🪷 Mahābhārata · Ādi-Parva · Chapter 111
The Book of the Beginning · Parva 1 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 36 Shlokas
MBh 1.111.1
वैशंपायन उवाच
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान्
सिद्धचारणसंघानां बभूव प्रियदर्शनः
MBh 1.111.2
शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः
स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत
MBh 1.111.3
केषांचिदभवद्भ्राता केषांचिदभवत्सखा
ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन्
MBh 1.111.4
स तु कालेन महता प्राप्य निष्कल्मषं तपः
ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ
MBh 1.111.5
स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः
प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः
उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः
MBh 1.111.6
दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम्
आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा
MBh 1.111.7
उद्यानानि कुबेरस्य समानि विषमाणि च
महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान्
MBh 1.111.8
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः
सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः
MBh 1.111.9
अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः
वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः
MBh 1.111.10
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे
न सीदेतामदुःखार्हे मा गमो भरतर्षभ
MBh 1.111.11
पाण्डुरुवाच
अप्रजस्य महाभागा न द्वारं परिचक्षते
स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः
MBh 1.111.12
ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि
पितृदेवर्षिमनुजदेयैः शतसहस्रशः
MBh 1.111.13
एतानि तु यथाकालं यो न बुध्यति मानवः
न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम्
MBh 1.111.14
यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन्
पुत्रैः श्राद्धैः पितॄंश्चापि आनृशंस्येन मानवान्
MBh 1.111.15
ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः
पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः
MBh 1.111.16
देहनाशे ध्रुवो नाशः पितॄणामेष निश्चयः
इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः
MBh 1.111.17
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना
तथैवास्मिन्मम क्षेत्रे कथं वै संभवेत्प्रजा
MBh 1.111.18
तापसा ऊचुः
अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम्
अपत्यमनघं राजन्वयं दिव्येन चक्षुषा
MBh 1.111.19
दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय
अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः
MBh 1.111.20
तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि
अपत्यं गुणसंपन्नं लब्ध्वा प्रीतिमवाप्स्यसि
MBh 1.111.21
वैशंपायन उवाच
तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत्
आत्मनो मृगशापेन जानन्नुपहतां क्रियाम्
MBh 1.111.22
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम्
अपत्योत्पादने योगमापदि प्रसमर्थयन्
MBh 1.111.23
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता
इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः
MBh 1.111.24
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः
सर्वमेवानपत्यस्य न पावनमिहोच्यते
MBh 1.111.25
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते
अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन्
MBh 1.111.26
मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः
नृशंसकारिणो भीरु यथैवोपहतं तथा
MBh 1.111.27
इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने
षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे
MBh 1.111.28
स्वयंजातः प्रणीतश्च परिक्रीतश्च यः सुतः
पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते
MBh 1.111.29
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः
सहोढो जातरेताश्च हीनयोनिधृतश्च यः
MBh 1.111.30
पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम्
उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि
MBh 1.111.31
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः
आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत्
MBh 1.111.32
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम्
सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि
MBh 1.111.33
शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति
या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि
MBh 1.111.34
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे
वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम्
MBh 1.111.35
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत्
तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान्
MBh 1.111.36
तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात्
मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 110
- Next chapter · Ādi-Parva Ch 112 →
Sources and Connected Readings
Continue from these 36 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.111local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷