178.11
अन्ये तु नानानृपपुत्रपौत्राः; कृष्णागतैर्नेत्रमनःस्वभावैः
व्यायच्छमाना ददृशुर्भ्रमन्तीं; संदष्टदन्तच्छदताम्रवक्त्राः
MBh 1.178.12
तथैव पार्थाः पृथुबाहवस्ते; वीरौ यमौ चैव महानुभावौ
तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे; कन्दर्पबाणाभिहता बभूवुः
MBh 1.178.13
देवर्षिगन्धर्वसमाकुलं त;त्सुपर्णनागासुरसिद्धजुष्टम्
दिव्येन गन्धेन समाकुलं च; दिव्यैश्च माल्यैरवकीर्यमाणम्
MBh 1.178.14
महास्वनैर्दुन्दुभिनादितैश्च; बभूव तत्संकुलमन्तरिक्षम्
विमानसंबाधमभूत्समन्ता;त्सवेणुवीणापणवानुनादम्
MBh 1.178.15
ततस्तु ते राजगणाः क्रमेण; कृष्णानिमित्तं नृप विक्रमन्तः
तत्कार्मुकं संहननोपपन्नं; सज्यं न शेकुस्तरसापि कर्तुम्
MBh 1.178.16
ते विक्रमन्तः स्फुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः
विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्नचित्ताः
MBh 1.178.17
हाहाकृतं तद्धनुषा दृढेन; निष्पिष्टभग्नाङ्गदकुण्डलं च
कृष्णानिमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलमार्तमासीत्
MBh 1.178.18
तस्मिंस्तु संभ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु
कुन्तीसुतो जिष्णुरियेष कर्तुं; सज्यं धनुस्तत्सशरं स वीरः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 177
- Next chapter · Ādi-Parva Ch 179 →
Sources and Connected Readings
Continue from these 18 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.178local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷