🪷 Atharvaveda 5.17

Pañcama-Kāṇḍa · Sūkta 17

ब्रह्मजाया। १-१८ मयोभूः। ब्रह्मजाया। अनुष्टुप्, १-६ त्रिष्टुप्। तेऽवदन् प्रथ॒मा ब्र॑ह्मकिल्बि॒षेऽकू॑पारः सलि॒लो मा॑त॒रिश्वा॑ । वी॒डुह॑रा॒स्तप॑ उ॒ग्रं म॑यो॒भूरापो॑ दे॒वीः प्र॑थम॒जा ऋ॒तस्य॑ ॥१॥ सोमो॒ राजा॑ प्रथ॒मो ब्र॑ह्मजा॒यां पुनः॒ प्राय॑च्छ॒दहृ॑णीयमानः । अ॒न्व॒र्ति॒ता वरु॑णो मि॒त्र आ॑सीद॒ग्निर्होता॑ हस्त॒गृह्या नि॑नाय ॥२॥ हस्ते॑नै॒व ग्रा॒ह्यऽआ॒धिर॑स्या ब्रह्मजा॒येति॒ चेदवो॑चत्। न दू॒ताय॑ प्र॒हेया॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥३॥ यामा॒हुस्तार॑कै॒षा वि॑के॒शीति॑ दु॒च्छुनां॒ ग्राम॑मव॒पद्य॑मानाम्। सा ब्र॑ह्मजा॒या वि दु॑नोति रा॒ष्ट्रं यत्र॒ प्रापा॑दि श॒श उ॑ल्कु॒षीमा॑न्॥४॥ ब्र॒ह्म॒चा॒री च॑रति॒ वेवि॑ष॒द् विषः॒ स दे॒वानां॑ भव॒त्येक॒मङ्ग॑म्। तेन॑ जा॒या मन्व॑विन्द॒द् बृह॒स्पतिः॒ सोमे॑न नी॒तां जु॒ह्वं१ न दे॑वाः ॥५॥ दे॒वा वा ए॒तस्या॑मवदन्त॒ पूर्वे॑ सप्तऋ॒षय॒स्तप॑सा॒ ये नि॑षे॒दुः । भी॒मा जा॒या ब्रा॑ह्म॒णस्याप॑नीता दु॒र्धां द॑धाति पर॒मेव्योऽमन्॥६॥ ये गर्भा॑ अव॒पद्य॑न्ते॒ जग॒द् यच्चा॑पलु॒प्यते॑ । वी॒रा ये तृ॒ह्यन्ते॑ मि॒थो ब्र॑ह्मजा॒या हि॑नस्ति॒ तान्॥७॥ उत यत् पत॑यो॒ दश॑ स्त्रि॒याः पूर्वे॒ अब्रा॑ह्मणाः । ब्र॒ह्माचेद्धस्त॒मग्र॑ही॒त् स ए॒व पति॑रेक॒धा॥८॥ ब्रा॒ह्म॒ण ए॒व पति॒र्न रा॑ज॒न्यो॒३ न वैश्यः॑ । तत् सूर्यः॑ प्रब्रु॒वन्ने॑ति प॒ञ्चभ्यो॑ मान॒वेभ्यः॑ ॥९॥ पुन॒र्वै दे॒वा अ॑ददुः॒ पुन॑र्मनु॒ष्या अददुः । राजा॑नः स॒त्यं गृ॑ह्णा॒ना ब्र॑ह्मजा॒यां पुन॑र्ददुः ॥१०॥ पु॒न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वा दे॒वैर्नि॑किल्बि॒षम्। ऊर्जं॑ पृथि॒व्या भ॒क्त्वोरु॑गा॒यमुपा॑सते ॥११॥ नास्य॑ जा॒या श॑तवा॒ही क॑ल्या॒णी तल्प॒मा श॑ये । यस्मि॑न् रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ॥१२॥ न वि॑क॒र्णः पृ॒थुशि॑रा॒स्तस्मि॒न् वेश्म॑नि जायते । यस्मि॑न् रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ॥१३॥ नास्य॑ क्ष॒त्ता नि॒ष्कग्री॑वः सू॒नाना॑मेत्यग्र॒तः । यस्मि॑न् रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ॥१४॥ नास्य॑ श्वे॒तः कृ॑ष्ण॒कर्णो॑ धु॒रि यु॒क्तो म॑हीयते । यस्मि॑न् रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ॥१५॥ नास्य॒ क्षेत्रे॑ पुष्क॒रिणी॒ नाण्डीकं॑ जायते॒ बिस॑म्। यस्मि॑न् रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ॥१६॥ नास्मै॒ पृश्निं॒ वि दु॑हन्ति॒ येऽस्या॒ दोह॑मु॒पास॑ते । यस्मि॑न् रा॒ष्ट्रे नि॑रु॒ध्यते॑ ब्रह्मजा॒याचि॑त्त्या ॥१७॥ नास्य॑ धे॒नुः क॑ल्या॒णी नान॒ड्वान्त्स॑हते॒ धुर॑म्। विजा॑नि॒र्यत्र॑ ब्रह्म॒णो रात्रिं॒ वस॑ति पा॒पया॑ ॥१८॥
— Atharvaveda Kāṇḍa 5 · Sūkta 17 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷