🪷 Mahābhārata · Ādi-Parva · Chapter 177
The Book of the Beginning · Parva 1 · 22 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 22 Shlokas
MBh 1.177.1
[धृ]
दुर्यॊधनॊ दुर्विषहॊ दुर्मुखॊ दुष्प्रधर्षणः
विविंशतिर विकर्णश च सहॊ दुःशासनः समः
MBh 1.177.2
युयुत्सुर वातवेगश च भीमवेगधरस तथा
उग्रायुधॊ बलाकी च कनकायुर विरॊचनः
MBh 1.177.3
सुकुण्डलश चित्रसेनः सुवर्चाः कनकध्वजः
नन्दकॊ बाहुशाली च कुण्डजॊ विकटस तथा
MBh 1.177.4
एते चान्ये च बहवॊ धार्तराट्रा महाबलाः
कर्णेन सहिता वीरास तवदर्थं समुपागताः
शतसंख्या महात्मानः परथिताः कषत्रियर्षभाः
MBh 1.177.5
शकुनिश च बलश चैव वृषकॊ ऽथ बृहद्बलः
एते गान्धर राजस्य सुताः सर्वे समागताः
MBh 1.177.6
अश्वत्थामा च भॊजश च सर्वशस्त्रभृतां वरौ
समवेतौ महात्मानौ तवदर्थे समलंकृतौ
MBh 1.177.7
बृहन्तॊ मणिमांश चैव दण्डधारश च वीर्यवान
सहदेवॊ जयत्सेनॊ मेघसंधिश च मागधः
MBh 1.177.8
विराटः सह पुत्राभ्यां शङ्खेनैवॊत्तरेण च
वार्धक्षेमिः सुवर्चाश च सेना बिन्दुश च पार्थिवः
MBh 1.177.9
अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा
सुमित्रः सुकुमारश च वृकः सत्यधृतिस तथा
MBh 1.177.10
सूर्यध्वजॊ रॊचमानॊ नीलश चित्रायुधस तथा
अंशुमांश चेकितानश च शरेणिमांश च महाबलः
MBh 1.177.11
समुद्रसेनपुत्रश च चन्द्र सेनः परतापवान
जलसंधः पिता पुत्रौ सुदण्डॊ दण्ड एव च
MBh 1.177.12
पौण्ड्रकॊ वासुदेवश च भगदत्तश च वीर्यवान
कलिङ्गस ताम्रलिप्तश च पत्तनाधिपतिस तथा
MBh 1.177.13
मद्रराजस तथा शल्यः सहपुत्रॊ महारथः
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च
MBh 1.177.14
कौरव्यः सॊमदत्तश च पुत्राश चास्य महारथाः
समवेतास तरयः शूरा भूरिर भूरिश्रवाः शलः
MBh 1.177.15
सुदक्षिणश च काम्बॊजॊ दृढधन्वा च कौरवः
बृहद्बलः सुषेणश च शिबिर औशीनरस तथा
MBh 1.177.16
संकर्षणॊ वासुदेवॊ रौक्मिणेयश च वीर्यवान
साम्बश च चारु देष्णश च सारणॊ ऽथ गदस तथा
MBh 1.177.17
अक्रूरः सात्यकिश चैव उद्धवश च महाबलः
कृतवर्मा च हार्दिक्यः पृथुर विपृथुर एव च
MBh 1.177.18
विडूरथश च कङ्कश च समीकः सारमेजयः
वीरॊ वातपतिश चैव झिल्ली पिण्डारकस तथा
उशीनरश च विक्रान्तॊ वृष्णयस ते परकीर्तिताः
MBh 1.177.19
भगीरथॊ बृहत कषत्रः सैन्धवश च जयद्रथः
बृहद्रथॊ बाह्लिकश च शरुतायुश च महारथः
MBh 1.177.20
उलूकः कैतवॊ राजा चित्राङ्गद शुभाङ्गदौ
वत्स राजश च धृतिमान कॊसलाधिपतिस तथा
MBh 1.177.21
एते चान्ये च बहवॊ नानाजनपदेश्वराः
तवदर्थम आगता भद्रे कषत्रियाः परथिता भुवि
MBh 1.177.22
एते वेत्स्यन्न्ति विक्रान्तास तवदर्थं लक्ष्यम उत्तमम
विध्येत य इमं लक्ष्यं वरयेथाः शुभे ऽदय तम
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 176
- Next chapter · Ādi-Parva Ch 178 →
🪷 जय व्यास भगवान् 🪷