🪷 Atharvaveda 5.15

Pañcama-Kāṇḍa · Sūkta 15

रोगोपशमनम्। १-११ विश्वामित्रः। मधुला वनस्पतिः। अनुष्टुप्, ४ पुरस्ताद्बृबती, ५,७,९ भुरिक्। एका॑ च मे॒ दश॑ च मे ऽपव॒क्तार॑ ओषधे । ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥१॥ द्वे च॑ मे विंश॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे । ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥२॥ ति॒स्रश्च॑ मे त्रिं॒शच्च॑ मे ऽपव॒क्तार॑ ओषधे । ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥३॥ चत॑स्रश्च मे चत्वारिं॒शच्च॑ मे ऽपव॒क्तार॑ ओषधे । ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥४॥ प॒ञ्च च॑ मे पञ्चा॒शच्च॑ मे ऽपव॒क्तार॑ ओषधे । ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥५॥ षट् च॑ मे ष॒ष्टिश्च॑ मे ऽपव॒क्तार॑ ओषधे । ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥६॥ स॒प्त च॑ मे सप्त॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे । ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥७॥ अ॒ष्ट च॑ मेऽशी॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे । ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥८॥ नव॑ च मे नव॒तिश्च॑ मे ऽपव॒क्तार॑ ओषधे । ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥९॥ दश॑ च मे श॒तं च मे॑ ऽपव॒क्तार॑ ओषधे । ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥१०॥ श॒तं च॑ मे स॒हस्रं॑ चापव॒क्तार॑ ओषधे । ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥११॥
— Atharvaveda Kāṇḍa 5 · Sūkta 15 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷