🪷 Atharvaveda 3.24

Tṛtīya-Kāṇḍa · Sūkta 24

समृद्घि-प्राप्तिः। १-७ भृगुः। वनस्पतिः. प्रजापतिः। अनुष्टुप्, २ निचृत्पथ्यापङ्क्तिः। पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ । अथो॒ पय॑स्वतीना॒मा भ॑रे॒ऽहं स॑हस्र॒शः ॥१॥ वेदा॒हं पय॑स्वन्तं च॒का॑र धा॒न्यं ऽ ब॒हु। सं॒भृत्वा॒ नाम॒ यो दे॒वस्तं व॒यं ह॑वामहे॒ योयो॒ अय॑ज्वनो गृ॒हे॥२॥ इ॒मा याः पञ्च॑ प्र॒दिशो॑ मान॒वीः पञ्च॑ कृ॒ष्टयः॑ । वृ॒ष्टे शापं॑ न॒दीरि॑वे॒ह स्फा॒तिं समा॑वहान्॥३॥ उदुत्सं॑ श॒तधा॑रं स॒हस्र॑धार॒मक्षि॑तम्। ए॒वास्माके॒दं धा॒न्यं ऽ स॒हस्र॑धार॒मक्षि॑तम्॥४॥ शत॑हस्त स॒माह॑र॒ सह॑स्रहस्त॒ सं कि॑र । कृ॒तस्य॑ का॒र्यऽस्य चे॒ह स्फा॒तिं स॒माव॑ह ॥५॥ ति॒स्रो मात्रा॑ गन्ध॒र्वाणां॒ चत॑स्रो गृ॒हप॑त्न्याः । तासां॒ या स्फा॑ति॒मत्त॑मा॒ तया॑ त्वा॒भि मृ॑शामसि ॥६॥ उ॒पो॒हश्च॑ समू॒हश्च॑ क्ष॒त्तारौ॑ ते प्रजापते । तावि॒हा व॑हतां स्फा॒तिं ब॒हुं भू॒मान॒मक्षि॑तम्॥७॥
— Atharvaveda Kāṇḍa 3 · Sūkta 24 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷