🪷 Mahābhārata · Ādi-Parva · Chapter 110
The Book of the Beginning · Parva 1 · 45 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 45 Shlokas
MBh 1.110.1
वैशंपायन उवाच
तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम्
सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः
MBh 1.110.2
पाण्डुरुवाच
सतामपि कुले जाताः कर्मणा बत दुर्गतिम्
प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः
MBh 1.110.3
शश्वद्धर्मात्मना जातो बाल एव पिता मम
जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम्
MBh 1.110.4
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः
कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत्
MBh 1.110.5
तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा
त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः
MBh 1.110.6
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत्
सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्
अतीव तपसात्मानं योजयिष्याम्यसंशयम्
MBh 1.110.7
तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ
चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम्
MBh 1.110.8
पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः
MBh 1.110.9
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः
निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः
MBh 1.110.10
न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित्
प्रसन्नवदनो नित्यं सर्वभूतहिते रतः
MBh 1.110.11
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम्
स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति
MBh 1.110.12
एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च
असंभवे वा भैक्षस्य चरन्ननशनान्यपि
MBh 1.110.13
अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित्
नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन्
MBh 1.110.14
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः
नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः
MBh 1.110.15
न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन्
मरणं जीवितं चैव नाभिनन्दन्न च द्विषन्
MBh 1.110.16
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः
ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः
MBh 1.110.17
तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः
संपरित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः
MBh 1.110.18
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः
MBh 1.110.19
एतया सततं वृत्त्या चरन्नेवंप्रकारया
देहं संधारयिष्यामि निर्भयं मार्गमास्थितः
MBh 1.110.20
नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते
स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः
MBh 1.110.21
सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा
उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि
MBh 1.110.22
वैशंपायन उवाच
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः
अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत
MBh 1.110.23
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः
आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः
MBh 1.110.24
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः
पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः
प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम्
MBh 1.110.25
निशम्य वचनं भर्तुर्वनवासे धृतात्मनः
तत्समं वचनं कुन्ती माद्री च समभाषताम्
MBh 1.110.26
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ
आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत्
त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः
MBh 1.110.27
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे
त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः
MBh 1.110.28
यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते
अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः
MBh 1.110.29
पाण्डुरुवाच
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम्
स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्
MBh 1.110.30
त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः
वल्कली फलमूलाशी चरिष्यामि महावने
MBh 1.110.31
अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन्
कृशः परिमिताहारश्चीरचर्मजटाधरः
MBh 1.110.32
शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः
तपसा दुश्चरेणेदं शरीरमुपशोषयन्
MBh 1.110.33
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्
MBh 1.110.34
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम्
नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम्
MBh 1.110.35
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्
काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात्
MBh 1.110.36
वैशंपायन उवाच
इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः
ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च
वासांसि च महार्हाणि स्त्रीणामाभरणानि च
MBh 1.110.37
प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत
गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम्
MBh 1.110.38
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम्
प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुंगवः
MBh 1.110.39
ततस्तस्यानुयात्राणि ते चैव परिचारकाः
श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः
भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः
MBh 1.110.40
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम्
ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः
MBh 1.110.41
श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने
धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत
MBh 1.110.42
राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः
जगाम सह भार्याभ्यां ततो नागसभं गिरिम्
MBh 1.110.43
स चैत्ररथमासाद्य वारिषेणमतीत्य च
हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम्
MBh 1.110.44
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः
उवास स तदा राजा समेषु विषमेषु च
MBh 1.110.45
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च
शतशृङ्गे महाराज तापसः समपद्यत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 109
- Next chapter · Ādi-Parva Ch 111 →
Sources and Connected Readings
Continue from these 45 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 1.110local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷