🪷 Mahābhārata · Ādi-Parva · Chapter 120

The Book of the Beginning · Parva 1 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 1.120.1
जनमेजय उवाच कृपस्यापि महाब्रह्मन्संभवं वक्तुमर्हसि शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान्
MBh 1.120.2
वैशंपायन उवाच महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः पुत्रः किल महाराज जातः सह शरैर्विभो
MBh 1.120.3
न तस्य वेदाध्ययने तथा बुद्धिरजायत यथास्य बुद्धिरभवद्धनुर्वेदे परंतप
MBh 1.120.4
अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह
MBh 1.120.5
धनुर्वेदपरत्वाच्च तपसा विपुलेन च भृशं संतापयामास देवराजं स गौतमः
MBh 1.120.6
ततो जालपदीं नाम देवकन्यां सुरेश्वरः प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव
MBh 1.120.7
साभिगम्याश्रमपदं रमणीयं शरद्वतः धनुर्बाणधरं बाला लोभयामास गौतमम्
MBh 1.120.8
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत्
MBh 1.120.9
धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत
MBh 1.120.10
स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् अवतस्थे महाप्राज्ञो धैर्येण परमेण ह
MBh 1.120.11
यस्त्वस्य सहसा राजन्विकारः समपद्यत तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत
MBh 1.120.12
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह
MBh 1.120.13
शरस्तम्बे च पतितं द्विधा तदभवन्नृप तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः
MBh 1.120.14
मृगयां चरतो राज्ञः शंतनोस्तु यदृच्छया कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत
MBh 1.120.15
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् स राज्ञे दर्शयामास मिथुनं सशरं तदा
MBh 1.120.16
स तदादाय मिथुनं राजाथ कृपयान्वितः आजगाम गृहानेव मम पुत्राविति ब्रुवन्
MBh 1.120.17
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत्
MBh 1.120.18
कृपया यन्मया बालाविमौ संवर्धिताविति तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः
MBh 1.120.19
निहितौ गौतमस्तत्र तपसा तावविन्दत आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा
MBh 1.120.20
चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा सोऽचिरेणैव कालेन परमाचार्यतां गतः
MBh 1.120.21
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.120local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷