वृषरोगशमनम्।
१-११ विश्वामित्रः। एकवृषः। एकावसानं द्वैपदम्, १, ४, ५, ७-१० साम्नी उष्णिक्,
२, ३ ,६, आसुरी अनुष्टुप्, ११ आसुरी गायत्री।
यद्ये॑कवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥१॥
यदि॑ द्विवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥२॥
यदि॑ त्रिवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥३॥
यदि॑ चतुर्वृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥४॥
यदि॑ पञ्चवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥५॥
यदि॑ षड्-वृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥६॥
यदि॑ सप्तवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥७॥
यद्य॑ष्टवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥८॥
यदि॑ नववृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥९॥
यदि॑ दशवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥१०॥
यद्ये॑काद॒शोऽसि॒ सोऽपो॑दको ऽसि ॥११॥
— Atharvaveda Kāṇḍa 5 · Sūkta 16 · Śaunaka shākhā · Devanāgarī yathārtha