🪷 Mahābhārata · Ādi-Parva · Chapter 119
The Book of the Beginning · Parva 1 · 43 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 43 Shlokas
MBh 1.119.1
वैशंपायन उवाच
ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः
ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा
MBh 1.119.2
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः
रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि
MBh 1.119.3
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान्
आदाय विविशुः पौराः पुरं वारणसाह्वयम्
MBh 1.119.4
सततं स्मान्वतप्यन्त तमेव भरतर्षभम्
पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम्
MBh 1.119.5
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम्
संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत्
MBh 1.119.6
अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः
श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना
MBh 1.119.7
बहुमायासमाकीर्णो नानादोषसमाकुलः
लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति
MBh 1.119.8
गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने
मा द्रक्ष्यसि कुलस्यास्य घोरं संक्षयमात्मनः
MBh 1.119.9
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम्
अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः
सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम्
MBh 1.119.10
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम्
वनमादाय भद्रं ते गच्छावो यदि मन्यसे
MBh 1.119.11
तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता
वनं ययौ सत्यवती स्नुषाभ्यां सह भारत
MBh 1.119.12
ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम
देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा
MBh 1.119.13
अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा
अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि
MBh 1.119.14
धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि
बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन्
MBh 1.119.15
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे
धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति
MBh 1.119.16
हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने
शिरःसु च निगृह्यैनान्योधयामास पाण्डवः
MBh 1.119.17
शतमेकोत्तरं तेषां कुमाराणां महौजसाम्
एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः
MBh 1.119.18
पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली
चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान्
MBh 1.119.19
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः
आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति
MBh 1.119.20
फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा
तदा पादप्रहारेण भीमः कम्पयते द्रुमम्
MBh 1.119.21
प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः
सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः
MBh 1.119.22
न ते नियुद्धे न जवे न योग्यासु कदाचन
कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम्
MBh 1.119.23
एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः
अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा
MBh 1.119.24
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान्
भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत्
MBh 1.119.25
तस्य धर्मादपेतस्य पापानि परिपश्यतः
मोहादैश्वर्यलोभाच्च पापा मतिरजायत
MBh 1.119.26
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः
मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम्
MBh 1.119.27
अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम्
प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुंधराम्
MBh 1.119.28
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा
नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः
MBh 1.119.29
ततो जलविहारार्थं कारयामास भारत
चेलकम्बलवेश्मानि विचित्राणि महान्ति च
MBh 1.119.30
प्रमाणकोट्यामुद्देशं स्थलं किंचिदुपेत्य च
क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलंकृताः
सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः
MBh 1.119.31
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः
विहारावसथेष्वेव वीरा वासमरोचयन्
MBh 1.119.32
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः
प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम्
MBh 1.119.33
शीतं वासं समासाद्य श्रान्तो मदविमोहितः
निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत्
MBh 1.119.34
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः
गम्भीरं भीमवेगं च स्थलाज्जलमपातयत्
MBh 1.119.35
ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम्
उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः
MBh 1.119.36
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः
कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु
MBh 1.119.37
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः
त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः
MBh 1.119.38
प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत्
सारथिं चास्य दयितमपहस्तेन जघ्निवान्
MBh 1.119.39
भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम्
कालकूटं नवं तीक्ष्णं संभृतं लोमहर्षणम्
MBh 1.119.40
वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया
तच्चापि भुक्त्वाजरयदविकारो वृकोदरः
MBh 1.119.41
विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम्
भीमसंहननो भीमस्तदप्यजरयत्ततः
MBh 1.119.42
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः
अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान्
MBh 1.119.43
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 118
- Next chapter · Ādi-Parva Ch 120 →
Sources and Connected Readings
Continue from these 43 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.119local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷